________________
समयप्राभृतं ।
१२१ - तात्पर्यवृत्तिः-द्रव्यकर्म किट्टसंज्ञं भवति रागादिविभावपरिणामाः कालिकासंज्ञा ज्ञातन्याः सम्पग्दर्शनज्ञानचारित्रत्रयं भेदाभेदरूपं परमौषधं जानीहि इति ।
झाणं हवेइ अग्गी तवयरणं भत्तली समक्खादो । जीवो हवेइ लोहं धमियव्वो परमजोईहिं ॥२३६॥
ध्यानं भवत्यग्निः तपश्चरणे भस्वा समाख्याते ।
जीवो भवति लोहं धमितव्यः परमयोगिभिः ॥ २३६ ॥ तात्पर्यवृत्तिः-वीतरागनिर्विकल्पसमाधिरूपं ध्यानमग्निर्भवति । द्वादशविधतपश्चरणं भस्त्रा ज्ञातव्या । आसन्नभव्यजीवो लोहं भवति । स च भव्यजीवः पूर्वोक्तसम्यक्त्वाद्यौषधध्यानाग्निभ्यां संयोगं कृत्वा द्वादशविधतपश्चरणभस्त्रया परमयोगिभिः धमितव्यो ध्यातव्यः । इत्यनेन प्रकारेण यथा सुवर्ण भवति तथा मोक्षो भवतीति संदेहो न कर्तव्यो भट्टचार्वाकमतानुसारिभिरिति । . अथ ज्ञानिनः शंखदृष्ठांतेन बंधाभावं दर्शयति
भुंजतस्सवि दव्वे सचित्ताचित्तमिस्सिये विविहे। संखस्स सेदभावो णवि सकदि किण्हगो काढुं ॥ २३७ ॥ तह णाणिस्स दु विविहे सचित्ताचित्तमिस्सिए दव्वे । भुंजत्तस्सवि णाणं णवि सकदि रागदो णेदुं ॥ २३८ ॥ जइया स एव संखो सेदसहावं तयं पजहिदूण । गच्छेज किण्हभावं तइया सुकत्तणं पजहे ॥ २३९ ॥ जह संखो पोग्गलदो जइया सुकत्तणं पजहिदूण । गच्छेज किण्हभावं तइया सुकत्तणं पजहे ॥ २४०॥ तह णाणी विय जइया णाणसहावत्तयं पजहिदूण । अण्णाणेण परिणदो तइया अण्णाणदं गच्छे ॥२४॥ मुंजानस्यापि विविधानि सचित्ताचित्तमिश्रितानि द्रव्याणि । शंखस्य श्वेतभावो नापि शक्यते कृष्णकः कर्तु ॥ २३७॥ तथा ज्ञानिनोऽपि सचित्ताचित्तमिश्रितानि द्रव्याणि । भुंजानस्यापि ज्ञानं नापि शक्यते रागतां नेतुं ॥२३८॥ यदा स एव शंखः श्वेतस्वभावं तकं प्रहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ॥ २३९ ॥ यथा शंखः पौगलिकः यदा शुक्लत्वं पहाय । गच्छेत् कृष्णभावं तदा शुक्लत्वं प्रजह्यात् ।। २४० ।। तथा ज्ञान्यपि यदि ज्ञानस्वभावं तकं प्रहाय ।
अज्ञानेन परिणतस्तदा अज्ञानतां गच्छेत् ॥ २४१ ॥ १ एतद्गाषांतगाथाचतुष्टयं नात्मख्यातौ। २ख. पुस्तके ध्यानाग्न्यभ्यासादित्यपि पाठः । ३ गाथेयं नात्मल्याने