________________
१६२
समातन जैनग्रंथमालार्या
चोत्पद्यंते जीवकर्तारमाश्रित्योपचारेण नियमान्निश्चयात् संदेहो नास्ति सिद्धी दु ण दिस्सदे अण्णा अनेन प्रकारण, अनेन कोsर्थ: : परस्परनिमित्तभावं विहाय शुद्धोपादानरूपेण शुद्धनिश्चयेन जीवस्य कर्मकर्तृत्वविषये । सिद्धिर्निष्पत्तिर्घटना न दृश्यते कर्मवर्गणायोग्यपुद्गलानां च कर्मत्वं न दृश्यते ततः स्थितं शुद्धनिश्चयनयेनाकर्ता जीव इति चतुर्थगाथा गता । एवं निश्चयेन जीवः कर्मणां कर्ता न भवतीति व्याख्यानमुख्यत्वेन प्रथमस्थले गाथाचतुष्टयं गतं ।
अथ शुद्धस्यात्मनो ज्ञानावरणादिप्रकृतिभिर्यदूर्बधो भवति तदज्ञानस्य माहात्म्यमिति प्रज्ञापयतिआत्मख्यातिः — जीवो हि तावत्क्रमनियमितात्मपरिणामैरुत्पद्यमानो जीव एव नाजीव:, एवमजी - वोऽपि क्रमनियमितात्मपरिणामैरुत्पद्यमानोऽजीव एव न जीवः, सर्वद्रव्याणां स्वपरिणामैः सह तादत्म्यात् कंकणादिपरिणामैः कांचनवत् । एवं हि जीवस्य स्वपरिणामैरुत्पद्यमानस्याप्यजीवन सह कार्यकारणभावो न सिद्ध्यति सर्वद्रव्याणां द्रव्यांतरेणोत्पाद्योत्पादकभावाभावात् । तदसिद्धौ चाजीवस्य जीवकर्मत्वं न सिद्ध्यति । तदसिद्धौ च कर्तृकर्मणोरनन्यापेक्षसिद्धत्वात् - जीवस्याजीवकर्तृत्वं न सिद्ध्यति, अतो जीवोऽकर्ता अवतिष्ठते । अकर्ता जीवोऽयं स्थित इति विशुद्धः स्वरसतः स्फुरच्चि ज्ज्योतिर्भिश्छुरितभुवनाभोगभुवनः । तथाप्यस्यासौ स्याद्यदिह किल बंधः प्रकृतिभिः स खल्वज्ञानस्य स्फुरति महिमा कोपि गहनः । १८६ ।
चेदा द पयडियs उप्पज्जदि विणस्सदि ।
दु
पयडीवि चेदय उप्पज्जदि विणस्सदि || ३४०|| एवं वंघो दुहंपि अण्णोण्णपच्चयाण हवे | अपणो पयडी एय संसारो तेण जायदे || ३४१॥ पिता तु प्रकृत्यर्थमुत्पद्यते विनश्यति ।
प्रकृतिरपि चेतकार्थमुत्पद्यते विनश्यति || ३४० || एवं बंधो द्वयोरपि - प्रत्यययोर्भवेत् । आत्मनः प्रकृतेश्व संसारस्तेन जायते || ३४१ ॥
तात्पर्यवृत्तिः - चेदा आत्मा स्वस्थभावच्युतः सन् प्रकृतिनिमित्तं कर्मोदयनिमित्तमुत्पद्यते । विनश्यति च विभावपरिणामैः पर्यायैः । प्रकृतिरपि चेतयितृकार्यं जीवसंबधिरागादि परिणामनिमित्तं ज्ञानावरणादिकर्मपर्यायैरुत्पद्यते विनश्यति च । पूर्वोक्तप्रकारेण बंधो जायते द्वयोः - स्वस्थभावच्युतस्यात्मनः, कर्मवर्गणायोग्यपुद्गल पिंडरूपाया ज्ञानावरणादिप्रकृतेश्च । कथंभूतयोर्द्वयोः ? अन्योऽन्यप्रत्यययोः, परस्परनिमि त्तकारणभूतयोः । एवं रागाद्यज्ञानभावेन बंधो भवति तेन बंधेन संसारो जायते, नच स्वस्वरूपत इत्युक्तं भवति । अथ यावत्कालं शुद्धात्मसंवित्तिच्युतः सन् प्रकृत्यर्थं प्रकृत्युदयरूपं रागादिकं न मुंचति तावत्कालमज्ञानी स्यात् तदभावे ज्ञानी च भवतीत्युपदिशति —
आत्मख्यातिः - अयं हि आ संसारत एव प्रतिनियतस्वलक्षणानिर्ज्ञानेन परमात्मनोरेकत्वाध्यासस्य करणात्कर्ता सन् चेतयिता प्रकृतिनिमित्तमुत्पादविनाशावासादयति । प्रकृतिरपि चेतयितृनिमित्तमुत्पत्तिविनाशावासादयति । एवमनयोरात्मप्रकृत्योः कर्तृकर्मभावाभावेप्यन्योन्यनिमित्तनैमितिकभावेन द्वयोरपि बंधो दृष्टः, ततः संसारः, तत एव च तयोः कर्तृकर्मव्यवहारः
जासो पडिय चेदगो ण विमुंचदि । अयाणओ हवे तावं मिच्छादिट्ठी असंजदो || ३४२ ॥