________________
सनातनजैनग्रंथमालायाआत्मख्यातिः-आत्मा किल परमार्थः तत्तु ज्ञानं, आत्मा च एक एव पदार्थः, ततो ज्ञानमध्येक मेव पदं यदेतत्तु ज्ञानं नामैकं पदं स एष परमार्थः साक्षान्मोक्षोपायः । न चाभिनिबोधिकादयो भेदा इदमेक पदमिह भिंदंति ? किं तु तेपीदमेवैकं पदमभिनंदंति। तथाहि-यथात्र सवितुर्धनपटलावगुंठितस्य तद्विघटनानुसारेण प्राकव्यमासादयतः प्रकाशनातिशयभेदा न तस्य प्रकाशस्वभावं भिंदंति । तथा, आत्मनः कर्मपटलोदयावगुंठितस्य तद्विघटनानुसारेण प्राकव्यमासादयतो ज्ञानातिशयभेदा न तस्य ज्ञानस्वभावं भिंद्युः । किं तु प्रत्युतमभिनंदेयुः । ततो निरस्तसमस्तभेदमात्मस्वभावभूतं ज्ञानमेवैकमालम्ब्यं तदालंबनादेव भवति पदप्राप्तिः । नश्यति भ्रांतिः । भवत्यात्मलाभः । सिद्धत्यनात्मपरिहारः, न कर्म मूर्छति । न रागद्वेषमोहा उत्प्लवंते । न पुनः कर्म, आस्रवति । न पुनः कर्म बध्यते । प्रागबद्धं कर्म, उपभुक्तं निर्जीयते । कृत्स्नकर्माभावात् साक्षान्मोक्षो भवति ।
अच्छाच्छाः स्वयमुच्छलति यदिमाः संवेदनव्यक्तयो निष्फीताखिलभावमंडलरसप्राग्भारमत्ता इव ।
यस्याभिन्नरसः स एष भगवानेकोप्यनेकी भवन् वैलगत्युत्कालिकाभिरद्भुतनिधिश्चैतन्यरत्नाकरः । १४४। किं च-क्लिश्यतां स्वयमेव दुष्करतरैर्मोक्षोन्मुखैः कर्मभिः क्लिश्यतां च परे महाव्रततपोभारेण भग्नाश्चिरं । साक्षान्मोक्ष इदं निरामयपदं संवेद्यमानं स्वयं ज्ञानं ज्ञानगुणं विना कथमपि प्राप्तुं क्षमंते न हि ।१४५/
णाणगुणेहिं विहीणा एदं तु पदं वहूवि ण लहंति । तं गिह सुपदमेदं जदि इच्छसि कम्मपरिमोक्खं ॥ २२४ ॥
ज्ञानगुणैर्विहीना एतत्तु पदं बहवोऽपि न लभते । ___ तद्गहाण सुपदमिदं यदीच्छसि कर्मपरिमोक्षं ॥ २२४ ॥ तात्पर्यवृत्तिः-णाणगुणेहिं विहीणा एदं तु पदं बहुवि ण लहंति निर्विकारपरमात्मतत्त्वोपलब्धिलक्षणज्ञानगुणेन विहीनाः, रहिताः पुरुषाः, बहवोऽपि शुद्धात्मोपादेयसंवित्तिरहितं दुर्धरकायक्लेशादितपश्चरणं कुर्वाणा अपि मत्यादिपंचज्ञानाभेदरूपं साक्षान्मोक्षकारणं खसंवेद्यं शुद्धात्मसंवित्तिविलक्षणमिदं पदं न लभंते । तं गिण्ह सुपदमेदं जदि इच्छसि कम्मपरिमोक्खं हे भव्य तत्पदं गृहाण यदीच्छसि कर्मपरिमोक्षमिति । अथ विशेषपरिग्रहत्यागरूपेण तमेव ज्ञानगुणं विवृणोति
आत्मख्यातिः—यतो हि सकलेनापि कर्मणा कर्मणि ज्ञानस्याप्रकाशनात् ज्ञानस्यानुपलंभः । केवलेन ज्ञानेनैव ज्ञान एव ज्ञानस्य प्रकाशनाद् ज्ञानस्योपलंभः । ततो बहवोऽपि बहुनापि कर्मणा ज्ञानशून्या नेदमुपलभंते । इदमनुपलभमानाश्च कर्मभिर्विप्रमुच्यते ततः कर्ममोक्षार्थिना केवलज्ञानावष्टंभेन नियतमेवेदमेकं पदमुपलंभनीयं ।
पदमिदं ननु कर्मदुरासदं सहजबोधकलासुलभं किल ।
तत इदं निजबोधकलावलात्कलयितुं यततां सततं जगत् । १४६ । अपरिग्गहो अणिच्छो भणिदो णाणीय णिच्छदे धम्म । अपरिग्गहो दु धम्मस्स जाणगो तेण सो होदि ॥२२५॥
अपरिग्रहोऽनिच्छो भणितो ज्ञानी च नेच्छति धर्म ।
अपरिग्रहस्तु धर्मस्य ज्ञायकस्तेन स भवति ॥ २२५॥ र यावंतः पर्यायास्तेभ्योऽभिन्नसत्ताकः २ परिणमति । ३ अनादितो मत्याद्यनेकभेदः । ४ शुद्धखरूपानुभवभ्रष्टाः । ५ सांबारिकंक्लेशरहितं । । शुद्धखरूपानुभवशाफिमंतरेण | ७ णियदमित्यात्मख्यातिवृत्ती पाठः ।