________________
- समयप्राभूतं । पान् पानादिबहिर्भावात् सर्वतः परमात्मतत्त्वज्ञानी नेच्छति । अनिच्छन् स कथंभूतो भयन् भावो णीयदो णिरालंबोय सव्वत्थ टंकोत्कीर्णपरमानंदज्ञायकैकस्वभाव एव भवति नियतो निश्चितः । पुनश्च कथंभूतो भवति जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमितैश्च बाह्याभ्यंतरपरि प्रहरूपे चतनाचेतनपरद्रव्ये सर्वत्र निरालंबोऽपि, अनंतज्ञानादिगुणस्वरूपे स्वस्वभावे पूर्णकलश इव सालंबन एव तिष्ठतीति भावार्थः ।।
__ अथ ज्ञानी वर्तमानभाविभोगेषु वांछां न करोतीति कथयति___ आत्मख्याति:-एवमादयोऽन्येऽपि बहुप्रकाराः परद्रव्यस्य ये भावास्तान् सर्वानेव नेच्छति ज्ञानी तेन ज्ञानिनः सर्वेषामपि परद्रव्यभावानां परिग्रहो नास्ति इति सिद्धं ज्ञानिनोऽत्यंतनिष्परिग्रहत्वं । अथैव मयमशेषभावांतरपरिग्रहशून्यत्वात् उद्वांतसमस्ताज्ञानः सर्वत्राप्यत्यंतनिरालंबो भूत्वा प्रतिनियतटकोत्कीगैंकज्ञायकभावः सन् साक्षाद्विज्ञानधनमात्मानमनुभवति ।
पूर्वबद्धनिजकर्मविपाकाद् ज्ञानिनो यदि भवत्युपभोगः ।
तद्भवत्वथ च रागवियोगान्नूनमेति न परिग्रहभावं ॥ १४७ ॥ उप्पण्णोदयभोगे विओगवुद्धीय तस्स सो णिचं । कंखामणागदस्स य उदयस्स ण कुव्वदे णाणी ॥ २३१ ॥
उत्पन्नोदयभोगे बियोगबुद्ध्या तस्य स नित्यं ।
कांक्षामनागतस्य चोदयस्य न करोति ज्ञानी ।। २३१ ॥ ___ तात्पर्यवृत्तिः-उप्पण्णोदयभोगे वियोगबुद्धीय तस्स सो णिचं उत्पन्नोदयभोगे वियोगबद्विश्च हेयबुद्धिर्भवति तस्य तस्मिन् भोगविषये षष्ठीसप्तम्योरभेद इति वचनात् ' कोसौ निरीहवृत्तिर्भवति स्वसंवेदनज्ञानी नित्यं सर्वकालं कंखामणागदस्सय उदयस्स ण कुव्वदेणाणी स एव ज्ञानी, अनागतस्य निदानबंधरूपभाविभागोदयस्याकांक्षां न करोति । किं च विशेषः य एव भोगोपभोगादिचेतनाचेतनसमस्तपरद्रव्यनिरालंबनो भावपरिणामः स एव स्वसंवेदनज्ञानगुणो भण्यते । तेन ज्ञानगुणालंबनेन य एव पुरुषः ख्याति-पूजा-लाभ-भोगाकांक्षारूपनिदानबंधादिविभावरहितः सन् जगत्त्रये कालत्रयेऽपि मनोवचनकायैः कृतकारितानुमितैश्च विषयसुखानंदवासनावासितं चित्तं मुक्त्वा शुद्धात्मभावनोत्थवीतरागपरमानंदसुखेन वासितं रंजितं मूर्छितं परिणतं तन्मयं तृप्तं रतं संतुष्टं चित्तं कृत्वा वर्तते स एव मतिश्रुतावधिमनः पर्ययकेवलज्ञानाभेदरूपं परमार्थशब्दाभिधेयं साक्षान्मोक्षकारणभूतं शुद्धात्मसंवित्तिलक्षणं परमागमभाषया वीतरागधर्मध्यानशुक्लध्यानस्वरूपं स्वसंवेद्यशुद्धात्मपदं परमसमरसीभाबेन अनुभवति न चान्यः । यादृशं परमात्मपदमनुभवति तादृशं परमात्मपदस्वरूपं मोक्षं लभते । कस्मात् ! इतिचेत् उपादानकारणसदृशं कार्य भवति यतः कारणात् इति । एवं स्वसंवेदनज्ञानगुणं विना मत्यादिपंचज्ञानविकल्परहितमखंडपरमात्मपदं न लभ्यते इति संक्षेपव्याख्यानमुख्यत्वेन सूत्राष्टकं गतं ।
भथानंतरं तस्यैव ज्ञानगुणस्य चतुर्दशगाथापर्यंतं पुनरपि विशेषव्याख्यानं करोति । तद्यथा-ज्ञानी सर्वद्रव्येषु वीतरागत्वात्कर्मणा न लिप्यते सरागत्वादज्ञानी लिप्यते, इति प्रतिपादयति
आत्मख्यातिः-कर्मोदयोपभोगस्तावत् अतीतः प्रत्युत्पन्नो नागतो वा स्यात् ! तत्रातीतस्तावत् अतीतत्वादेव सन् परिग्रहभावं विभर्ति । अनागतस्तु आकांक्ष्यमाण एव परिग्रहभावं विभृयात् । प्रत्युत्पन्नस्तु स किल रागबुद्ध्या प्रवर्तमान एव तथा स्यात् । नच प्रत्युत्पन्नः कर्मोदयोपभोगो ज्ञानिनो रागबुद्ध्या प्रवर्तमानो दृष्टः, ज्ञानिनोऽज्ञानमयभावस्य रागबुद्धेरभावात् । वियोगबुद्ध्यैव केवलं प्रवर्तमानस्तु स किल न परिग्रहः स्यात् । ततः प्रत्युत्पन्नः कर्मोदयोपभोगो शानिनः परिग्रहो न भवेत् । अनागतस्तु स किल झानिनो