________________
समयप्राभृतं ।
११५ भथात्मसुखे संतोषं दर्शयति
मात्मख्याति:-छिद्यतां वा भिद्यतां वा नीयतां वा विप्रलयं यातु वा यतस्ततो गच्छतु वा तथापिन परद्रव्यं परिगृहामि । यतो न परद्रव्यं मम स्वं नाहं परद्रव्यस्य स्वामी । परद्रव्यमेव परद्रव्यस्य स्वं परद्रव्यमेव परद्रव्यस्य स्वामी । अहमेव मम स्वं अहमेव मम स्वामीति जानाति ।
इत्थं परिग्रहमपास्य समस्तमेव सामान्यतः स्वपरयोरविवेकहेतुं ।
अज्ञानमुज्झितुमना अधुना विशेषाद् भूयस्तमेव परिहर्तुमयं प्रवृत्तः ॥ १४२ ।। एदमि रदो णिचं संतुट्ठो होहि णिचमेदसि । एदेण होहि तित्तो तो होहदि उत्तमं सोक्खं ॥ २२२ ॥
एतामिन् रतो नित्यं संतुष्टो भव नित्यमेतस्मिन् ।
एतेन भव तृप्तो तर्हि भविष्यति तवोत्तमं सौख्यं । २२२ । तात्पर्यवृत्तिः- एदलि रदो णिचं संतुट्टो होहि णिच्चमेदमि एदेण होहि तितो हे भव्य पंचेंद्रियसुखनिवृत्तिं कृत्वा निर्विकल्पयोगवलेन स्वाभाविकपरमात्मसुस्वे रतो भव संतुष्टो भव, तृप्तो भव, नित्यं सर्वकालं तो होइदि उत्तमं सुक्खं ततस्तस्मादात्मसुखानुभवनात् तवोत्तममक्षयं मोक्षसुखं भविष्यति । .. अथ मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपं परमार्थसंज्ञं मोक्षकारणभूतं यत्परमात्मपदं तत्समस्तहर्षविषादादिविकल्पजालरहितं परमयोगाभ्यासादेवात्मानुभवति, इति प्रतिपादयति
आत्मख्यातिः - एतावानेव सत्य आत्मा यावदेतज्ज्ञानमिति निश्चित्य ज्ञानमात्र एव नित्यमेव रतिमुपैहि । एतावत्येव सत्याशीः, यावदेतज्ज्ञानमिति निश्चित्य ज्ञानमात्रेणैव नित्यमेव संतोषमुपैहि । एतावदेव सत्यमनुभवनीयं यावदेव ज्ञानमिति निश्चित्य ज्ञानमात्रेणैव नित्यमेव तृप्तिमुपैहि । अथैवं तव तन्नित्यमेवात्मरतस्य, आत्मसंतुष्टस्य, आत्मतृप्तस्य च वाचामगोचरं सौख्यं भविष्यति । तत्तु तत्क्षण एव त्वमेव स्वयमेव द्रक्ष्यसि मा अन्यान् प्राक्षीः ।
अचिंत्यशक्तिः स्वयमेव देवश्चिन्मात्रचिंतामणिरेव यस्मात् । सर्वार्थसिद्धात्मतया विधत्ते ज्ञानी किमन्यस्य परिग्रहेण ॥१४३॥ आभिणिसुदोहिमणकेवलं च तं होदि एकमेव पदं । सो एसो परमट्टो जं लहिदं णिव्वुदि जादि ॥ २२३ ।। ' आभिनिबोधिकश्रुतावधिमनःपर्ययकेवळ च तद्भवत्येकमेव पदं।
स एव परमार्थः, यं लब्ध्वा निवृत्ति याति ॥ २२३ ॥ तात्पर्यवृत्तिः-आभिणिसुदोहिमणकेवलं च तं होदि एकमेव पदं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपं यत्तन्निश्चयेन, एकमेव पदं । परं किं तु यथादित्यस्य मेघावरणतारतम्यवशेन प्रकाशभेदा भवंति । तथा मतिज्ञानावरणादिभेदकर्मवशेन मतिश्रुतज्ञानादि मेदभिन्नं जातं सो एसो परमट्ठो जं लहिदु णिव्वुदि जादि स एष लोकप्रसिद्धः पंचज्ञानाभेदरूपः परमार्थः यं परमार्थ लब्ध्वा जीवो निवृति याति लभत इत्यर्थः । एवं ज्ञानशक्तिवैराग्यशक्तिविशेषविवरणरूपेण सूत्रदशकं गतं । अत ऊर्ध्व गाथाष्टकपर्यंतं तस्यैव परमात्मपदस्य प्रकाशको योसौ ज्ञानगुणः, तस्य सामान्यविवरणं करोति। तद्यथा ... अथ मत्यादिपंचज्ञानाभेदरूपं साक्षान्मोक्षकारणभूतं यत्परमात्मपदं, तत्पदं शुद्धात्मानुभूतिशून्यं बततपश्चरणादिकायक्वेशं कुर्वाणा अपि स्वसंवेदनज्ञानगुणेन विना न लभंत इति कथयति