________________
सनातननग्रंथमालातात्पर्यवृत्ति:-कह एम तुज्झ ण हवदि विविहो कम्मोदयफलविवागो कथमेष विविधकर्मोदयफलविपाकस्तवरूपं न भवतीति केनापि पृष्टः तत्रोत्तरं ददाति परदव्वाणुवओगो निर्विकारपरमाह्लादै कलक्षणस्वशुद्धात्मद्रव्यात्प्रथग्भूतानि परद्रव्याणि यानि कर्माणि जीवे लग्नानि तिष्ठति तेषामुपयोग उदयोयं, औपाधिकस्फटिकस्य परोपाधिवत् । न केवलं भावक्रोधादि ममस्वरूपं न भवति, इति णदु देहो हवादि अग्णाणी देहोऽपि मम स्वरूपं न भवति हु स्फुटं कस्मादिति चेत् , अज्ञानी जडवरूपो यतः कारणात् , अहं पुनः, अनंतज्ञानादिगुणस्वरूप इति । अथ सम्यग्दृष्टिः स्वस्वभावं जानन् रागादींश्च मुंचन् नियमाज्ज्ञानवैराग्यसंपन्नो भवति इति कथयति
एवं सम्माइट्ठी अप्पाणं मुणदि जाणगसहावं । उदयं कम्मविवागं च मुअदि तचं वियाणंतो ॥२१॥
एवं सम्यग्दृष्टिः आत्मानं जानाति बायकस्वभावं ।
उदयं कर्मविपाकं च मुंचति तवं विजानन् ।॥ २१२ ॥ तात्पर्यवृत्तिः-एवं सम्माइट्ठी अपाणं मुणदि जाणगसहावं एवं-पूर्वोक्तप्रकारेण सम्यग्दष्टिर्जीवः आत्मानं जानाति, कथंभूतं ! टंकोत्कीर्णपरमानंदज्ञायकैकस्वभावं । उदयं कम्मविवागं मुअ. दि तचं बियाणंतो उदयं पुनर्ममस्वरूपं न भवति कर्मविपाकोयमिति पत्वा मुंचति । किं कुर्वन् सन् ? नित्यानंदैकस्वभावं परमात्मतत्त्वं त्रिगुप्तिसमाधौ स्थित्वा जाननिति ।
अथ सम्यग्दृष्टिः सामान्येन स्वपरस्वभावमनेकप्रकारेण जानाति
आत्मख्याति: - एवं सम्यग्दृष्टिः सामान्येन विशेषेण च परस्वभावेभ्यो भावेभ्यो सर्वेभ्योऽपि विविच्य टंकोत्कीर्णैकजायकस्वभावमात्मनस्तत्त्वं विजानाति । तथा तत्त्वं विजानंश्च स्वपरभावापादानापोहननिष्पाद्य स्वस्य वस्तुत्वं प्रथयन् कर्मोदयविपाकप्रभवान् भावान् सर्वानपि मुंचति। ततोयं नियमात् ज्ञानवैराग्याभ्यां संपन्नो भवति ।
सम्यग्दृष्टिः स्वयमयमहं जातु बंधो न मे स्यादित्युत्तानोत्पुलकवदना रागिणोप्याचरंतु । आलंबंतां समितिपरतां ते यतोद्यापि पापा आत्मानात्मावगमविरहात्सति सम्यक्त्वरिक्ताः ॥१३॥ सम्यग्दृष्टिः सामान्येन स्वपरावेवं तावजानातिउदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहि । ण दु ते मज्झ सहावा जाणगभावो दु अहमिको ॥२१३॥
उदयविपाको विविधः कर्मणां वर्णितो जिनवरैः ।
न तु ते मम स्वभावाः झायकभावस्त्वहमेकः ॥ २१३ ॥ तात्पर्यवृत्तिः-उदयविवागो विविहो कम्माणं वण्णिदो जिणवरेहिं उदयविपाको विविधो नानाप्रकारः कर्मणां संबंधी वर्णितः कथितः, जिनवरैः ण दु ते मत्झसहावा जाणगभावो दु अहमिको ते कौदयप्रकारा कर्मभेदा मम स्वभावा न भवंति, इति कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंद शायकैकत्वभावोऽहं यतः कारणात् । सम्यग्दृष्टिः सामान्येन स्वपरस्वरूपावेवं जानाति इति भणितं । कथं समान्यं ? इतिचेत् क्रोधोहं मानोहमित्यादि विवक्षा नास्तीति । तदपि कथमिति चेत् “विवक्षाया अभावः सामान्यमिति वचनात्" । एवं भेदभावनारूपेण ज्ञानवैराग्ययोः सामान्यव्याख्यानमुख्यत्वेन गाथापंचकं गतं । इत ऊर्ध्व गाथादशपर्यंतं पुनरपि ज्ञानवैराग्यशक्तयेोविशेषविवरणं करोति । तद्यथा।