________________
१.८
सनातमजैनग्रंथमालाया. तात्पर्यवृतिः-जह विमभुरभुज्बंता विजापुरिसा जमवणमुवयंति यथा विषमुपमुंजानाः संतो गारुडविद्यापुरुषाः, अमोघमंत्रसामर्थ्यात्, नैव मरणमुपयांति । पुग्गलकम्मम्सुदयं तह मुजदि व वज्झदे णाणी तथा परमतत्त्वज्ञानी शुभाशुभकर्मफलं भुक्ते तथापि निर्विकल्पसमाधि लक्षणभेदज्ञानामोघमंत्रवलानैव बध्यते कर्मणेति ज्ञानशक्तिव्याख्यानं गतं । अथ संसारशरीरभोगविषये वैराग्यं दर्शयति___ आत्मख्यातिः - यथा कश्चिद्विषवैद्यः परेषां मरणकारणं विषमुष/जानोऽपि, अमोघविद्यासामर्थ्येन निरुद्धतच्छक्तित्वान्न म्रियते, तथा अज्ञानिनां रागादिभावसद्भावेन बंधकारणं पुद्गलकर्मोदयमुपंभुजा नोऽपि अमोघज्ञानसामर्थ्यात् रागादिभावानामभावे सति निरुद्धतच्छक्तित्वात् न बध्यते ज्ञानी । अथ वैराग्यसामर्थ्य दर्शयति ।
जह मजं पिवमाणो अरदिभावेण मजदि ण पुरिसो। दव्वुवभोगे अरदो णाणीवि ण वज्झदि तहेव ॥२०॥ । यथा मद्यं पिवन अरतिभावेन माद्यति न पुरुषः ।
द्रव्योपभोगे अरतो ज्ञान्यपि न बध्यते तथैव ॥१०८॥ तात्पर्यवृत्तिः - जह मज्जं पिवमाणो अरदिभावेण मज्जदि ण पुरिसो यथा कश्चित् पुरुषो व्याधिप्रतीकारनिमित्तं मद्यमध्ये मद्यप्रतिपक्षभूतमौषधं निक्षिप्य मद्यं पिवन्नपि रतेरभावान्न माद्यति । दव्वुव भोगे अरदो णाणीवि ण वज्झदि तहेव तथा परमात्मतत्त्वज्ञानी पंचेंद्रियविषयभूताशनपानादिद्रव्योपभोगे सत्यपि यावता यावतांशेन निर्विकारस्वसंवित्तिशून्यबहिरात्मजीवापेक्षया रागभावं न करोति, तावता तावतांशेन कर्मणा न बध्यते । यदा तु हर्षविषादादिरूपसमस्तविकल्पजालरहितपरमयोगलक्षणभेदज्ञानवलेन सर्वथा वीतरागो भवति । तदा सर्वथा न बध्यते इति वैराग्यशक्तिव्याख्यानं गतं । एवं यथा क्रमेण द्रव्यनिर्जराभावनिर्जराज्ञानशक्तिवैराग्यशक्तिप्रतिपादनरूपेण निर्जराधिकारे तात्पर्यव्याख्यानमुख्यत्वेन गाथाचतुष्टयं गतं । अथैतदेव वैराग्यस्वरूपं विवृणोति
आत्मख्याति:-यथा कश्चित्पुरुषो मैरेयं प्रति प्रवृत्ततीव्रारतिभावः सन् मैरेयं पिक्नपि तीव्रारतिसामर्थ्यान्न माद्यति तथा रागादिभावानामभावेन सर्वद्रव्योपभोगं प्रति प्रवृत्ततीव्रविरागभावः सन् विषयानुफ्भुंजानोऽपि तीव्रविरागभावसामर्थ्यान्न बध्यते ज्ञानी ।
नाश्नुते विषयसेवनेऽपि यः स्खं फलं विषयसेवनस्य ना।
ज्ञानवैभवविरागतावलात् सेवकोऽपि तदसावसेवकः ॥ १३३ ॥ अथैतदेव दर्शयति
सेवंतोविण सेवदि असेवमाणोवि सेवगो कोवि। पगरणचेट्टा कस्सवि णयपायरणोत्ति सो होदि ॥२०९॥
संवमानोऽपि न सेवते, असेवमानोऽपि सेवकः कश्चित् ।
प्रकरणचेष्टा कस्यापि न च प्राकरण इति सा भवति ॥२०९॥ .. तात्पर्यवृत्तिः-सेवंतोवि सेवदि असेवपाणावि सेवगो कोवि निर्विकारस्वंसंवेदन ज्ञानी जीवः स्वकीयगुणस्थानयोग्याशनपानादिपंचेंद्रियभोगं सेवन्नपि सेवको न भवति । अन्यः पुनः, अज्ञानी कश्चित् रागादिसद्भावादसेवन्नपि सेवको भवति । अमुमेवार्थ दृष्टांतेन दृढयति । पगरणचेडा