________________
समवप्रामृतं । तात्पर्यवृत्तिः-अपरिग्गडो अणिच्छो भाणदो गाणीय णिच्छदे धम्म अपरिग्रहो भणितः कोसौ ! अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येष्विच्छा वांछा मोहो नास्ति । तेन कारणेन खसंवेदनज्ञानी शुद्धोपयोगरूपं निश्चयधर्म विहाय शुभोपयोगरूपं धर्मं पुण्यं नेच्छीत । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ततः कारणात्पुण्यरूपधर्मस्यापरिग्रहः सन् पुण्यमिदं ममस्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् , अतन्मयो भवन् दर्पणे विम्बस्येव ज्ञायक एव भवति ।
आत्मख्याति:-इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो न भवति, ज्ञानिनो ज्ञानमय एव भावोऽस्ति, ततो जानी, अज्ञानमयस्व भावस्य इच्छाया अभावात् धर्म नेच्छति । तेन ज्ञानिनो धर्मपरिग्रहो नास्ति । ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावाद् धर्मस्य केवलं ज्ञायक एवायं स्यात् ।
अपरिग्गहो अणिच्छो भणिदो णाणीय णिच्छदि अहम्मं । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि ॥ २२६ ॥
अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छत्यधर्म । ___अपरिग्रहोऽधर्मस्य ज्ञायकस्तेन स भवति ॥ २२६ ॥ तात्पर्यवृत्तिः-अपरिग्महो अणिच्गे भणिदो गाणीय णिच्छदि हम्म अपरिग्रहो भणितः, स कः ? अनिच्छः-तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु, इच्छा कांक्षा नास्ति । तेन कारणेन तत्त्वज्ञानी विषयकषायरूपं अधर्म पापं नेच्छति । अपरिग्गहो अधम्मस्स जाणगो तेण सो होदि तत एव कारणात्-विषयकषायरूपस्याधर्मस्याऽपरिग्रहः सन् पापमिदं मम स्वरूपं न भवतीति ज्ञात्वा तद्रूपेणापरिणमन् दर्पणे विम्बस्येव ज्ञायक एव भवति । एवमेव च, अधर्मपदपरिवर्तनेन रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसंज्ञानि सप्तदशसूत्राणि व्याख्येयानि । तेनैव प्रकारेण शुभाशुभसंकल्पविकल्परहितानंतज्ञानादिगुणस्वरूपशुद्धात्मनः प्रतिपक्षभूतानि शेषाण्यप्यसंख्येयलोकप्रमितानि विभावपरिणामस्थानानि वर्जनीयानि ।
आत्मख्याति:-इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो धर्मः । अज्ञानमयो भावस्तु ज्ञानिनो नास्ति ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात् अधर्म नेच्छति तेन ज्ञानिनः, अधर्मपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकमावस्य भावादधर्मस्य केवलं ज्ञायक एवायं स्यात् । एवमेव चाधर्मपदपरिवर्तनेम रागद्वेषक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशाऽन्यान्यप्यूह्यानि ।
धम्मच्छि अधम्मच्छी आयासं सुत्तमंगपुव्वेसु ।
संगं च तहा णेयं देवमणुअत्तिरियणेरइयं ॥ २२७॥ तात्पयवत्तिः-अपरिग्रहो भणितः कोऽसौ ! अनिच्छः तस्य परिग्रहो नास्ति यस्य बहिर्द्रव्येषु आकांक्षा नास्ति तेन कारणेन परमतत्त्वज्ञानी चिदानंदैकखभावं शुद्धात्मानं विहाय धर्माधर्माकाशाधंगपूर्वगतश्रुतबाह्याभ्यंतरपरिग्रहदेवमनुष्यतिर्यनरकादिविभावपर्यायानेच्छति इति ज्ञेयं ज्ञातव्यं । ततः कारणात्तद्विषये निष्परिग्रहो भूत्वा तद्रूपेणापरिणमन् सन् दर्पणे बिम्बस्येव ज्ञायक एव भवति ।
अपरिग्गहो अणिच्छो भेणिदो असणं तु णिच्छदे णाणी।
अपरिग्गहो दु असणस्स जाणगो तेण सो होदि ॥ २२८ ॥ १ नेयमात्मख्यातो माथा तात्पर्यवृत्तावेव । २ 'मणिदा णाणीदु णिच्छदे असंणं' आत्मख्याती पाठोऽयं ।