________________
११४
सनातन जैनप्रथमालाथां
रूपं । नियतं, निश्चितं । पुनरपि कथंभूतं ? स्थिरं, अविनश्वरं । एक, असहायं । इदं प्रत्यक्षीभूतं । पुनरपि किं विशिष्टं ? उपलभ्यमानं, अनुभूयमानं । केन कृत्वा ! परमात्मसुखसंवित्तिरूपस्वसंवेदनबानस्वभावेनेति । अथ ज्ञानी परद्रव्यं जानातीति भेदभावनां प्रतिपादयति
आत्मख्यातिः - इह खलु भगवत्यात्मनि बहूनां द्रव्यभावानां मध्ये ये किल, अतत्स्वभावेनोपलभ्यमानाः, अनियतत्वावस्थाः, अनेके, क्षणिकाः, व्यभिचारिणो भावाः, ते सर्वेऽपि स्वयमस्थायित्वेन स्थातुः स्थानं भवितुमशक्यत्वात्, अपदभूताः । यस्तु तत्स्वभावेनोपलभ्यमानः, नियतत्वावस्थः, एकः, नित्यः, अव्यभिचारी भावः, स एक एव स्वयं स्थायित्वेन स्थानं भवितुं शक्यत्वात् पदभूतः । ततः सर्वानेवास्थायि - भावान् मुक्त्वा स्थायिभावभूतं, परमार्थरसतया स्वदमानं ज्ञानमेकमेवेदं स्वाद्यं ।
एकमेव हि तत्स्वाद्यं विपेदामपदं पदं अपदान्येव भासते पदान्यान्यानि यत्पुरः । १४० । एकं ज्ञायकभावनिर्भरमहास्वादं समासादयन् स्वादं द्वंद्वमयं विधातुमसहः स्वां वस्तुवृत्तिं विदन् । आत्मात्मानुभवानुभावविवशो भ्रश्यविशेषोदयं सामान्यं कलयत्किलैष सकलं ज्ञानं नयत्येकतां ॥ १४१ ॥ कुतो ज्ञानी न परं गृण्हातीति चेत् —
को नाम भणिज हो परदव्वं मममिदं हवदि दव्वं । अप्पाणमप्पणो परिग्गहं तु णियदं वियाणंतो ॥ २२० ॥
को नाम भद्बुधः परद्रव्यं ममेदं भवति द्रव्यं । आत्मानमात्मनः परिग्रहं तु नियतं विजानन् ॥ २२० ॥
तात्पर्यवृत्तिः–को नाम भणिज्ज वुहो परदव्वं मममिदं हवदि दव्वं परद्रव्यं मम भवतीति नाम स्फुटमहो वा को ब्रूयात् ? बुधो ज्ञानी न कोपि । किं कुर्वन् ? अप्पाणमप्पणो परिग्गहं तु णियदं वियाणंतो चिदानंदैकस्वभावशुद्धात्मानमेव, आत्मनः परिग्रहं विजानन् नियतं निश्चितमिति ।
अथायं च मे निश्चयः, देहरागादि मम परिग्रहो न भवतीति भेदज्ञानं निरूपयति
आत्मख्यातिः - यतो हि ज्ञानी योहि यस्य स्वो भावः स तस्य स्वः स तस्य स्वामीति खरतरतस्वदृष्ट्यवष्टंभात्, आत्मानमात्मनः परिग्रहं तु नियमेन जानाति । ततो न ममेदं स्वं नाहमस्य स्वामी इति परद्रव्यं न परिगृहाति । अतोहमपि न तत्परिगृण्हामि ।
छिजदु वा भिजदु वा णिजदु वा अहव जादु विप्पलयं । जह्मा तह्मा गच्छदु तहावि ण परिग्गहो मज्झ ॥ २२१ ॥
छिद्यतां वा भिद्यतां वा नीयतां अथवा यातु विप्रलयं । यस्मात्तस्माद् गच्छतु तथापि न परिग्रहो मम ।। २२१ ॥
तात्पर्यवृत्तिः - छिज्जदु वा भिज्जदु वा णिज्जदु वा अहव जादु विप्पलयं छिद्यतां वा द्विधा भवतु, भिद्यतां वा छिद्री भवतु, नीयतां वा केन चित् । अथवा विप्रलयं विनाशं गच्छतु, एवमेव जह्मा तह्मा गच्छदु तहावि ण परिग्गहो मज्झ अन्यस्मात् यस्मात् तस्मात् कारणाद्वा गच्छतु तथापि शरीरं मम परिग्रहो न भवति । कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंदज्ञायकैकस्वभावहिं, यतः कारणात् । अयं च मे निश्चयः ।
१ विपदां चातुर्गातिकदुःखानां। २ अपदानि अस्वभावभूतानि चातुर्गतिकपर्या वा- रागद्वेषसुखदुःखावस्थाभेदा वा । ३ स्थैर्यादिधर्मान्वितस्य चैतन्यस्य पुरस्तात् । ४ गौंणीकुर्वत् ।