________________
समयप्राभृतं ।
१०७ नामभावेन समस्तमपि निर्जरानिमित्तं भवतीति । अत्राह शिष्यः- रागद्वेषमोहाभावे सति निर्जराकरणं भणितं सम्यग्दृष्टेस्तु रागादयः संति, ततः कथं निर्जराकारणं भवतीति ? अस्मिन्पूर्वपक्षे परिहारः । अत्रग्रंथे वस्तुवृत्त्या वीतरागसम्यग्दृष्टेम्रहण, तत्र तु परिहारः पूर्वमेव भणितः । कथमिति चेत् ? मिथ्यादृष्टे सकाशादसंयतसम्यग्दृष्टेः, अनंतानुबंधिक्रोधमानमायालोभमिथ्यात्वोदयजनिताः, श्रावकस्य वा प्रत्याख्यानक्रोधमानमायालोभोदयजनिता रागादयो न संतीत्यादि । किं च सम्यग्दृष्टेः संवरपूर्विका निर्जरा भवति मिथ्यादृष्टेस्तु गजस्नानवत्, बंधपूर्विका भवति तेन कारणेन मिथ्यादृष्टयपेक्षया सम्यग्दृष्टिरबंधकः। एवं द्रव्यनिर्जराव्याख्यानरूपेण गाथा गता। - अथ भावनिर्जरास्वरूपमाख्याति
आत्मख्याति:-विरागस्योपभोगो निर्जरायैव रागादिभावानां सद्भावेन मिथ्यादृष्टेरचेतनान्य द्रव्योपभोगो बंधनिमित्तं स्यात् । एतेन द्रव्यनिर्जरास्वरूपमावेदितं । अथ भावनिर्जरास्वरूपमावेदयति
दव्वे उवभुजंते णियमा जायदि सुहं च दुक्खं च । तं सुहदुःखमुदिण्णं वेददि अह णिजरं जादि ॥२०६॥
द्रव्ये, उपभुज्यमाने नियमाज्जायते सुखं च दुःखं च । ... तत्सुखदुःखमुदीर्ण वेदयते अथ निर्जरां याति ॥२०६॥
तात्पर्यवृत्तिः-दव्वे उवभुज्जते णियमा जायदि सुहं च दुक्खं च उदयागतद्रव्यकर्मणि जीवेनोपभुज्यमाने सति नियमात् निश्चयात् सातासातोदयवशेन सुखदुःखं वा वस्तु स्वभावत एव जायते तावत् । तं सुहदुक्खमुदिष्णं वेददि निरुपरागस्वसंवित्तिभावेन, उत्पन्नपारमार्थिकसुखाद्भिन्नं तत्सुखं वा दुःखं वा समुदीर्ण सत् सम्यग्दृष्टिर्जीवो रागद्वेषौ न कुर्वन् हेयबुद्ध्या वेदयति । न च तन्मयोभूत्वा, भहं सुखी, दुःखीत्याद्यहमिति प्रत्ययेनानुभवति । अथ णिज्जरं जादि अथ अहो ततः कारणान्निर्जरां याति स्वस्थभावेन निर्जराया निमित्तं भवति । मिध्यादृष्टेः पुनः, उपादेयबुद्ध्या सुख्यहं दुःख्यहमिति प्रत्ययेन बंधकारणं भवति । किं च यथा कोऽपि तस्करो यद्यपि मरणं नेच्छति । तथापि तलवरण गृहीतः सन् मरणमनुभवति । तथा सम्यग्दृष्टिः, यद्यप्यात्मोत्थसुखमुपादेयं च जानाति । विषयसुखं च हेये जानाति तथापि चरित्रमोहोदयतलवरेण गृहीतः सन् तदनुभवति, तेन कारणेन निर्जरानिमित्तं स्यात् , इति भावनिर्जराव्याख्यानं गतं ।
अथ वीतरागस्वसंवेदनज्ञानसामर्थ्य दर्शयति. आत्मख्यातिः- उपभुज्यमाने सति हि परद्रव्ये तन्निमित्तः सातासातविकल्पानतिक्रमणेन वेदनायाः सुखरूपो दुःखरूपो वा नियमादेव जीवस्य भाव उदेति । स तु यदा वेद्यते तदा मिथ्यादृष्टेः, रागादिभावानां सद्भावेन बंधनिमित्तं भूत्वा निर्जीर्यमाणोष्यजीर्णः सन् बंध एव स्यात् । सम्यग्दृष्टेस्तु रागादिभावाभावेन बंधनिमित्तमभूत्वा केवलमेव निर्जीर्यमाणोप्यजीर्णः सन्निजरैव स्यात् ।।
तद्ज्ञानस्यैव सामर्थ्य विरागस्य च वा किल ॥१३२॥
यत्कोऽपि कर्मभिः कर्म भुंजानोऽपि न बध्यते । अथ ज्ञानसामर्थ्य दर्शयति--
जह विसमुवभुजंता विजा पुरिसा ण मरणमुवयंति । पोग्गलकम्मस्सुदयं तह भुंजदि णेव वज्झदे णाणी ॥२०७॥
यथा विषमुपभुंजानाः सतो विद्यापुरुषा न मरणमुपयांति । पुद्गलकर्मण उदयं तथा भुंक्त नैव बध्येत ज्ञानी ।। २०७॥ . . . . . .