________________
समयप्रायतं ।
१११ रागी सम्यग्दष्टिर्न भवतीति कथयति -
यात्मख्याति:-ये कर्मोदयविपाकप्रभवा विविधा भावा म ते मम स्वभावाः । एष टेकोल्कणिकज्ञायकस्वभावोहं। कथं रागी न भवति सम्यग्दृष्टिरिति चेत्
परमाणुमित्तियं पि हु रागादीणं तु विजदे जस्स । णवि सो जाणदि अप्पा णयं तु सव्वागमधरोवि ॥२१॥ अप्पाणमयाणंतो अणप्पयं चेव सो अयाणंतो। कह होदि सम्मदिट्ठी जीवाजीवे अयाणतो ॥२१५॥ युग्मं
परमाणुमात्रमपि खलु रागादीनां तु विद्यते यस्य । नापि स जानात्यात्मानं सर्वागमधरोऽपि ॥ २१४ ॥ आत्मानमजानन् अनात्मानमपि सोऽजानन् ।
कथं भवति सम्यग्दृष्टिर्नीवाजीवावजानन ॥ २१५ ॥ तात्पर्यवृत्तिः -परमाणुमित्तयंपि य रागादीणं तु विज्जदे जस्स परमाणुमात्रमपि रागादनिां तु विद्यते यस्य हृदये हु स्फुटं णवि सो जाणदि अप्पाणयं तु सव्वागमधरोवि सतु परमात्मतत्त्वज्ञानाभावात् , शुद्धबुद्धकस्वभावं परमात्मानं न जानाति, नानुभवति । कथंभूताऽपि सर्वागमधरोऽपि सिद्धांत सिंधुपारगोऽपि । अप्पाणमयाणंतो अणप्पयं चव सो अयाणंतो स्वसंवेदनज्ञानवलेन सहजानंदैकस्वभावं शुद्धात्मानमजानन्, तथैवाभावयंश्च शुद्धात्मनो भिन्नरागादिरूपमनात्मानं जानन् कह होदि सम्मदिही जीवाजीवो अयाणंतो स पुरुषो जीवाजीवस्वरूपमजानन् सन् कथं भवति सम्यग्दृष्टिः ! न कथमपीति ।
रागी सम्यग्दृष्टिर्न भवतीति भणितं भवद्भिः । तर्हि चतुर्थपंचमगुणस्थानवर्तिनः, तीर्थंकर कुमरभरत-सगर-राम-पांडवादयः सम्यग्दृष्टयो न भवंति !, इति । तन्न मिथ्यादृष्टयपेक्षया त्रिचत्वारिंशत्प्रकृतीनां बंधाभावात् सरागसम्यग्दृष्टयो भवति । कथं ! इति चेत् चतुर्थगुणस्थानवर्तिनां जीवानां अनंतानुबंधि क्रोधमानमायालोभमिथ्यात्वोदयजनितानां पाषाणरेखादिसमानानां रागादीनामभावात् । पंचमगुणस्थानवर्तिनां पुनर्जीवानां, अप्रत्याख्यानक्रोधमानमायालोभोदयजनितानां भूमिरेखादिसमानानां रागादीनामभावात्, इति पूर्वमेव भणितमास्ते । अत्र तु ग्रंथे पंचमगुणस्थानादुपरितनगुणस्थानवर्तिनां वीतरागसम्यग्दृष्टीनां मुख्यवृत्त्या ग्रहणं सरागसम्यग्दृष्टीनां गौणवृत्त्येति व्याख्यानं सम्यग्दृष्टिव्याख्यानकाले सर्वत्र तात्पर्येण ज्ञातव्यं । अथ भाविनं भोगं ज्ञानी न कांक्षतीति कथयति
आत्मख्याति:-यस्य रागाद्यज्ञानभावानां लेशतोऽपि विद्यते सद्भावः, भवतु स श्रुतकेवलिसहशोऽपि तथापि ज्ञानमयभावानामभावेन न जानात्यात्मानं । यस्त्वात्मानं न जानाति सोऽनात्मानमपि न जानाति स्वरूपपररूपसत्तासत्ताभ्यामेकस्य वस्तुनो निश्चीयमानत्वात् । ततो य आत्मानात्मानौ न जानाति स जीवाजीवौ न जानाति । यस्तु जीवाजीवौ न जानाति स सम्यग्दृष्टिरेव न भवति । ततो रागी ज्ञानाभावान्न भवति सम्यग्दृष्टिः ।
आसंसारात्प्रतिपदममी रागिणो नित्यमत्ताः सुप्ता यस्मिन्नपदमपदं सद्धि बुध्यध्वमंधाः । एतैतेतः पदमिदमिदं यत्र चैतन्यधातुः शुद्धः शुद्धः स्वरसभरतः स्थायिभावत्वमेति ॥१३६॥ कुतोऽनागतं ज्ञानी नांकांक्षतीति चेत्