________________
सनातनजनग्रंथमालायां
अथाज्ञानी जीवः सापराधः सशंकितः सन् कर्मफलं तन्मयो भूत्वा वेदयति, यस्तु निरपराधी ज्ञानी समये सति किं करोति ? इति कथयति -
१६४
आत्मख्यातिः - अज्ञानी हि शुद्धात्मज्ञानाभावात् स्वपरयोरेकत्वज्ञानेन स्वपरयोरेकत्वदर्शनेन, स्वपरयोरेकत्वपरिणत्या च प्रकृतिस्वभावे स्थितत्वात् प्रकृतिस्वभावमप्यहंतया-अनुभवन् कर्मफलं वेदयते । ज्ञानी तु शुद्धात्मज्ञानसद्भावात्स्वपरयोर्विभागज्ञानेन, स्वपरयोर्विभागदर्शनेन स्वपरयोरेकत्वापरिणत्या च प्रकृति स्वभावादपसृतत्वात् — शुद्धात्मस्वभावमेकमेवाहंतयानुभवन् कर्मफलमुदितं ज्ञेयमात्रत्वात् - जानात्येव न पुनस्तस्याहंतयाऽनुभवितुमशक्यत्वाद्वेदयते ।
अज्ञानी प्रकृतिस्वभावनिरतो नित्यं भवेद्वेदको ज्ञानी तु प्रकृतिस्वभावविरतो नो जातु चिद्वेदकः । इत्येवं नियमं निरूप्य निपुणैरज्ञानिता त्यज्यतां शुद्धैकात्ममये महस्याचलितैरासेव्यतां ज्ञानिता ॥११८॥ अज्ञानी वेदक एवेति नियम्यते
जो पुण णिरावराहो चेदा णिस्संकिदो द सो होदि । दु आराहणाय णिचं वदि अहमिदि वियाणंतो ॥ ३४५ ॥
यः पुनर्निरपराधश्चेतयिता निश्शंकितस्तु स भवति । आराधना नित्यं वर्तते अहमिति विजानन् || ३४५ ॥
तात्पर्यवृत्तिः -- जो पुण णिरवराहो चेदा णिस्संकिदो दु सो होदि यस्तु चेतयिता ज्ञानी जीवः स निरपराधः सन् परमात्माराधनविषये निश्शंको भवति । निश्शंको भूत्वा किं करोति ? आहारणाय णिचं वद्वदि अहमिदि वियाणतो निर्दोषपरमात्माराधनारूपया निश्चयाराधनया नित्यं सर्वकालं वर्तते। किं कुर्वन् ? अनंतज्ञानादिरूपोऽहंमिति निर्विकल्पसमाधौ स्थित्वा शुद्धात्मानं सम्यग्जानन् परमसमरसी भावेन वानुभवति इति ।
अज्ञानी कर्मणां नियमेन वेदको भवतीति दर्शयति —
यदि पडिमभवो सुठुवि अज्झाइदूण सच्छाणि । गुडदुर्द्धपि पिता ण पण्णया निव्विसा होंति ॥ ३४६ ॥ न मुंचति प्रकृतिममव्यः सुष्ठुपि - अधीत्य शास्त्राणि । दुग्धमपि पितो न पन्नगा निर्विषा भवति ॥ ३४६ ॥
तात्पर्यवृत्तिः यथा पन्नगाः सर्पाः शर्करासहितं दुग्धं पिवतोऽपि निर्विषा न भवंति तथा ज्ञानी जीवो मिथ्यात्वरागादिरूपकर्मप्रकृत्युदयस्वभावं न मुंचति । किं कृत्वापि १ अधीत्यापि । कानि ? शास्त्राणि । कथं सुड्डु बिसुष्वपि । कस्मान्न मुंचति ? वीतरागस्वसंवेदनज्ञानाभावात् – कर्मोदये सति मिथ्यात्वरागादीनां तन्मयो भवति यतः कारणात् इति ।
ज्ञान कर्मणां नियमेन वेदको न भवतीति दर्शयति
आत्मख्यातिः -- यथात्र विषधरो विषभाव स्वयमेव न मुंचति, विषभावमोचन समर्थसशर्करक्षीरपानाच न सुचति । तथा काभव्यः प्रकृतिस्वभावं स्वयमेव न मुंचति प्रमोचनसमर्थद्रव्यश्रुतज्ञानाश्च न मुति, नित्यमेव भावश्रुतज्ञानलक्षणशुद्धात्मज्ञानाभावेनाज्ञानित्वात् । अतो नियम्यते ज्ञानी प्रकृतिस्वभावे
पर।
२ प्रकृतज्ञानावरणादिकायाः स्वभावश्चतुर्गतिशरीररागादिभावसुख दुःखादिका परिणतिस्तत्र निरतः - आत्मीयबुद्धधा परिणतः | २ नेयं गाथायात्मख्याती ।