________________
२१२
समातनजैनग्रंथमालायाजो वेददि वेदिजदि समए समए विणस्सदे उहयं । तं जाणगो दु णाणि उभयमवि ण कंखदि कयावि ॥२१॥
यो वेदयते वेधते समये सपये विनश्यत्युभयं ।
तद् नायकस्तु ज्ञानी, उभयमपि न कांक्षति कदाचित् ।। २१६ ॥ तात्पर्यवृत्तिः-जो वेददि वेदिजदि समए समए विणस्सदे उहयं योसौ रागादिविकल्पः फर्ता वेदयत्यनुभवति यस्तु सातोदयः कर्मतापन्नं वैद्यते तेन रागादिविकल्पेन, अनुभूयते । तदुभयमपि अर्थपर्यायापेक्षया समय समय प्रति विनश्वरं तं जाणगो दु णाणी उभयपि ण कखदि कयावि तदुभयमपि घेद्यवेदकरूपं वर्तमानं भाषिनं च विनश्वरं जानन् सन् तत्त्वज्ञानी नाकांक्षति न बांछति कदा चिदपि । अथ तथैवापध्यानरूपाणि निष्प्रयोजनबंधनिमित्तानि शरीरविषये भोगनिमित्तानि च रागाद्यध्यघसानानि परमात्मतत्त्ववेदी न वांछति, इति प्रतिपादयति - ।
__ आत्मख्याति:-ज्ञानी हि तापद्धृवत्वात् स्वभावभावस्य टंकोत्कीर्णैकज्ञायकभावो नित्यो भवति यौ तु वद्यवेदकभावौ तौ तूत्पन्नाध्यंसित्वाद्विभावभावानां क्षणिकौ भवतः । तत्र यो भावि कांक्षमाणं वेद्यभावं वेदयते स यावद्भवति तावत्कांक्षमाणो भावो विनश्यति । तस्मिन् विनष्ट वेदको भावः किं वेदयते । यदि काक्षमाणवेद्यभावपृष्ठभाविनमन्यं भावं वेदयते । तदा तद्भवनात्पूर्व विनश्यति कस्तं वेदयते । । यदि वेदकभावपृष्ठभावी भावोन्यस्तं वेदयते तदा तद्भवनात्पूर्व स विनश्यति । किं स वेदयते ? इति कांक्ष्यमाण भाववेदनानवस्था तां च विजानन् बानी किंचिदेव कांक्षति
पेद्यवेदकविभावचलत्वाद्वेद्यते न खलु कांक्षितमेव
तेन कांक्षति न किंचन विद्वान् सर्वतोप्यतिविरक्तिमुपैति । १३७ । तथाहि
बंधुवभोगणिमित्तं अज्झवसाणोदएसु णणिस्स । संसारदेहविसएसु णेव उप्पजदे रागो ॥ २१७ ॥
धापभोगनिमित्तेषु, अध्यवसानोदयेषु शानिनः ।
संसाग्देहविषयेषु नैवोत्पद्यते रागः ॥ २१७ ॥ तात्पर्यवृत्तिः-बंधुवभोगणिमित्तं अज्झवसाणोदयेसु गाणिस्स व उप्पजदे रागो स्वसंवेदनज्ञानिनो जीवस्य रागायुदयरूपेषु, अध्यवसानेषु बंधनिमित्तं भोगनिमित्तं वा नैषोत्पद्यते रागः । कथंभूतेष्वध्यवसानेषु ? संसरादेहविस एसु निष्प्रयोजनबंधनिमित्तेषु संसारविषयेषु, भोगनिमित्तेषु देहविषयेषु वा । इदमत्र तात्पर्य भोगनिमित्तं स्तोकमेव पापं करोत्ययं जीवः । निष्प्रयोजनापल्यानेन बहुतरं करोति शालिमत्स्यवत् । तथा चोक्तमभ्यानलक्षणं___बंधबधच्छेदादेद्वेषादागाच परकलत्रादेः आध्यानमपध्यानं शासति जिनशासने विशदाः। ॥ १॥ इति. अपध्याने कर्म बध्नाति तदप्युक्तमास्ते
संकल्पकल्पतरुसंश्रयाणात्वदीयं चेतो निमजति मनोरथसागरेऽस्मिन् । तत्रार्थतस्तव चकास्ति न किंचनापिं पक्षःपरं भवसि कल्मषसंश्रयस्य ॥ १॥ दैविध्यदग्धमनसोंऽतरुपात्तमुक्तेश्चित्तं यथोल्लसति ते स्फुरितोत्तरंगं ।
धाम्नि स्फुरेद्यदि तथा परमात्मसंज्ञे कौतुस्कृती तव भवेदिफला प्रसूतिः ॥२॥ आचारशास्त्रे भणितं