________________
समयमाभूतं ।
२९
तात्पर्यवृत्तिः - अहविद्धं पिय कम्मं सव्वं पुग्गलमयं जिणं विंति सर्वमष्टविधमपि कर्म पुद्गलमयं भवतीति जिना बीतरागसर्वज्ञा लुवंति कथयंति । कथंभूतं यत्कर्म जस्सफलं तं वुच्चदि दुक्खंति विपश्च्चमाणस्य यस्य कर्मणः फलं तत्प्रसिद्धमुच्यते किं व्याकुलत्वस्वभावत्वाद्दुःखमिति । कथंभूतस्य कर्मणः विशेषण पच्यमानस्योदयागतस्य । इदमत्र तात्पर्य अष्टविधकर्मपुतुलस्य कार्यमनाकुलत्वलक्षणपरमार्थसुखविलक्षणमाकुलत्वोत्पादकं दुःखं रागादयोप्याकुलत्वोत्पादकदुः खलक्षणास्ततः कारणात्पुद्गलकार्यत्वात् शुद्धनिश्चयनयेन पौद्गलिका इति । अष्टविधं कर्म पुद्गलद्रव्यमेवेति कथनरूपेण गाथा गता । अथ यद्यध्यव - सानादयः पुद्गलस्वभावास्तर्हि रागी द्वेषी मोही जीव इति कथं जीवत्वेन ग्रंथांतरे प्रतिपादिता इति प्रश्वे प्रत्युत्तरं ददाति ।
आत्मख्यातिः — अध्यवसानादिभावनिर्वर्त्तकमष्टविधमपि च कर्म समस्तमेव पुद्गलमयमिति किल सकलज्ञज्ञप्तिः । तस्य तु यद्विपाककाष्ठामधिरूढस्य फलत्वेनाभिलप्यते । तदनाकुलत्वलक्षणसौख्याख्यात्मस्वभावविलक्षणत्वात्किल दुःखं तदंतःपातिन एव किलाकुलत्वलक्षणा अध्यवसानादिभाषाः । ततो न ते चिदन्वयविभ्रमेप्यात्मस्वभावाः किंतु पुद्गलस्वभाषाः । यद्यध्यवसानदयः पुद्गलस्वभावास्तदा कथं जीवत्वेन सूचिता इति चेत् ।
ववहारस्स दरीसणमुवएसो वणिदो जिणवरेहिं । जीवा एदे सव्वे अज्झवसाणादओ भावाः ॥ ५१ ॥ व्यवहारस्य दर्शनमुपदेशो वर्णितो जिनवरैः ।
जीवा एते सर्वेऽध्यवसानादयो भावाः ।। ५१ ।
तात्पर्यदृत्तिः - ववहारस्स दरीसणं व्यवहारनयस्य स्वरूपं दर्शितं यत्किं कृतं उवएसो वणिओ जिणवरेहिं उपदेशो बर्णितः कथितो जिनवरैः । कथंभूतः जीवा एदे सव्वे अब्झवसाजादओ भावा जीवा एते सर्वे अध्यवसानादयो भावाः परिणामा भण्यंत इति । किं च विशेषः यद्यप्ययं व्यवहारनयो वहिर्द्रव्यावलंवत्वेनाभूतार्थस्तथापि रागादिवहिर्द्रव्याघलंबनरहितविशुद्धज्ञानदर्शनस्वभावस्थाबलंबनसहितस्य परमार्थस्य प्रतिपादकत्वाद्दर्शयितुमुचितो भवति । यदा पुनर्व्यवहारनयो न भवति तदा शुद्धनिश्वयनयेन सस्थावरजीवा न भवतीति मत्वा निःशंकोपमर्दनं कुर्वेति जनाः । ततश्च पुण्यरूप धर्माभाव इत्येकं दूषणं तथैव शुद्धनयेन रागद्वेषमोहरहितः पूर्वमेव मुक्तोजीवस्तिष्ठतीति मत्वा मोक्षार्थमनुष्ठानं कोपि न करोति ततश्च मोक्षाभाव इति द्वितीयं च दूषणं । तस्माद्व्यवहारनयव्याख्यानमुचितं भवतीत्यभिप्रायः । अथ केन दृष्टांतेन प्रवृत्तो व्यवहार इत्याख्याति ।
आत्मख्यातिः - सर्वे एवैते ऽध्यवसानादयोभावाः जीवा इति यद्भगवद्भिः सकलज्ञैः प्रज्ञप्तं तदभूतार्थस्यापि व्यवहारस्यापि दर्शनं । व्यवहारो हि व्यवहारिणां म्लेच्छभाषेव म्लेच्छानां परमार्थप्रतिपादकत्वादपरमार्थोपि तीर्थप्रवृत्तिनिमित्तं दर्शयितुं न्याय्य एव । तमंतरेण तु शरीराज्जीवस्य परमार्थतो भेददर्शनात्र सस्थावराणां भस्मनं इव निःशंकमुपमर्दनेन हिंसाभावाद्भवत्येव बंधस्याभाव: । तथारक्तद्विष्टविमूढो जीवो - बध्यमानो मोचनीय इति रागद्वेषमोहेभ्यो जीवस्य परमार्थतो भेददर्शनेन मोक्षोपायपरिग्रहणाभावात् भवत्येव मोक्षस्याभावः । अथ केन दृष्टांतेन प्रवृत्तोव्यवहार इति चेत् ।
राया हु णिग्गदो तिय एसो वलसमुदयस्स आदेसो । ववहारेण दु उच्चदि तत्थेको णिग्गदो राया ॥ ५२ ॥ एमेव य ववहारो अज्झवसाणादि अण्णभावाणं । जीवो त्ति को सुत्ते तत्थेको णिच्छिदो जीवो ॥ ५३ ॥