________________
१२०
सनातन जैनग्रंथमालायां
न कांक्षित एव, ज्ञानिनोऽज्ञानमयभावस्याकांक्षाया अभावात् । ततो नागतोऽपि कर्मोदयोपभोगो ज्ञानिनः परिमहो न भवेत् ।
णाणी रागप्प हो सव्वदव्वेसु कम्ममज्झगदो ।
णो लिप्पदि कम्मरएण दु कद्दममज्झे जहा कणयं ॥ २३२॥ अण्णाणी पुण रत्तो सव्वदव्वेसु कम्ममज्झगदो | लिप्पदि कम्मरएण दु कद्दममज्झे जहा लोहं ॥ २३३ ॥
ज्ञानी रागप्रायः सर्वद्रव्येषु कर्ममध्यगतः ।
नो लिप्यते कर्मरजसा तु कर्दममध्ये यथा कनकं ॥ २३२ ॥ अज्ञानी पुनारक्तः सर्वद्रव्येषु कर्ममध्यगतः । लिप्यते कर्मरजसा कर्दममध्ये यथा लाई || २३३ ||
तात्पर्यवृत्तिः– हर्षविषादादिविकल्पोपाधिरहितः स्वसंवेदनज्ञानी सर्वद्रव्येषु रागादिपरित्यागशील: यतः कारणात्, ततः कर्दममध्यगतं कनकमिव कर्मरजसा न लिप्यते । अज्ञानी पुनः स्वसंवेदनज्ञानाभावात् सर्वपचेंद्रियादिपरद्रव्ये रक्तः कांक्षितो मूर्छितो मोहितो भवति यतः कारणांत्, ततः कर्दममध्यलोहमिव कर्मरजसा बध्यते इति ।
अथ सकलकर्मनिर्जरा नास्ति कथं मोक्षो भविष्यतीति प्रश्ने परिहारमाह
आत्मख्यातिः–यथा खलु कनकं कर्दममध्यगतमपि कर्दमेन न लिप्यते तदलेपस्वभावत्वात् तथा किल ज्ञानी कर्ममध्यगतोऽपि कर्मणा न लिप्यते सर्वपरद्रव्यकृतरागत्यागशीलत्वे सति तदलेपस्वभावत्वात् । यथा लोहं कर्दममध्यगतं सत्कर्दमेन लिप्यते तल्लेपस्वभावत्वात् तथा किलाज्ञानी कर्ममध्यगतः सन् कर्मणा लिप्येत सर्वपरद्रव्यकृतरागोपादानशीलत्वे सति तल्लेपस्वभावत्वात् ।
यादृक् तादृगिहास्ति तस्य वशतो यस्य स्वभावो हि यः कर्तुं नैष कथंचनापि हि परैरन्यादृशः शक्यते । अज्ञानं न कथंचनापि हि भवेत् ज्ञानं भवत्संततं ज्ञानिन् भुंक्ष्व परापराधजनितो नास्तीह बंधस्तव ॥ १४८ ॥ नागफणीए मूलं णाइणितोएण गव्भणागेण ।
जागं होइ सुवण्णं धम्मं तं भच्छवाएण || २३४ ॥ नागफण्या मूळ नागिनीतोयेन गर्भनागेन ।
नागं भवति सुवर्ण धम्यमानं भस्त्रावायुना ॥ २३४ ॥
तात्पर्यवृत्ति - नागफणी नामौषधी तस्या मूलं नागिनी हस्तिनी तस्यास्तोयं मूत्रं गर्भनागं सिंदूरद्रव्यं नागं सीसकं । अनेन प्रकारेण पुण्योदये सति सुवर्ण भवति न च पुण्याभावे । कथंभूतः सन् भस्त्रया धम्यमानमिति दृष्टांतगाथागता ।
अथ दाष्टतमाह
कम्मं हड़ कि रागादी कालिया अह विभाओ । सम्मत्तणाणचरणं परमोसहमिदि वियाणाहि ॥ २३५ ॥ कर्म भवति किट्टं रागादयः कालिका अथ विभावाः । सम्यक्त्वज्ञानदर्शनचारित्रं परमौषधमिति विजानीहि ।। २३५ ।।