________________
""समर्थप्रामृतं। कस्सवि णय पायरणोत्ति सो होदि यथा कस्यापि परगृहादागतस्य विवाहादिप्रकरणचेष्टा तावदस्ति तथापि विवाहादिप्रकरणस्वामित्वाभावात् प्राकरणिको न भवति । अन्यः पुनः प्रकरणस्वामी नृत्यगीतादिप्रकरणव्यापारमकुर्वाणोऽपि प्रकरणरागसद्भावात् प्राकरणिको भवति । तथा परमतत्त्वज्ञानी सेवमानोप्यसेवको भवति । अज्ञानी जीवो रागादिसद्भावादसेवकोऽपि सेवक इति ।
अथ सम्यग्दृष्टिः स्वपरस्वरूपमेव विशेषेण जानाति
आत्मख्याति:-यथा कश्चित् प्रकरणे व्याप्रियमाणोपि प्रकरणस्वामित्वाभावात् , न प्राकरणिकः । अपरस्तु तत्राव्याप्रियमाणोऽपि तत्स्वामित्वात्प्राकरणिकः । तथा सम्यग्दृष्टि: पूर्वकर्मोदयसंपन्लान् विषयान् सेवमानोऽपि रागादिभावानामभावेन विषयसेवनफलस्वामित्वाभावादसेवक एव । मिथ्याद्दष्टिस्तु विषयानसेवमानोऽपि रागादिभावानां सद्भावेन विषयसेवनफलस्वामित्वात्सेवकः ।
सम्यग्दृष्टेर्भवति नियतं ज्ञानवैराग्यशक्तिः स्वतःस्तुत्यं कलयितुमयं स्वान्यरूपाप्तिमुक्त्या। यस्माद् ज्ञात्वा व्यतिकरमिदं तत्त्वतः स्वं परं च स्वस्मिन्नास्ते विरमति परात्सर्वतो रागयोगात्॥१३॥ सम्यग्दृष्टिः विशेषेण स्वपरावेवं तावजानाति
पुगग्लकम्म कोहो तस्स विवागोदयो हवाद एसो। ण दु एस मज्झभावो जाणगभावो दु अहमिको ॥२१०॥
पुद्गलकर्म क्रोधस्वस्य विपाकोदयो भवति एषः।।
नत्वेष मम भावः, ज्ञायकभावः खरवहमेकः ॥२१०॥ तात्पर्यवृत्तिः-पुग्गलकम्म कोहो तस्स विवागोदयो हवदि एसो पुद्गलकर्मरूपो योऽसौ द्रव्यक्रोधो जीवे पूर्ववद्धस्तिष्ठति तस्य विशिष्टपाको विपाकः फलरूप उदयो भवति । स कः? शांतात्मतत्त्वा प्रथग्भूत एषः, अक्षमारूपो भावः क्रोध: णदु एस मज्झभावो जाणगभावो दु अहमिको न वैष मम भावः, कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंदज्ञायकैकभावोऽहं यतः । किं च-पुद्गल कर्मरूपो द्रव्यक्रोधस्तदुदयजनितो यश्चाक्षमारूपः स भावक्रोधः । इति व्याख्यानं पूर्वमेव कृतं तिष्ठति कथं ? इति चेत् पुग्गलपिंडो दन्वं तस्सत्तीभावकम्मं तु इत्यादि । एवमेव च क्रोधपदपरिवर्तनेन मानमायालोभरागद्वेषमोहकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसंज्ञाषोडशसूत्राणि व्याख्येयानि । तेनैव प्रकारेणान्यान्यपि, असंख्येयलोकमात्रप्रमितानि विभावपरिणामस्थानानि वर्जनीयानीति । अथ कथं तव स्वरूपं न भवतीति पृष्टे सति भेदभावनारूपेणोत्तरं ददाति
आस्मख्याति:-अस्ति किल रागो नाम पुद्गलकर्म तदुदयविपाकप्रभवोयं रागरूपोभावः, न पुनमम स्वभावः । एष टंकोत्कीर्णज्ञायकस्वभावोहं । एवमेव च रागपदपरिवर्तनेन द्वेषमोहक्रोधमानमायालोभकर्मनोकर्ममनोवचनकायश्रोत्रचक्षुर्घाणरसनस्पर्शनसूत्राणि षोडश व्याख्येयानि, अनया दिशा अन्यान्यप्यूह्यानि । एवं च सम्यग्दृष्टिः स्वं जानन् रागं मुंश्च नियमाज्ञानवैराग्याभ्यां संपन्नो भवति ।
कह एस तुज्झ ण हवदि विविहो कम्मोदयफलविवागो। . परदव्वाणुवओगो णदु देहो हवदि अण्णाणी ॥२१॥
कथमेष तब न भवति विविधः कर्मोदयफलविपाकः ॥
परद्रव्याणामुपयोगो न तु देहो भवति अज्ञानी ॥२१॥ १ भात्मख्यातो, रागो इत्येव पाठः। २ आत्मख्याती मामेयं वर्तत एव न ।