________________
२२
सनातनजैनग्रंथमालायांआत्मख्याति:-यो हि नाम फलदानसमर्थतया प्रादुर्भूय भावकत्वेन भवंतमपि दूरत एव तदनु वृत्तेरात्मनो भाव्यस्य व्यावर्त्तनेन हठान्मोहं न्यक्कृत्योपरतसमस्तभाव्यभावकसंकरदोषत्वेनैकत्वे टंकोत्कीर्ण विश्वस्याप्यस्योपरितरता प्रत्यक्षोद्योतितया नित्यमेवांतः प्रकाशमानेनानपायिना स्वतः सिद्धेन परमार्थसता भगवता ज्ञानस्वभावेन द्रव्यांतरस्वभावभाविभ्यः सर्वेभ्यो भावांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितमोहो जिन इति द्वितीया निश्चयस्तुतिः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायसूत्राण्येकादश पंचानां श्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाव्याख्येयानि । अनया दिशान्यान्यप्यूह्यानि । अथ भाव्यभावकभावाभावेन ।
जिदमोहस्स दु जइया खीणो मोहो हविज साहुस्स । तइया हु खीणमोहो भण्णदि सो णिच्छयविदूर्हि ॥३८॥ जितमोहस्य तु यदा क्षीणो मोहो भवेत्साधोः ।
तदा खलु क्षीणमोहो भण्यते स निश्चयविद्भिः ॥३८॥ तात्पर्यवृत्तिः-जियमोहस्स दु जइया खीणो मोहो हविज्ज साहुस्स पूर्वगाथाकथितक्रमण जितमोहस्य सतो जातस्य यदा निर्विकल्पसमाधिकाले क्षीणो मोहो भवेत् कस्य साधोः शुद्धात्मभावकस्य तहिया हु खीणमोहो भण्णदि सो णिच्छयविहिं तदा तु गुप्तिसमाधिकाले स साधुः क्षीणमोहो भण्यते कैर्निश्चयविद्भिः परमार्थज्ञायकैर्गणधरदेवादिभिः । इयं तृतीया निश्चयस्तुतिरिति । भाव्यभावक भावाभावरूपेण कथं जाता स्तुतिरिति चेत्-भाव्योरागादिपरिणत आत्मा भावको रंजक उदयगतो मोहस्तयोर्भाव्यभावकयोर्भावःस्वरूपं तस्याभावः क्षयो विनाशः सा चैव तृतीता निश्चयस्तुतिरित्यभिप्रायः । एवं रागद्वेष इत्यादि दंडको ज्ञातव्यः । इति प्रथमगाथायां पूर्वपक्षस्तदनंतरं गाथाचतुष्टये निश्चये निश्चयव्यवहार समर्थनरूपेण परिहारस्ततश्च गाथात्रये निश्चयस्तुतिकथनरूपेण च परिहार इति पूर्वपक्षपरिहारगाथाष्टक समुदायेन षष्ठस्थलं गतं । अथ रागादिविकल्पोपाधिरहितं स्वसंवेदनज्ञानलक्षणप्रत्याख्यानविवरणरूपेण गाथाचतुष्टयं कथ्यते । तत्र स्वसंवेदनज्ञानमेव प्रत्याख्यानमिति कथनरूपेण प्रथमगाथा प्रत्यख्यानविषये दृष्टांतरूपेण द्वितीया चेति गाथाद्वयं । तदनंतरं मोहपरित्यागरूपेण प्रथमगाथा ज्ञेयपदार्थपरित्यागरूपेण द्वितीया चेति गाथाद्वयं एवं सप्तमस्थले समुदायपातनिका । तथाहि-तीर्थकराचार्यस्तुतिनिरर्थिका भव तीति पूर्वपक्षबलेन जीवदेहयोरेकत्वं कर्तुं नायातीति ज्ञात्वा शिष्य इदानी प्रतिबुद्धः सन् हे-भगवन् रागादीनां किं प्रत्याख्यानमिति पृच्छति । इति पृच्छति कोर्थः इति पृष्टे प्रत्युत्तरं ददाति । एवं प्रश्नोत्तररूपपातनिकाप्रस्तावे सर्वत्रेतिशब्दस्यार्थो ज्ञातव्यः ।
___ आत्मख्यातिः-इह खलु पूर्वप्रक्रांतेन विधानेनात्मनो मोहं न्यक्कृत्य यथोदितज्ञानस्वभावानंतिरितात्मसंचेतनेन जितमोहस्य सतो यदा स्वभावभावभावनासौष्ठवावष्टंभात्तत्संतानात्यंतविनाशेन पुनरप्रादुर्भावाय भावकः क्षीणो मोहः स्यात्तदा स एव भाव्यभावकभावाभावेनैकत्वे टंकोत्कीर्णपरमात्मानमवाप्तः क्षीणमोहो जिन इति तृतीया निश्चयस्तुतिः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमायालोभकर्मनो कर्ममनोवचनकायश्रोत्रचक्षुणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि । अनया दिशान्यान्यय्यूह्यानि । एकत्वं व्यवहारतो न तु पुनः कायात्मनोनिश्चयान्नुः स्तोत्रं व्यवहारतोस्ति वपुषः स्तुत्या न तत्तत्त्वतः । स्तोत्रं निश्चयतश्चितो भवति चित्स्तुत्यैव सैवं भवेनातस्तीर्थकरस्तवोत्तरबलादेकत्वमात्मांगयोः ॥ २७ ॥
इति परिचततत्त्वैरात्मकायैकतायां नयविभजनयुक्त्यात्यंतमुच्छादितायां ।
अवतरति न बोधो बोधमेवाद्य कस्य स्वरसरभसकृष्टः प्रस्फुष्टन्नेक एव ॥ २८ ॥ १ तदनुकूलस्य । २ भेदवलेन ।