________________
सनातनजैनग्रंथमालायांराजा खलु निर्गत इत्येष बलसमुदयस्यादेशः। व्यवहारेण तूच्यते तत्रैको निर्गतो राजा ॥ ५२ ॥ एवमेव च व्यवहारोध्यवसानाद्यन्यभावानां ।
जीव इति कृतः सूत्रे तत्रैको निश्चितो जीवः ॥५३॥ तात्पर्यवृत्तिः-राया हुणिग्गदो त्तिय एसो बलसमुदयस्स आदेसो राजा हु स्फुटं निर्गत एव बलसमुदयस्यादेशः कथनं ववहारेण दु उच्चदि तत्थेको णिग्गदो राया बलसमूहं दृष्टांतः । पंच योजनानि व्याप्य राजा निर्गतः इति व्यवहारेणोच्यते । निश्चयनयेन तु तत्रैको राजा निर्गत इति. दृष्टांतो गतः । इदानीं दार्टीतमाह-एमेवयववहारोअज्यवसाणादि अण्णभावाणं एवमेव राजदृष्टांत प्रकारेणैव व्यवहारः । केषां अध्यवसानादीनां जीवाद्भिन्नभावादीनां रागादिपर्यायाणां जीवोत्ति कदो सुत्ते कथंभूतो व्यवहारः रागादयो भावाः व्यवहारेण जीव इति कृतं भणितं सूत्रे परमागमे तत्थेको णिच्छिदो जीवो तत्र तेषु रागादिपरिणामेषु मध्ये निश्चितो ज्ञातव्यः कोसौ जीकः कथंभूतः शुद्धनिश्चयनयेनैको भावकर्मद्रव्यकर्मनोकर्मरहितशुद्धबुद्धकस्वभावो जीवपदार्थः । इति व्यवहारनयसमर्थनरूपेण गाथात्रयं गतं । एवमजीवाधिकारमध्ये शुद्धनिश्चयनयेन देहरागादिपरद्रव्यं जीवस्वरूपं न भवतीति कथनमुख्यतया गाथादशकेन प्रथमोत्तराधिकारो व्याख्यातः ।
अथानतरं वर्णरसादिपुद्गलस्वरूपरहितोऽनंतज्ञानादिगुणस्वरूपश्च शुद्धजीव एव उपादेय इति भावनामुख्यतया द्वादशगाथापर्यंतं व्याख्यानं करोति । तत्र द्वादशगाथासु मध्ये परमसामायिकभावनापरिणताभेदरत्नत्रयलक्षणेनिर्विकल्पसमाधिसमुत्पन्नपरमानंदसुखसमरसीभावपरिणतशुद्धजीव एवोपादेय इति मुख्यत्वेन अरसमरूव इत्यादिसूत्रगाथैका । अथाभ्यंतरे रागादयो बहिरंगे वर्णादयश्च शुद्धजीवस्वरूपं न भवतीति तस्यैव गाथासूत्रस्य विशेषविवणार्थ जीवस्सणस्थिवण्णो इत्यादिसूत्रषटुं । ततः परत एव रागादयो वर्णादयश्च व्यवहारेण संति शुद्धनिश्चयनयेन न संतीति परस्परसापेक्षनयद्वयविवरणार्थ ववहारेणदु इत्यादि सूत्रमेकं । तदनंतरमेतेषां रागादीनां व्यवझरनयेनैव जीवेन सह क्षीरनीरवत्संबंधो न च निश्चयनयेनेति समर्थनरूपेण एदं हि य संबंधो इत्यादि सूत्रमेकं । ततश्च तस्यैव व्यवहारनयस्य पुनरपि व्यक्तार्थ दृष्टांतदाष्र्टातसमर्थनरूपेण पंथे मुस्संतं इत्यादि गाथात्रयं । इति द्वितीयस्थले समुदायपातनिका । तद्यथाअथ यदि निश्चयेन रागादिरूपो जीवो न भवति तर्हि कथंभूतः शुद्धजीव उपादेयस्वरूप इत्यत्राह ।
आत्मख्यातिः -- यथैष राजा पंच योजनान्यभिव्याप्य निष्क्रामतीत्येकस्य पंचयोजनान्यभिव्या-- प्तुमशक्यत्वाद्यवहारिणां बलसमुदाये राजेति व्यवहारः । परमार्थतस्त्वेक एक राजा । तथैष जीवः समग्रं रागग्राममभिव्याप्य प्रवर्तित इत्येकस्य समग्रं रागग्राममभिव्याप्तुमशक्यत्वाद्यवहारिणामध्यवसानादिष्वन्यभावेषु जीव इति व्यवहारः । परमार्थतस्त्वेक एव जीवः । यद्येवं तर्हि किं लक्षणोसावेकष्टंकोत्कीर्णः परमार्थ जीव इति पृष्टः प्राह
अरसमरूवमगंधं अव्वत्तं चेदणागुणमसदं । जाण अलिंगग्गहणं जीवमणिदिसंठाणं ॥५४॥
अरसमरूपमगंधमव्यक्तं चेतनागुणमशब्दं ।
जानीहि अलिंगग्रहणं जीवमनिर्दिष्टसंस्थानं ॥५४॥ तात्पर्यवृत्तिः-अरसपरूवमगंधं अव्वत्तं चेदणागुणमसदं निश्चयनयेन रसरूपगंधस्पर्शशब्दरहितं मनोगतकामक्रोधादिविकल्पविषयरहितत्वेनाव्यक्तं सूक्ष्मं । पुनरपि किं विशिष्टं शुद्धचेतनागुणं पुनश्च किं रूपं जाणमलिंगग्गहणं जीवमणिदिसंठाणं निश्चयनयेन स्वसंवेदनज्ञानविषयत्वादलिंग