________________
२८
सनातनजैनग्रंथमालायांकेरलिजिनैणिताः कथं ते जीव इत्युच्यते ॥४९॥ तात्पर्यवृत्तिः-एदे सर्वे भावा पुगालदव्यपरिणामाणिप्पणा एते सर्वे देहरागादयः कर्मजनितपर्यायाः पुद्गलदव्यकर्मोदयपरिणामेन निष्पन्नाः । केवलिजिणेहिं भणिया कह ते जीवोति उच्चंति केवलिजिनैः सर्वज्ञैः कर्मजनिता इति भणिताः कथं ते निश्चयनयेन जीवा इत्युच्यते न कथमपि । किंच विशेषः अंगारात् कायॆवद्रागादिभ्यो मिनो जीवो नास्तीति यद्भणितं तदयुक्तं कथमिति चेत् रागादिभ्यो भिन्नः शुद्धजीवोस्तीति पक्षः परमसमाधिस्थपुरुषैः शरीररागादिभ्यो भिन्नस्य चिदानंदैकस्वभावशुद्धजीवस्योपलब्धेरिति हेतुः किटकालिकास्वरूपात् सुवर्णवदिति दृष्टांतः । किं च अंगारदृष्टांतोपि न घटते कथमिति चेत् यथा सुवर्णस्य पीतत्वं अग्नेरुष्णत्वं स्वभावस्तथांगारस्य कृष्णत्वस्वभावस्य तु पृथक्त्वं कर्तुं नायाति । रागादयस्तु विभावाः स्फटिकोपाधिवत् ततस्तेषां निर्विकारशुद्धात्मानुभूतिबलेन पृथक्कर्तु शक्यते इति । यदप्युक्तमष्टकाष्ठसंयोगखट्वावदष्टकर्मसंयोग एव जीवस्तदप्यनुचितं अष्टकर्मसंयोगात् भिन्नः शुद्धजीवोस्तीति पक्षवचनं अष्टकाष्ठसंयोगखट्वाशायिनः पुरुषस्येव परमसमाधिस्थपुरुषैरष्टकर्मसंयोगात् पृथग्भूतस्य शुद्धबुद्धकस्वभावजीवस्योपलव्धेरिति दृष्टांतसहितहेतुः । किं च देहात्मनोरत्यंतं भेदः इति पक्षः भिन्नलक्षणलक्षितत्वादिति हेतुः जलानलवदिति दृष्टांत । इतिः परिहारगाथा गता । अथ चिद्रूपप्रतिभासेपि रागाद्यध्यवसानादयः कथं पुद्गलस्वभावा भवंतीति चेत्
आत्मख्यातिः- यतः एतेऽध्यवसानादयः समस्ता एव भावा भगवद्भिर्विश्वसाक्षिभिरहद्भिः पुद्गलद्रव्यपरिणाममयत्वेन प्रज्ञप्ताः संतश्चैतन्यशून्यात्पुद्गलद्रव्यादतिरिक्तत्वेन प्रज्ञाप्यमानं चैतन्यखभावं जीवद्रव्यं भवितुं नोत्सहते ततो न खल्वागमयुक्तिस्वानुभवैर्वाधितपक्षत्वात् तदात्मवादिनः परमार्थवादिनः एतदेव सर्वज्ञवचनं तावदागमः । इयं तु स्वानुभवगर्भिता युक्तिः न खलु नैसर्गिकरागद्वेषकस्माषितमध्यवसानं जीवस्तथाविधाध्यवसानात्कार्तस्वरस्येव श्यामिकायातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खल्वनाद्यनंतपूर्वापरीभूतावयवैकसंसरणलक्षणक्रियारूपेण क्रीडत्कर्मैव जीवः कर्मणोतिरिक्त त्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु तीवमंदानुभवभिद्यमानदुरंतरागरसनिर्भराध्यवसानसंतानो जीवस्ततोतीक्तित्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु नवपुराणवस्थादिभेदेन प्रवर्तमानं नोकर्म जीवः शरीरादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु विश्वमपि पुण्यपापरूपेणाक्रामत्कर्मविपाको जीवः शुभाशुभभावादतिरिक्तत्वेनान्यस्य चिस्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु सातासातरूपेणाभिव्याप्तसमस्ततीव्रमंदत्वगुणाभ्यां भिद्यमानः कर्मानुभावो जीवः सुखदुःखातिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खलु मजितावदुभयात्मकत्वादात्मकर्मोभयं जीवः काय॑तः कर्मणोतिरिक्तत्वेनान्यस्य चित्स्वावस्य विवेचकैः स्वयमुपलभ्यमानत्वात् । न खल्वर्थक्रियासमर्थः कर्मसंयोगो जीवः कर्मसंयोगात्खदाशायिनः पुरुषस्येवाष्टकष्ठसंयोगादतिरिक्तत्वेनान्यस्य चित्स्वभावस्य विवेचकैः स्वयमुपलभ्यमानत्वादिति । इह खलु पुद्गलभिन्नात्मोपलब्धि प्रतिविप्रतिपन्नः साम्नैवैवमनुशास्यः ।
विरम किमपरेणाकार्यकोलाहलेन स्वयमपि निभतः सन् पश्य षण्मासमेकं ।
हृदयसरसि पुंसः पुद्गलाद्भिन्नधाम्नो ननु किमनुपलब्धिर्भाति किंचोपलब्धिः ॥३४॥ कथंचिदन्वयप्रतिभासेप्यध्यवसानादयः पुद्गलस्यभावा इति चेत् ।
अट्टविहं पि य कम्मं सव्वं पुग्गलमयं जिणा विति । जस्स फलं तं वुचदि दुक्खं ति विपञ्चमाणस्स ॥५०॥
अष्टविधमपि च कर्म सर्व पुद्गलमयं जिना विदंति । यस्य फलं तदुच्यते दुःखमिति विपच्यमानस्य ॥५०॥