________________
१६३
समयप्रामृतं । जदा विमुंचदे चेदा कम्मफलमणंतयं । तदा विमुत्तो हवदि जाणगो पस्सगो मुणी ॥३४३॥ यावदेष प्रकृत्यर्थं चेतयिता नैव विमुंचति । अज्ञायको भवेत्ताबन्मिथ्यादृष्टिरसंयतः ॥३४२॥ यदा विमुंचति चेतयिता कर्मफलमनंतकं ।
तदा विमुक्तो भवति ज्ञायको दर्शको मुनिः ॥३४॥ तात्पर्यवृत्तिः-- यावत्कालमेष चेतयिता जीवः, चिदानंदैकस्वभावपरमात्मसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणामभावात्प्रकृत्यर्थं रागादिकर्मोदयरूपं न मुंचति, तावत्कालं रागादिरूपमात्मानं श्रद्दधाति जानात्यनुभवति च ततो मिथ्यादृष्टिर्भवति, अज्ञानी भवति, असंयतश्च भवति, तथा भूतःसन् मोक्षं न लभते । यदा पुनरयमेव चेतयिता मिथ्यात्वरागादिरूपं कर्मफलं शक्तिरूपेणानंतविशेषण सर्वप्रकारेण मुंचति तदा शुद्धबुबैकस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुभवरूपाणां सम्यग्दर्शनज्ञानचारित्राणां सद्भावात् लाभमिथ्यात्वरागादिभ्यो भिन्नमात्मानं श्रद्दधाति जानात्यनुभवति च । ततः सम्यग्दृष्टिर्भवति, संयतो मुनिश्च भवति तथाभूतः सन् विशेषेण द्रव्यभावगतमूलोत्तरप्रकृतिविनाशेन मुक्तो भवतीति । एवं यद्यप्यात्मा शुद्धनिश्चयेन कर्ता न भवति तथाप्यनादिकर्मबंधवशान्मिथ्यात्वरागाद्यज्ञानभावेन कर्म बनातीति अज्ञान सामर्थ्यज्ञापनार्थ द्वितीयस्थले सूत्रचतुष्टयं गतं
___ अथ शुद्धनिश्चयनयेन कर्मफलभोक्तृत्वं जीवस्वभावो न भवति, कस्मात् ! अज्ञानस्वभावत्वात्-इति कथयति
आत्मख्याति:-यावदयं चेतयिता प्रतिनियतस्वलक्षणानि नात् प्रकृतिस्वभावमात्मनो बंधानमित्तं न मुंचति तावत्स्वपरयोरेकत्वज्ञानेनाज्ञायको भवति । स्वपरयोरेकत्वदर्शनेन मिथ्यादृष्टिर्भवति । स्वपरयोरेकत्वपरिणत्या चासंयतो भवति । तावदेव परात्मनोरेकत्वाभ्यासस्य करणारकर्ता भवति । यदा त्वयमेव प्रतिनियतस्वलक्षणनिर्ज्ञानात् प्रकृतिस्वभावमात्मनो बंधनिमित्तं मुंचति तदा स्वपरयोविभागज्ञानेन ज्ञायको भवति । स्वपरयोविभागदर्शनेन दर्शको भवति । स्वपरयोविभागपरिणत्या च संयतो भवति तदैव च परास्मनोरेकत्वाध्यासस्याकरणादकर्ता भवति ।
भोक्तृत्वं न स्वभावोऽस्य स्मृतः कर्तृत्ववञ्चितः ।
अज्ञानादेव भोक्तायं तदभावादवेदकः ॥ १८७ ॥ अण्णाणी कम्मफलं पयडिसहावहिदो दु वेदेदि । णाणी पुण कम्मफलं जाणदि उदिदं ण वेदेदि ॥३४४॥ __ अज्ञानी कर्मफलं प्रकृतिस्वभावस्थितस्तु वेदयते । - ज्ञानी पुनः कर्मफलं जानाति-उदितं न घेदयते ॥ ३४४ ॥ तात्पर्यवृत्तिः- अण्णाणी कम्मफलं पयडिसहावाहिदो दु वेदेदि विशुद्धज्ञानदर्शनस्वभावात्मतत्त्वसम्यक्श्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मकभेदज्ञानस्याभावादज्ञानी जीवः उदयागतकर्मप्रकृतिस्वभावे सुखदुःखस्वरूपे स्थित्वा हर्षविषादाभ्यां तन्मयो भूत्वा कर्मफलं वेदयत्यनुभवति । णाणी पुण कम्मफर्ल जाणदि उदिदं ण वेदेदि ज्ञानी पुनः पूर्वोक्तभेदज्ञानसद्भावात् वीतरागसहजपरमानंदरूप सुखरसास्वादेन परमसमरसीभावेन परिणतः सन् कर्मफलमुदितं वस्तुस्वरूपेण जानात्येव नच हर्षविषादाभ्यां तन्मयो भूत्वा वेदयतीति ।
१ स्थितः इति स. पाठः।