________________
२६
सनातनजैनग्रंथमालायांचिन्मात्रतया सामान्यविशेषोपयोगात्मकतानतिक्रमणादर्शनज्ञानमयः स्पर्शरसगंधवर्णनिमित्तसंवेदनपरिणतवेपि स्पर्शादिरूपेण स्वयमपरिणमनात्परमार्थतः सदैवारूपीति प्रत्यगयं स्वरूपं संचेतयमानः प्रतयामि । एवं प्रत्ययतश्च मम बहिर्विचित्रस्वरूपसंपदा विश्वे परिस्फुरत्यपि न किंचनाप्यन्यत्परमाणुमात्रमप्यात्मीयत्वेन प्रतिभाति । यद्भावकत्वेन ज्ञेयत्वेन चैकीभूय भूयो मोहमुद्भावयति स्वरसतएवापुनःप्रादुर्भावाय समूलंमोहमुन्मूल्य महतो ज्ञानोद्योतस्य प्रस्फुरितत्वात् ।
मजंतु निर्भरममी सममेव लोका आलोकमुच्छूलति शांतरसे समस्ताः।
आप्लाव्य विभ्रमतिरस्करिणीभरेण प्रोन्मग्न एष भगवानवबोधसिंधुः ॥ ३२ ॥
इति श्रीसमयसारव्याख्यायामात्मख्यातौ पूर्वरंगः समाप्तः । तात्पर्यवृत्तिः-अथानंतरं श्रृंगारसहितपात्रवज्जीवाजीवावेकीभूतौ प्रविशतः । तत्र स्थलत्रयेण त्रिंशतगाथापर्यंतमजीवाधिकारः कथ्यते । तेषु प्रथमस्थले शुद्धनयेन देहरागादिपरद्रव्यं जीवस्वरूपं न भवतीति निषेधमुख्यत्वेन अप्पाणमयाणंता इत्यादिगाथामादिं कृत्वा पाठक्रमेण गाथादशकपर्यंतंव्याख्यानं करोति । तत्र गाथादशकमध्ये परद्रव्यात्मवादे पूर्वपक्षमुख्यत्वेन गाथापंचकं तदनंतरं परिहारमुख्यत्वेन सूत्रमेकं । अथाष्टविधं कर्मपुद्गलद्रव्यं भवतीति कथनमुख्यत्वेन सूत्रमेकं । ततश्च व्यवहारनयसमर्थनद्वारेण गाथात्रयं कथ्यत इति समुदायपातनिका । तद्यथा । अथ देहरागादिपरद्रव्यं निश्चयेन जीवो भवतीति पूर्वपक्षं करोति ।
आत्मख्याति:जीवाजीवविवेकपुष्कलदृशा प्रत्याययत्पार्षदानासंसारनिबद्धबंधनविधिध्वंसाद्विशुद्ध स्फुटत् । आत्माराममनंतधामसहसाध्यक्षण नित्योदितं धीरोदात्तमनाकुलं विलसति ज्ञानं मनो ल्हादयत् ॥३३॥
अप्पाणमयाणंता मूढा दु परप्पवादिणो केई । जीवं अन्झवसाणं कम्मं च तहा परूविति ॥४४॥ अवरे अज्झवसाणे सुतिव्वमंदाणुभावगं जीवं । मण्णंति तहा अवरे णोकम्मं चावि जीवोत्ति ॥४५॥ कम्मस्सुदयं जीवं अवरे कम्माणुभागमिच्छति । तिव्वत्तणमंदत्तण गुणेहिं जो सो हवदि जीवो वा ॥४६॥ जीवो कम्मं उहयं दोण्णिवि खलु केवि जीवमिच्छंति । अवरे संजोगेण दु कम्माणं जीवमिच्छंति ॥४७॥ एवंविहा बहुविहा परमप्पाणं वदंति दुम्मेहा । ते ण दु परप्पवादी णिच्छयवादीहिं णिहिछा ॥४॥
आत्मानमजानंतो मूढास्तु परात्मवादिनः केचित् । जीपमध्यवसानं कर्म च तथा प्ररूपयंति ॥४४॥ अपरेध्यषसानेषु तीब्रमंदानुभागगं जीवं । मन्यते तथाऽपरे नोकर्म चापि जीव इति ॥४५॥ कर्मण उदयं जीवमपरे कर्मानुभागमिच्छति । तीव्रत्वमंदत्वगुणाभ्यां यः स भवति जीवः ॥४६॥