________________
११८
समातनजैनग्रंथमालार्या
अपरिग्रहोंऽनिच्छो भणितोऽशनं च नेच्छति ज्ञानी । अपरिग्रहस्त्वशनस्य ज्ञायकस्तेन स भवति ।। २२८ ॥
तात्पर्यवृत्तिः - अपरिग्गहो अणिच्छो भणिदो असणं व णिच्छदे णाणी अपरिग्रहो भणितः स कः ? अनिच्छः । तस्य परिप्रहो नास्ति यस्य बहिर्द्रव्येषु इच्छा मूर्छा ममत्वं नास्ति । इच्छा त्वज्ञानमयो भावः स च ज्ञानिनो न संभवति । अपरिग्महा दु असणस्स जाणगो तेण सो होषि तत एव कारणात् आत्मसुखे तृप्तो भूत्वा अशनविषये निष्परिग्रहः सन् दर्पण बिम्बस्येव अशनाद्याहारस्य वस्तुनो वस्तुरूपेण ज्ञायक एव भवति । न च रागरूपेण ग्राहक इति ।
आत्मख्यातिः: - इच्छा परिग्रहः तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः, अज्ञानमयो भावस्तु ज्ञानिनो नास्ति । ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात्, अशनं नेच्छति तेन ज्ञानिनोऽशनपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावादशनस्य केवलं ज्ञायक एवायं स्यात् ।
अपरिग्गहो अणिच्छो भणिदो पाणं च णिच्छदे णाणी । अपरिग्गहो दु पाणस्स जाणगो तेण सो होदि ॥ २२९ ॥
अपरिग्रहो अनिच्छा भणितः पानं च नेच्छति ज्ञानी ।
अपरिग्रहस्तु पानस्य सायकस्तेन स भवति ।। २२९ ।
तात्पर्यवृत्तिः – अपरिग्गहो अणिच्छो भणिदो पाणं तु णिच्छदे णाणी अपरिप्रहो भणितः कोसौ ? अनिच्छः । तस्य परिग्रहो नास्ति यस्य बहिर्दव्येश्वाकांक्षा तृष्णा मोह इच्छा नास्ति । इच्छात्वज्ञानमयो भावः स च ज्ञानिनो न संभवति अपरिग्महो दु पाणस्स जाणगो सेण सो होदि ततः कारणात् स्वाभाविकपरमानंदसुखे तृप्तो भूत्वा विविधपानकविषये निष्परिग्रहः सन् दर्पणे बिम्बस्येक वस्तुस्वरूपेण ज्ञायक एव भवति, नच रागरूपेण ग्राहक इति ।
तथा चोक्तं
वाउ सादु अट्ठण सरीरस्य वयट्ठते जङ्कं णाणठ्ठे संजमठ्ठे झाणां चेव भुंजंति ॥१॥ अरकाभरकणिमित्तं इसिणो भुंजंति पाणधारणणिमित्तं पाणा धम्मणिमित्तं धम्मं हि चरंति मोक्खटुं । २ ॥ अथ परिग्रहत्यागव्याख्यानमुपसंहरति
1
आत्मख्यातिः: -- इच्छा परिग्रहः, तस्य परिग्रहो नास्ति यस्येच्छा नास्ति, इच्छात्वज्ञानमयो भावः अज्ञानमयो भावस्तु ज्ञानिनो नास्ति । ज्ञानिनो ज्ञानमय एव भावोऽस्ति । ततो ज्ञानी, अज्ञानमयस्य भावस्य इच्छाया अभावात् पानं नेच्छति । तेन ज्ञानिनः पानपरिग्रहो नास्ति ज्ञानमयस्यैकस्य ज्ञायकभावस्य भावात् केवलं पानकस्य ज्ञायक एवायं स्यात् ।
व्वादु एदु विवि सव्वे भावेय णिच्छदे णाणी । जागभावो यिदो पीरालंवोय सव्वत्थ ॥ २३० ॥
इत्यादिकांस्तु विविधान् सर्वान् भावान्नेच्छति ज्ञानी । ज्ञायकभावो नियतः निरालंबच सर्वत्र ।। २३० ॥
तात्पर्यवृत्तिः – इब्वादु एदु विविहे सव्वे भावेय णिच्छदे णाणी इत्यादिकान् पुण्या
-
१ 'आत्मख्यातौ - मणिदो णाणी दु णिच्छदे पाणं' इति पाठः । २ एवमादु इत्यात्मख्याती ।