________________
समयप्राभृतं । इति शरीरे स्तूयमानेपि तीर्थकरकेवलिपुरुषस्य तदधिष्ठातृत्वेपि सुस्थितसर्वागत्वलावण्यादिगुणाभावात्स्तवनं न स्यात् । अथ निश्चयस्तुतिमाह तत्र ज्ञेयज्ञायकसंकरदोषपरिहारेण तावत्
जो इंदिये जिणत्ता णाणसेहावाधिअं मुणदि आदं । तं खलु जिदिदियं ते भणंति जे णिच्छिदा साहू ॥३६॥
यः इंद्रियाणि जित्वा ज्ञानखभावाधिकं जानात्यात्मानं ।
तं खलु जितेंद्रियं ते भणति ये निश्चिताः साधवः ॥३६॥ तात्पर्यवृत्तिः-जो इंदिये जिणत्ता णाणसहावाधिों मुणदि आदं यः कर्ता द्रव्येद्रिय भावेंद्रियपंचेंद्रियविषयान् जित्वा शुद्धज्ञानचेतनागुणेनाधिकं परिपूर्ण शुद्धात्मानं मनुते जानात्यनुभवति संचेतयति तं खलु निदिदियं ते भणंति जे णिच्छिदा साहू तं पुरुषं खलु स्फुटं जितेद्रियं भणंति ते साधवः के ते ये निश्चताः निश्चयज्ञा इति । किंच ज्ञेयाः स्पर्शादिपंचेंद्रियविषयाः बायकानि स्पर्शनादिद्रव्येद्रियभावेंद्रियाणि तेषां योसौ जीवेन सह संकरः संयोगः संबंधः स एव दोषः तं दोषं परमसमाधिबलेन' योसौ जयति सा चैव प्रथमा निश्चयस्तुतिरिति भावार्थः । अथ तामेव स्तुतिं द्वितीयप्रकारेण भाव्यभावकसंकरदोषपरिहारेण कथयति । अथवा उपशमश्रेण्यपेक्षया जितमोहरूपेणाह ।
आत्मख्यातिः-यः खलु निरवधिबंधपर्यायवशेन प्रत्यस्तमितसमस्तस्वपरविभागानि निर्मलभेदा भ्यासकौशलोपलब्धांतःस्फुटातिसूक्ष्मचित्स्वभावावष्टंभवलेन शरीरपरिणामापन्नानि द्रव्येद्रियाणि प्रतिविशिष्टस्वस्वविषयव्यवसायितया खंडशः आकर्षति प्रतीयमानाखंडैकचिच्छक्तितया भावद्रियाणि ग्राह्यग्राहकलक्षणसंबंधप्रत्यासत्तिवशेन सह संविदा परस्परमेकीभूतानि च चिच्छक्तेः स्वयमेवानुनूयमानासंगतया भावेद्रियावगृह्यमाणान् स्पर्शादीनिंद्रियार्थीश्च सर्वथा स्वतः पृथक्करणेन विजित्योपरतसमस्तज्ञेयज्ञायकसंकरदोषत्वेनैकत्वे टंकोत्कीर्ण विश्वस्याप्युस्पोपरितरता प्रत्यक्षोद्योततया नित्यमेवांतः प्रकाशमानेनानपायिना स्वतः सिद्धेन परमार्थसता भगवता ज्ञानस्वभावेन सर्वेभ्यो द्रव्यांतरेभ्यः परमार्थतोतिरिक्तमात्मानं संचेतयते स खलु जितेंद्रियो जिन इत्येका निश्चयस्तुतिः । अथ भाव्यभावकसंकरदोषपरिहारेण--
जो मोहं तु जिणित्ता णाणसहावाधियं मुणइ आदं । तं जिदमोहं साहुं परमवियाणया विति ॥३७॥
यो मोहं तु जित्वा ज्ञानस्वभावाधिकं जानात्यात्मानं ।
तं जितमोहं साधुं परमार्थविज्ञायका विदंति ॥३७॥ तात्पर्यवृत्तिः-जो मोहं तु जिणित्ता णाणसहावाधियं मुणदि आदं यः पुरुषः उदयागतं मोहं सम्यग्दर्शनज्ञानचारित्रैकाग्यरूपनिर्विकल्पसमाधिवलेन जित्वा शुद्धज्ञानगुणेनाधिकं परिपूर्णमात्मानं मनुते जानाति भाक्यति तं जिदमोहं साहुं परमवियाणया विति तं साधुं जितमोहं रहितमोहं परमार्थविज्ञायका ब्रवंति कथयंतीति । इयं द्वितीया स्तुतिरिति । किंच भाव्यभावकसंकरदोषपरिहारेण द्वितीया स्तुतिर्भवतीति पातनिकायां भणितं भवद्भिस्तत्कथं घटतेति-भाव्यो रागादिपरिणत आत्मा, भावको रंजक उदयागतो मोहस्तयो र्भाव्यभावकयोः शुद्धजीवेन सह संकरः संयोगः संबंधः सएव दोषः । तं तेषं स्वसंवेदनज्ञानबलेन योसौ परिहरति सा द्वितीया स्तुतिरितिभावार्थः । एवमेव च मोहपदपरिवर्त्तनेन रागद्वेषक्रोधमानमा यालोभकर्मनोकर्ममनोवचनकायसूत्राण्यैकादश पंचानां श्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणामिंद्रियसूत्रेण पृथग्व्याख्यातत्वाव्याख्येयानि । अनेनैव प्रकारेणान्यान्यप्यसंख्येयलोकमात्रविभावपरिणामरूपाणि ज्ञातव्यानि । अथवा भाव्यभावकभावाभावरूपेण तृतीया निश्चयस्तुतिः कथ्यते । अथवा तामेव क्षपकश्रेण्यपेक्षयाक्षीणमोहरूपेणाह