________________
समयप्राभृतं । इत्यादेिगाथामादि कृत्वा चतुर्दशगाथापर्यंत मोक्षपदार्थचूलिकाव्याख्यानं करोति । तत्रादौ निश्चयेन कर्मकर्तृत्वाभावमुख्यत्वेन सूत्रचतुष्टयं । तदनंतरं शुद्धस्यापि यदज्ञानावरणप्रकृतिबंधो भवति तदज्ञानस्य माहात्म्यमिति कथनार्थ चेदा दुपयडि अहं इत्यादि प्राकृतश्लोकचतुष्टयं । अतः परं भोक्तृत्वाभावज्ञापनार्थ अण्णाणी कम्मफलं इत्यादिसूत्रचतुष्टयं । तदनंतर मोक्षचूलिकोपसंहाररूपेण विकुणदि इत्यादि सूत्रद्वयं कथयतीति मोक्षपदार्थचूलिकायां समुदायपातनिका । अथ निश्चयेन कर्मणां कर्ता न भवति–इत्याख्याति
दवियं जं उप्पजदि गुणेहि तंतेहि जाणसु अणणं । जह कडयादीहिंदु पन्जएहिं कणयं अणण्णमिह ॥३३६॥ जीवस्साजीवस्सय जे परिणामा दु देसिदा सुत्ते । तं जीवमजीवं वा तेहिमणण्णं वियाणाहि ॥ ३३७ ॥ ण कुदोवि विउप्पण्णो जमा कजं ण तेण सो आदा। उप्पादेदि ण किंचिवि कारणमवि तेण ण सो होदि ॥ ३३८ ॥ कम्मं पडुच्च कता कत्तारं तह पडुच्च कम्माणि । उप्पंजंतिय णियमा सिद्धी दु ण दिस्सदे अण्णा ॥ ३३९ ॥
दव्यं यदुत्पद्यते गुणैस्तत्तैानीनन्यत् । यथा कटकादिभिस्तु पर्यायैः कनकमनन्यदिह ॥३३६॥ जीवस्याजीवस्य तु ये परिणामास्तु दर्शिताः सूत्रे । ते जीवमजीवं वा तैरनन्यं विजानीहि ॥३३७॥ न कुतश्चिदप्युत्पमो यस्मात्कार्य न तेन स आत्मा । उत्पादयति न किंचित्कारणमपि सेन न स भवति ॥३३८॥ कम प्रतीत्य कर्ता कर्तारं तथा प्रतीत्य कर्माणि ।
उत्पद्यते नियमात्सिद्धिस्तु न दृश्यतेऽन्या ॥३३९॥ तात्पत्तिः -यथा कनकमिह कटकादिपर्यायैः सहानन्यदभिन्न भवति तथा द्रव्यमपि यदुत्पद्यत परिणमति । कैः सह ? स्वकीयस्वीकीयगुणैः, तद्रव्यं तैगुणैःसहानन्यदभिन्नमिति जानीहि इति प्रथमगाथा गता। जीवरसाजीवस्स य जे परिणामा दु देसिदा सुते जीवस्य-अजीवस्य च ये परिणामाः पर्याया देशिताः कथिताः सूत्रे परमागमे तैःसह तेनैव पूर्वोक्तसुवर्णदृष्टांतेन तमेव जीवाजीवद्रव्यमनन्यदभिन्नं विजानीहीति द्वितीयगाथा गता । यस्माच्छु निश्चयनयेन नरनारकादिविभावपर्यायरूपेण कदाचिदपि नोत्पन्नः-कर्मणा न जनितः तेन कारणेन कर्मनोकर्मापेक्षयात्मा कार्य न भवति । न च तत्कर्मनोकर्मोपादानरूपेण किमप्युत्पादयति तेन कारणेन कर्मनोकर्मणां कारणमपि न। भवति यतः कर्मणां कर्ता मोचकश्च न भवति ततःकारणाद्वंधमोक्षयोः शुद्धनिश्चयनयेन कर्ता न भवतीति तृतीयगाथा गता । कम्मं पडुच्च कत्ता कत्तारं तह पडुच्च कम्माणि उप्पंजंते णियमा यतः पूर्व भणितं सुवर्णद्रव्यस्य कुंडलपरिणामेनेव सह जीवपुद्गलयोः स्वपरिणामैः सहैवानन्यत्वमाभिन्नत्वं । पुनश्चोक्तं कर्मनोकर्मभ्यां कर्तृभूताभ्यां जीवो नोत्पाद्यते जीवश्च कर्मनोकर्मणां नोत्पादयति ततो ज्ञायते कर्म प्रतीत्योपचारेण जीवः कर्मकर्ता । तथा कर्माणि
२१