________________
समयप्राभृतं । जीवकर्मोभयं द्वे अपि खलु केचिजीवमिच्छति । अपरे संयोगेन तु कर्मणां जीवमिच्छति ॥४७॥ एवंविधा बहुविधाः परमात्मानं बदंति दुर्मेधसः ।
ते न परात्मवादिनःनिश्चयवादिभिर्निर्दिष्टाः ॥४८॥ तात्पर्यवृत्तिः-अप्पाणमयाणंता मुढा दु परप्पवादिणो केई आत्मानमजानंतः मूढास्तु परद्रव्यमात्मानं वदंतीत्येवंशीलाः केचन परात्मवादिनः जीवं अज्झवसाणं कम्मंच तहा परूविति यथांगारात् कायं भिन्नं नास्ति तथा रागादिभ्यो मिनो जीवो नास्तीति रागाद्यध्यवसानं कर्म च जीवं वदंतीति । अथ अवरे अज्झवसाणे सुतिव्वमंदाणुभावगं जीवं मण्णंति अपरे केचनेकांतवादिनः रागाद्यध्यवसानेषु तीव्रमंदतारतम्यानुभावस्वरूपं शक्तिमाहात्म्यं गच्छतीति तीव्रमंदानुभावगस्तं जीवं मन्यते। तहा अबरे णोकम्मं चावि जीवोत्ति तथैवावरे चार्वाकादयः कर्मणोकर्मरहितपरमात्मभेदविज्ञानशून्याः शरीरादिनोकर्म चापि जीवं मन्यते । अथ-कम्मस्सुदयं जीवं अवरे अपरे कर्मणउदयं जीवमिच्छंति कम्माणुभागमिच्छति अपरे च कर्माणुभागं लतादार्वस्थिपाषाणरूपं जीवमिच्छति । कथंभूतः सचानुभागः तिव्वत्तणमंदत्तणगुणेहिं जो सोहबदि जीवो तीव्रत्वमंदत्वगुणाभ्यां वर्त्तते यः स जीवो भवतीति । अथ-जीवोकम्मं उहयं दोण्णिवि खलु केवि जीवमिच्छति जीवकोभयं द्वे अपि जीवकर्माणि शिखरिणीवत् खलु स्फुटं जीवमिच्छति । अपरे संयोगेण दुकम्माणं जीवमिच्छति । अपरे केचन अष्टकाष्ठखट्वावदष्ठकर्मणां संयोगेणापि जीवमिच्छंति । कस्मात् अष्टकर्मसंयोमादन्यस्य शुद्धजीवस्यानुपपत्तेः । अथ एवंविहावहुविहा परमप्पाणं वदंति दुम्मेहा एवंविधा वहुविधा वहुप्रकारा देहरागादिपरद्रव्यमात्मानं वदंति दुर्मेधसो दुर्बुद्धयः तेणदु परप्पवादी णिच्छयवादीहिं णिदिवा तेन कारणेन तु पुनः देहरागादिकं परद्रव्यमात्मानं बदंतीत्येवं शीलाः परात्मवादिनो निश्चयवादिभिः सर्व निर्दिष्टा इति पंचगाथाभिः पूर्वपक्षः कृतः । अथ परिहारं वदति।
आत्मख्याति:-इह खलु तदसाधारणलक्षणाकलनाक्लीवत्वेनात्यंतविमूढाः संतस्ताविकमात्मानमजानंतो बहवो बहुधा परमप्यात्मानमिति प्रलपंति. । नैसर्गिकरागद्वेषकल्माषितमध्यवसानमेव जीव स्तथाविधाध्यवसानात् अंगारस्येव काग्रॅदतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । अनाद्यनंतपूर्वापरीभूताक्यवैकसंसरणक्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति कोचत् । तीव्रमंदानुभवभिद्यमानदुरंतरागरसनिर्भराध्यवसानसंतान एव जीवस्ततोतिरिक्तस्यान्यस्यानुपलभ्यमानत्वादिति केचित् । नवपुराणावस्थादिभावेन प्रवर्त्तमानं नोकर्मैव जीवः शरीरादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । विश्वमपि पुण्यपापरूपेणाक्रामन् कर्मविपाक एव जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । सातासातरूपेणाभिव्याप्तसमस्ततीव्रमंदत्वगुणाभ्यां भिद्यमान:: कर्मानुभव एव जीवः सुखदुःखातिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । मजितावदुभयात्मकत्वादात्मकर्मोभयमेव जीवः काय॑तः कर्मणोतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति कोचत् । अर्थक्रियासमर्थः कर्मसंयोग एव जीवः कर्मसंयोगात्खटाया इवाष्टकाष्ठसंयोगादतिरिक्तत्वेनान्यस्यानुपलभ्यमानत्वादिति केचित् । एवमेवंप्रकारा इतेरेपि बहुप्रकारा परमात्मेति व्यपदिशति दुर्मेधसः किंतु न ते परमार्थबादिभिः परमार्थवादिनः इति निर्दिश्यते । कुतः
एदे सव्वे भावा पुग्गलदव्वपरिणामणिप्पणा। केवलिजिणेहिं भणिदा कह ते जीवो ति उच्चति ॥४९॥ एते सर्वेभावाः पुद्गलद्रव्यपरिणामनिष्पन्नाः ।