________________
... समयप्राभृतं । जदि जीषो ण सरीरं तित्थयरायरियसंथुदी चैव । सव्वावि हवदि मिच्छा तेण दु आदा हवदि देहो ॥३१॥
यदि जीवो न शरीरं तीर्थकराचार्यसंस्तुतिश्चैव ।। ___ सर्वापि भवति मिथ्या तेन तु आत्मा भवति देहः ॥३१॥
तात्पर्यवृत्तिः-जदि जीवो ण सरीरं हे भगवन् ! यदि जीवः शरीरं न भवति तित्थयरापरिय संथुदीचैव तर्हि "द्वौ कुंदेदुतुषारहारधवलावित्यादि" तीर्थकरस्तुतिः “देसकुलजाइसुद्धा" इत्याचार्यस्तुतिश्च सव्वावि हवदि मिच्छा सर्वापि भवति मिथ्या तेण दु आदा हवदि देहो तेन त्वात्मा भवति देहः । इति ममैकांतिकी प्रतिपत्तिः । एवं पूर्वपक्षगाथा गता। हे शिष्य यदुक्तं त्वया तम घटते यतो निश्चयव्यवहारनयपरस्परसाध्यसाधकभावं न जानासि त्वमिति ।
आत्मख्यातिः–यदि य एवात्मा तदेव शरीरं पुद्गलद्रव्यं न भवेत्तदा । कात्यैव स्नपयंति ये दशदिशो धाम्ना निरंधंति ये धामोद्दाममहस्विनां जनमनो मुष्णंति रूपेण ये । दिव्येन ध्वनिना सुखं श्रवणयोः साक्षात्क्षरंतोऽमृतं वंद्यास्तेऽष्टसहस्रलक्षणधरास्तीर्थेश्वराः सूरयः ॥२४॥
इत्यादिका तीर्थकराचार्यस्तुतिः समस्तापि मिथ्या स्यात् ततो य एवात्मा तदेव शरीरं पुद्गलद्रव्यमिति ममैकांतिकी प्रतिपत्तिः । नैवं नयविभागानभिज्ञोसि
वहहारणयो भासदि जीवो देहो य हवदि खलु इक्को । ण दु णिच्छयस्स जीवो देहो य कदापि एकठो ॥३२॥
व्यवहारनयो भाषते जीवो देहश्च भवति खल्वेकः ।
न तु निश्चयस्य जीवो देहश्च कदाप्येकार्थः ॥३२॥ तात्पर्यवृत्तिः--ववहारणयो भासदि व्यवहारनयो भाषते ब्रूते किं ब्रूते जीवो देहो य हवदि खलु इको जीवो देहश्च भवति खल्वेकः ण दु णिच्छयस्स जीवो देहो य कदावि एकहो न तु निश्चयस्याभिप्रायेण जीवो देहश्च कदाचित्काले एकार्थः एको भवति । यथा कनककलधौतयोः समावर्त्तितावस्थायां व्यवहारेणैकत्वेपि निश्चयेन भिन्नत्वं तथा जीवदेहयोरिति भावार्थः । ततः कारणात् व्यवहारनयेन देहस्तवनेनात्मस्तवनं युक्तं भवतीति नास्ति दोषः । तथाहि
आत्मख्याति:--इह खलु परस्परावगाढावस्थायामात्मशरीरयोः समवर्त्तितावस्थायां कनककलधौतयोरेकस्कंधव्यवहारवद्व्यवहारमात्रेणैवैकत्वं न पुनर्निश्चयतः । निश्चयतो ह्यात्मशरीरयोरुपयोगानुपयोगस्वभावयोः कनककलधौतयोः पीतपांडुरत्वादिस्वभावयोरिवाल्यंतव्यतिरिक्तत्वेनैकार्थत्वानुपपत्तेः नानात्वमेव हि किल नयविभागः । ततो व्यवहारनयेनैव शरीरस्तवनेनात्मस्तवनमुपपन्नं । तथाहि
-इणमण्णं जीवादो देहं पुग्गलमयं थुणिन्तु मुणी। मण्णदि हु संथुदो वंदिदो मए केवली भयवं ॥३३॥
इदमन्यत् जीवादेहं पुद्गलमयं स्तुत्वा मुनिः ।
मन्यते खलु संस्तुतो वंदितो मया केवली भगवान् ॥३३॥ तात्पर्यवृतिः-इणमण्णं जीवादो देहं पुग्गलमयं थुणितु मुणी इदमन्यद्भिन्नं जीवात्सकाशादेहं पुद्गलमयं स्तुत्वा मुनिः । मण्णदि हु संथुदो वंदिदो पए केवली भयवं पश्चाद्व्यवहारेण मन्यते संस्तुतो वंदितो मया केवली भगवानिति । यथा सुवर्णरजतैकत्वे सति शुक्लं सुवर्णमिति व्यवहारो न निश्चयः