________________
समयप्राभृतं । फंखदि कलुसिदभूदो दुकामभोगेहिं मुच्छिदो संतो।
णय भुंजतो भोगे बंधदि भावेण कम्माणि ॥ १ ॥ .. इति ज्ञात्वा, अपध्यानं त्यक्त्वा च शुद्धात्मस्वरूपे स्थातव्यमिति भावार्थः । अथ मिथ्यात्वरागादिरूपमपध्यानं मम परिग्रहो न भवति, इति पुनरपि भेदज्ञानशक्तिं वैराग्यशक्तिं च प्रकटयति
भात्मख्यातिः-इह खल्वध्यवसानोदयाः कतरेऽपि संसारविषयाः, कतरेपि शरीरविषयाः । तत्र पतरे संसारविषयाः, ततरे बंधनिमित्ताः । यतरे शरीरविषयास्ततरे तूपभोगनिमित्ताः । यतरे बंधनिमित्तास्ततरे रागद्वेषमोहाद्याः । यतरे तूपभोगनिमित्तास्ततरे सुखदुःखाद्याः। अथामीषु सर्वेष्वपि ज्ञानिनो नास्ति रागः । नानाद्रव्यस्वभावत्वेन टंकोत्कीर्णैकज्ञायकभावस्वभावस्य तस्य तत्प्रतिषेधात् ।
ज्ञानिनो न हि परिग्रहभावं कर्मरागरसरिक्ततयैति रागयुक्तिरकषायितवस्त्रं स्वीकृतैव हि बहिलठतीह । १३८ । ज्ञानवान् स्वरसतोऽपि यतःस्यात् सर्वरागरसवर्जनशीलः
लिप्यते सकलकर्मभिरेष कर्ममध्यपतितोऽपि ततो न । १३९ । मज्झं परिग्गहो जदि तदो अहमजीविदं तु गच्छेज । णादेव अहं जमा तह्मा ण परिग्गहो मज्झ ॥ २१८॥
मम परिग्रहो यदि ततोऽहमजीवतां तु गच्छेयं ।
ज्ञातैवाहं यस्मात्तमान परिग्रहो मम ॥ २१८ ॥ तात्पर्यवृत्तिः-मझं परिग्गहो जदि तदो अहमजीविदं तु गच्छेज्ज सहजशुद्धकेवलज्ञानदर्शनस्वभावस्य मम यदि मिथ्यात्वरागादिकं परद्रव्यं परिग्रहो भवति ततोऽहं, अजीवत्वं जडत्वं गच्छामि । न चाहं अजीवो भवामि । णादेव अहं जमा तह्मा ण परिग्गहो मज्झ परमात्मज्ञानपदमेवाहं यस्मात्ततः परद्रव्यं मम परिग्रहो न भवतीत्यर्थः।
भथ किं तत्परमात्मपदमिति पृच्छति
आत्मख्याति:-यदि परद्रव्यमहं परिगृण्हीयां तदावश्यमेवाजीवो ममासौ स्वः स्यात् । अहमप्यवश्यमेवाजीवस्यामुष्य स्वामी स्यां । अजीवस्य तु यः स्वामी स किलाजीवः । एवमवशेनापि ममाजीवत्वमापद्येत । मम तु एको ज्ञायक एव भावः, यः स्वः, अस्यैवाहं स्वामी, ततो माभून्ममाजीवत्वं ज्ञातैवाहं भविध्यामि, न परद्रव्यं परिगृहामि, अयं च मे निश्चयः । किं तत्पदं ?
आदमि दव्वभावे अथिरे मोत्तूण गिण्ह तव णियदं । थिरमगमिमं भावं उवलंभंतं सहावेण ॥ २१९ ॥
आत्मनि द्रव्यभावान्यस्थिराणि मुक्त्वा गृहाण तव नियतं ।
स्थिरमेकमिमं भावं उपलभ्यमानं स्वभावेन ॥ २१९ ॥ तात्पर्यवृचिः-आदमि दवभावे अथिरे मोत्तूण आत्मद्रव्येऽधिकरणभूते, द्रव्यकर्माणि भावकर्माणि च यानि तिष्ठति तानि विनश्वराणि, इति विज्ञाय मुक्त्वा गिण्ह हे भव्य गृहाण । कं ! कर्मता पनं तव णियदं थिरमेगमिमं भावं उपलब्भंतं सहावेण भावं, आत्मपदार्थ कथंभूतं ? तव, संबंधिख
१ कर्म-विषयोपभोगलक्षणा क्रिया, राग आत्मनोरंजकपरिणामः स एव सस्तविकतया तद्भिातया। २ स्वीकता संयोगपरिणामपरिणता । ३ मामख्यातिवृत्ता, 'भपदे मोखूण' इति पाठः ।
-