________________
समयप्राभृतं । प्रति निर्ममत्वोस्मि त धम्मणिम्ममतं समयस्स वियाणया विति तं शुद्धात्मभावनास्वरूप परेका निर्ममत्वं समयस्य शुद्धात्मनो विज्ञायकाः पुरषा अवंति कथयंतीति । किंच इदमपि परद्रव्यनिर्ममत्वं यत्पूर्व भणितं स्वसंवेदनशानमेव प्रत्याख्यानं तस्यैव विशेषव्याख्यानं सातव्यं इति गाथाद्वयं गतं । एवं गाथाचसुष्टयसमुदायेन सप्तमस्थल समाप्त । अथ शुद्धात्मैवोपादेय इति श्रद्धानं सम्यक्त्वं तस्मिन्नेव शुद्धात्मनि स्वसंवेदनं सम्यग्ज्ञानं तत्रैव निजात्मनि वीतरागस्वसंवेदननिश्चलरूपं चारित्रमिति निश्चयरत्नत्रयपरिणतजीवस्य कीदृशं स्वरूपं भवतीत्यावेदयन्सन् जीवाधिकारमुपसंहरति ।
आस्मख्याति:-अनि हि धर्माधर्माकाशकालपुद्गलजीवांतराणि स्वरसविनँभितानिवारितप्रसरविश्वघस्मरप्रचंडचिम्मात्रशक्तिकवलिततयात्यंतमंतर्मनानीवात्ममि प्रकाशमानानि टंकोत्कीर्णैकज्ञायकस्वभा चत्वेन तस्वतोंतस्तत्त्वस्य तदतिरिक्तस्वभावतया तत्वतो वहिस्तत्त्वरूपता परित्यक्तुमशक्यवान नाम मम संति । किंचतत्स्वयमेव च नित्यमेवोपयुक्ततत्त्वत एवैकमनाकुलमात्मानं कलयन् भगवानात्मैवाववुभ्यते यत्किलाह खत्वेकः ततः संवेद्यसंवेदकमावमात्रोपजातेतरेतरसंवलनेपि परिस्फुटस्वदमामस्वभावभेदतया धर्माधर्माकाशकालपुद्गलजीवांतराणि प्रति निर्ममत्वोस्मि । सर्वदेवात्मैकत्वगतत्वेन समयस्यैवमेव स्थितत्वात् इतीत्थं शेयमावविवेकोमूतः।
इति सति सह सर्वैरन्यभार्षिके स्खसमयमुपयोगी विभ्रदात्मानमेकं । - प्रकटितपरमार्थैर्दर्शनज्ञानवृत्तैः कृतपरिणतिरात्माराम एव प्रवृत्तः ॥ ३१ ॥ अथैवं दर्शनशानचारित्रपरिणतस्यात्मनः कीदृक् स्वरूपसंचेतनं भवतीत्यावेदयन्नुपसंहरति । अहमिको खलु सुद्धो दंशणणाणमइओ सदारूवी। णवि अस्थि मज्झ किंचिव अण्णं परमाणमित्तपि ॥४३॥
अहमेकः खलु शुदो दर्शमज्ञानमयः सदारूपी।
नाप्पस्ति मम किंचिदप्पन्यत्परमाणुमात्रमपि ॥४॥ तात्पर्यवृत्तिः--अहं अनादिदेहास्मैक्यभ्रोत्याज्ञानेन पूर्वमप्रतिवुद्धोपि करतलविन्यस्तसुप्तविस्मृत पश्चामिद्राविनाशस्मृतचामीकरावलोकनन्यायेन परमगुरुप्रसादेन प्रतिबुद्धो भूत्वा शुद्धात्मनि रतो यः सोहं वीतरागचिन्मानं ज्योतिः । पुनरपि कथं भूतः इको यद्यपि व्यवहारेण नरनारकादिरूपेणानेकस्तथापि शुद्धनिश्चयेन टंकोत्कीर्णज्ञायकैकस्वभावत्वादेकः । खलु स्फुट । पुनरपि किरूपः सुद्धो व्यावहारिकनव पदार्थभ्यः शुद्धनिश्चयनयेन मिनः । अथवा रागादिमावेभ्योमिनोहमिति शुद्धः । पुनरपि किंविशिष्टः दंसगणाणमइओ केवलदर्शनजानमयः । पुनरपि किरूपः सदारूची निश्चयनयेन रूपरसगंधस्पर्शाभावात्सदाप्यमूर्तः। णविअस्थि मज्म किंचिव अण्णं परमाणुमित्तं पि इत्थंभूतस्य सतः नैवास्ति ममान्यत्परमाणुमात्रमपि परद्रव्यं किमपि । यदेकत्वेन रंजकत्वेन वा पुनरपि मम मोहमुत्पादयति । कस्मात् परमविशुद्धज्ञानपरिणतत्वान् ।
इति समयसारख्यास्यायां शुद्धास्मानुभूतिलक्षणार्या तात्पर्यवृत्तौ स्थलसप्तकेन जो पस्सदि अप्पाण मित्यादि सप्तविंशतिगाथा तदनंतरमुपसंहारसूत्रमेकमिति समुदायेनाष्टाविंशतिगाथाभिर्जीवाधिकारः समाप्तः। इति प्रथमरंगः।
आत्मख्यातिः-यो हि नामानादिमोहोन्मत्ततयात्यंतमप्रतिबुद्धः सन् निर्विण्णेन गुरुणानवरतं प्रतिबोध्यमानः कथंचनापि प्रतिबुध्य निजकरतलविन्यस्तविस्मृतचामीकरावलोकनन्यायेन परमेश्वरमात्मानं ज्ञात्वा श्रद्धायानुचर्य च सम्यगेकात्मारामी भूतः से खल्वहमात्मात्मप्रत्यक्ष चिन्मात्र ज्योतिः । समस्तक्रमाक्रमप्रवर्त्तमानव्यावहारिकभावैश्चिन्मात्राकारेणामिद्यमानत्वादेकी नारकादिऔषविशेषाजीवपुण्यपापास्रवसंवरनिर्जराबंधमोक्षलक्षणव्यावहारिकनवतत्त्वम्यष्टकोत्कीर्णकशायकस्वभावमावेनास्यतविविक्तत्वाच्छुद्धः ।