________________
सनातनजैनग्रंथमालायां- आस्मख्याति:- यदा तु शुद्धनयात् परिहीणो भवति बानी तदा तस्य रागादिसद्भावात् पूर्वबद्धाः द्रव्यप्रत्ययाः स्वस्य हेतुत्वहेतुसद्भावे हेतुमद्भावस्यानिवार्यत्वात् ज्ञानवरणादिभावैः पुद्गलकर्म बंधं परिणम. यंति । न चैतदप्रसिद्धं पुरुषगृहीताहारस्योदराग्निना रसरुधिरमांसादिभावैः परिणामकारणस्य दर्शनात् ।
इदमेवात्र तात्पर्य हेयः शुद्धनयो नहि नास्तिबंधस्तदत्यामात् तत्त्यागाद्वंध एव हि ॥१२८॥ धीरोदारमहिम्न्यनादिनिधने बोधे निबंध्नन् धृतिं त्याज्य: शुद्धनयो न जातु कृतिभिः सर्वकषः कर्मणां । तत्रस्थाः स्वमरीचिचक्रमचिरात्संहृत्य निर्यद्वहिः पूर्ण ज्ञानवनाघमेवमचलं पश्यंति शातं महः ॥१२९॥ रागादीनां झगिति विगमात् सर्वतोप्यास्रवाणां नित्योद्योतं किमपि परमं वस्तु संपश्यतोऽतः । स्फोरस्फारैः स्वरसविसरैः प्लावयत्सर्वभावानालोकांतादचलमतुलं ज्ञानमुन्मग्नमेतत् ॥१३०॥ इति आस्रवो निष्क्रांतः।
इति समयसारव्याख्यायामात्मख्यातौ चतुर्थोऽकः ॥
तात्पर्यवृत्तिः -- तत्रैवं सति रंगभूमेः सकाशात्, शृंगाररहितपात्रवत्-शुद्धजीवस्वरूपेण संवरो निष्क्रांतः । अथ वीतरागनिर्विकल्पसमाधिरूपा शुद्धोपयोगलक्षणा संवरपूर्विका निर्जरा प्रविशति. उवभोनमिंदियेहिं इत्यादिगाथामादिं कृत्वा दंडकान् विहाय पाठक्रमेण पंचाशद्गाथापर्यंत षस्थलैर्निजेराव्याख्यानं करोति । तत्र द्रव्यनिर्जराभावनिर्जराज्ञानशक्तिवैराग्यक्तीनां क्रमेण व्याख्यानं करोति, इति पीठिकारूपेण प्रथमस्थले गाथाचतुष्टयं । तदनंतर ज्ञानवैराग्यशक्तेः सामान्यव्याख्यानार्थं सेवंतोविण सेवादि इत्यादि द्वितीयस्थले गाथापंचकं । ततः परं तयोरेव ज्ञानशक्त्योर्विशेषविवरणार्थ परमाणुमित्तियपि इत्यादि तृतीयस्थले सूत्रदशकं । ततश्च मतिश्रुतावधिमनःपर्ययकेवलज्ञानमभेदरूपं परमार्थसंज्ञं मुक्तिकारणभूतं यत्परमात्मपदं, तत्पदं येन स्वसंवेदनज्ञानगुणेन लभ्यते तस्य सामान्यव्याख्यानार्थ णाणगुणेहि विहीणा इत्यादि चतुर्थस्थले सूत्राष्टकं । ततः परं तस्यैव ज्ञानगुणस्य विशेषविवरणार्थ णाणी रागप्पजहो इत्यादि पंचमस्थले गाथाः, चतुर्दश । तदनंतरं शुद्धनयमाश्रित्य चिदानंदैकस्वभावशुद्धात्मभावनाश्रितानां निश्चयनिश्शंकाद्यष्टगुणानां व्याख्यानार्थं सम्मादिट्टीजीवो इत्यादि षष्ठस्थले सूत्रनवकं कथयति, इति षड्भिरंतराधिकारैः, निर्जराधिकारे समुदायपातनिका । तद्यथा, अथ द्रव्यनिर्जरां कथयति । ' आत्मख्यातिः-अथ प्रविशति निर्जरारागाद्यास्रवरोधतो निजधुरां धृत्वा परः संवरः कर्मागामि समस्तमेव भरतो दूरान्निरुधन स्थितः । प्राग्बद्धं तु तदेव दग्धुमधुना व्याजृम्भते निर्जरा ज्ञानज्योतिरपावृतं न हि यतो रागादिभिमूर्छति ॥१३१।।
उवभोजमिंदियेहिं दवाणमचेदणाणमिदराणं । जं कुणदि सम्मदिछी तं सव्वं णिजरणिमित्तं ॥२०५॥
उपभोगमिंद्रियः द्रव्याणामचेतनानामितरेषां ।
यत्करोति सम्यग्दृष्टिः, तत्सर्व निर्जरानिमित्तं ॥२०५॥ तात्पर्यवृत्तिः-उवभोजामिंदियेहिं दवाणमचेदणाणमिदराणं जे कुणदि सम्मदिहीसम्यग्दृष्टिः कर्ता चेतनाचेतनद्रव्याणां संबंधि यद्वस्तूपभोग्यं करोति । कैः कृत्वा ? पचेन्द्रियविषयैः तं णिज्ज रणिमित्तं तद्वस्तु भिथ्यादृष्टेजीवस्य राषद्वेषमोहानां सद्भावेन बंधकारणमपि सम्यग्दृष्टेर्जीवस्य रागद्वेषमोहा
१ रागादिसद्भावे । २ आत्मशुद्धत्वानुभवः । ३ ज्ञानावशेष व्यक्तिसमूहः । ४ बहिरनात्मपदार्थे निर्यद् भ्राम्यत् । ५ अनंतानतैः ६ । स्वरसस्य चिद्रूपतायाः विसरैः प्रसरैः । ७ सर्वभावानतीतानागतवर्तमानान् पदार्थ न प्लावयमात्मनि प्रतिषिवितान कुर्वन् । ०