________________
२०
सनातनजैनग्रंथमालायांतथा शुक्लरक्तोत्पलवर्णः केवलिपुरुष इत्यादिदेहस्तवने व्यवहारेणात्मस्तवनं भवति न निश्चयनयेनेति तात्पर्यार्थः । अथ निश्चयनयेन शरीरस्तवने केवलिस्तवनं न भवतीति दृढयति ।
आत्मख्यातिः—यथा कलधौतगुणस्य पांडुरत्वस्य व्यपदेशेन परमार्थतोऽतत्स्वमावस्यापि कार्त्तवरस्य व्यवहारमात्रेणैव पांडुरं कार्तस्वरमित्यस्ति व्यपदेशः । तथा शरीरगुणस्य शुक्ललोहितत्वादेः स्तवनेन परमार्थतोऽतत्स्वभावस्यापि तीर्थकरकेवलिपुरुषस्य व्यवहारमात्रेणैव शुक्ललोहितस्तीर्थकरकेवलिपुरुष इत्यस्ति स्तवनं । निश्चयनयेन तु शरीरस्तवेननात्मस्तवनमनुपपन्नमेव तथाहि
तं णिच्छये ण जुजदि ण सरीरगुणा हि होंति केवलिणो । केवलिगुणो थुणदि जो सो तचं केवलिं थुणदि ॥३४॥
तनिश्चयेन न युज्यते न शरीरगुणा हि भवंति केवलिनः ।
केवलिगुणान् स्तौति यः स तत्त्वं केवलिनं स्तीति ॥३४॥ तात्पर्यवृत्तिः-तं णिच्छयेण जुज्जदि तत्पूर्वोक्तदेहस्तवने सति केवलिस्तवनं निश्चयेन न युज्यते कथमिति चेत् ण सरीरगुणा हि होंति केवलिणो यत: कारणाच्छरीरगुणा शुक्लकृष्णादयः केवलिनो न भवंति । तर्हि कथं केवलिस्तवनं भवति केवलिगुणो थुणदि जो सो तच्चं केवलिं थुणदि केवलिगुणान् अनंतज्ञानादीन् स्तौति यः स तत्त्वं वास्तवं स्फुटं वा केवलिनं स्तौति । यथा शुक्लवर्णरजतशब्देन सुवर्णं भण्यते तथा शुक्लादिकेवलिशरीरस्तवनेन चिदानंदैकस्वभावं केवलिपुरुषस्तवनं निश्चयनयेन न भवती त्यभिप्रायः । अथ शरीरप्रभुत्वेपि सत्यात्मनः शरीरस्तवनेनात्मस्तवनं न भवति निश्चयनयेन तत्र दृष्टांतमाह ।
आत्मख्यातिः-यथा कार्तस्वरस्य कलधौतगुणस्य पांडुरत्वस्याभावान्न निश्चयतस्तद्व्यपदेशेन व्यपदेशः । कार्तस्वरगुणस्य व्यपदेशेनैव कार्तस्वरस्य व्यपदेशात् तथा तीर्थकरकेवलिपुरुषस्य शरीरगुणस्य शुक्ललोहितत्वादेरभावान्न निश्चयतस्तत्स्तवनेन स्तवनं तीर्थकरकेवलिपुरुषगुणस्य स्तवनेनैव तीर्थकरकेवलि पुरुषस्य स्तवनात् । कथं शरीरस्तवनेनं तदधिष्टातृत्वादात्मनो निश्चयेन स्तवनं न युज्यते इति चेत्
णयरम्म वण्णिदे जह ण वि रण्णो वण्णणा कदा होदि । देहगुणे थुव्वंते ण केवलिगुणा थुदा होंति ॥३५॥
नगरे वर्णिते यथा नापि राज्ञो वर्णना कृता भवति ।
देहगुणेस्तूयमाने न केवलिगुणाः स्तुता भवंति ॥३५॥ तात्पर्यवृत्तिः यथा प्राकारोपवनखातिकादिनगरवर्णने कृतेपि नैव राज्ञो वर्णना कृता भवति तथा शुक्लादिदेहगुणस्तूयमानेप्यनंतज्ञानादिकेवलिगुणाः स्तुता न भवतीत्यर्थः । इति निश्चयव्यवहाररूपेण गाथाचतुष्टयं गतं । अथानंतरं यदि देहगुणस्तवनेन निश्चयस्तुतिर्न भवति तर्हि कीदृशी भवतीति पृष्टे सति द्रव्येंद्रियभावेंद्रियपचेंद्रियविषयान्स्वसंवेदनलक्षणज्ञानेन जित्वा योसौ शुद्धमात्मानं संचेतयते स जिन इति जितेंद्रिय इति साचैव निश्चयस्तुतिपरिहारं ददाति । आत्मख्यातिः--तथाहि
प्राकारकवलितांवरमुपवनराजीनिगीर्णभूमितलं ।
पिवतीव हि नगरमिदं परिखावलयेन पातालं ॥२६॥ इति नगरे वर्णितेपि राज्ञः तदधिष्ठातृत्वेपि प्राकारोपवनपरिखादिमत्वाभावाद्वर्णनं न स्यात् तथैव
नित्यमविकारसुस्थितसर्वांगमपूर्वसहजलावण्यं । अक्षोभमिव समुद्रं जिनेंद्ररूपं परं जयति ॥२६॥