________________
१२२
सनातनजनग्रंथमालायांतात्पर्यवृत्तिः- यथा स्वजीवस्य संखस्य श्वेतभावः कृष्णीकर्तुं न शक्यते । किं कुर्वाणस्थापि । भुंजानस्यापि । कानि ? कर्मतापनसचित्ताचित्तमिश्राणि विविधद्रव्याणीति व्यतिरेकदृष्टांतगाथा गता।
तथा तेनैव प्रकारेण ज्ञानिनो जीयस्य वीलरागस्वसंवेदनलक्षणभेदज्ञानं, रामत्वमज्ञानत्वं नेतुं न शक्यते 'कस्मात् ? स्वभावस्यान्यथाकर्तुमशक्यत्वात् । किं कुर्वाणस्यापि ? भुजानस्यापि । कानि स्वकीयगुणस्थानावस्थायोग्यानि सचित्ताचित्तमिश्राणि बिबिधद्रव्याणि । ततः कारणात् चिरंतनबद्धकर्मनिर्जरैव भवति । नवतरस्य संवर इति व्यतिरेकदृष्टांतगाथा गता । अन्वयव्यतिरेकशब्देन सर्वत्र विधिनिषेधौ ज्ञातव्यौ इति ।
यथा यदा स एव पूर्वोक्तः सजीवशंखः कृष्णपरद्रव्यलेपवशात्, अंतरंगस्वकीयोपादानपरिणामाधीनः सन् श्वेतस्वभावत्वं विहाय कृष्णभावं गच्छेत् तदा शुक्लत्वं त्यजति । इत्यन्वयदृष्टांतगाथा गता।
तथैव च यथा निर्जीवशंखः कृष्णपरद्रव्यलेपवशात् अंतरंगोषादानपरिणामाधीनः सन् श्वेतखभावत्वं विहाय कृष्णभावं गच्छेत् तदा शुक्लत्वं त्यजति । इति निर्जीवशंखनिमित्तं द्वितीयान्वयदृष्टांतगाथा गता।
तथा तेनैव प्रकारेण ज्ञानी जीवोऽपि हि स्फुटं स्वकीयप्रज्ञापराधेन वीतरागज्ञानस्वभावत्वं विहाय मिथ्यात्वरगाद्यज्ञानभावेन परिणतो भवति तदा स्वस्थभावच्युतः सन्नज्ञानत्वं गच्छेत् । तस्य संवरपूर्विका निर्जरा नास्तीति भावार्थ:-इत्यन्क्यदार्टीतगाथा गता।
अथ सरागपरिणामेन बंधः, तथैव वीतरागपरिणामेन मोक्षो भवतीति दृष्टांतदाष्टीताभ्यां समर्थयति
आत्मख्यातिः-यथा खलु शंखस्य परद्रव्यमुपभुजानस्यापि न परेण श्वेतभावः कृष्णीकर्तुं शक्येत 'परस्य परभावतत्त्वनिमित्तत्वानुपपत्तेः ।
तथा किल ज्ञानिनः परद्रव्यमुपभुजानस्यापि न परेण ज्ञानमज्ञानं कर्तुं शक्येत परस्य परभावतत्त्वनिमितत्वानुपपत्तेः । ततो ज्ञानिनः परापराधनिमित्तो नास्ति बंधः ।
यथा च यदा स एव शंखः परद्रव्यमुपभुजानोऽनुपभुजानो वा श्वेतभावं प्रहाय स्वयमेव कृष्णभावेन परिणमते तदास्य श्वेतभावः स्वयंकृतः कृष्णभावः स्यात् ।
तथा यदा स एव ज्ञानी परद्रव्यमुपभुंजानोऽनुपर्भुजानो वा ज्ञानं प्रहाय स्वयमेवाज्ञानेन परिणमेत सदास्य ज्ञान स्वयंकृतमज्ञानं स्यात् । ततो ज्ञानिनो यदि ( ? ) वापराधनिमित्तो बंधः । ज्ञानिन् कर्म न जातु कर्तुमुचितं किंचित्तथाप्युच्यते मुंश्वे हंत न जातु मे यदि परं दुर्भुक्त एवासि भोः । बंधः स्यादुपभोगतो यदि न तत्किं कामचारोऽस्ति ते ज्ञानं सन्वस बंधमेष्यपरथा स्वस्यापराधाद्भवं ॥१४६॥ कर्तारं स्वफलेन यत्किल वलात्कमैव नो योजयेत् कुर्वाणः फललिप्सुरेव हि फलं प्राप्नोति यत्कर्मणः । ज्ञानं संस्तदपास्तरागरचनो नो बध्यते कर्मणा कुर्वाणोऽपि हि कर्म तत्फलपरित्यागैकशीलो मुनिः ॥१४७॥
पुरिसो जह कोवि इह वित्तिणिमित्तं तु सेवदे रायं । तो सोवि देदि राया विविहे भोगे सुहप्पादे ॥ २४२ ॥ एमेव जीवपुरिसो कम्मरयं सेवदे सुहणिमित्तं । तो सोवि कम्मरायो देदि सुहप्पादगे भोगे ॥ २४३ ॥ जह पुण सो चेव णरो वित्तिणिमित्तं ण सेवदे रायं । तो सो ण देदि राया विविहसुहप्पादगे भोगे ॥२४४ ॥ एमेव सम्मदिट्ठी विसयत्तं सेवदे ण कम्मरयं ।
तो सो ण देदि कम्मं विविहे भोगे सुहुप्पादे ॥२४५॥ 7 पंचेंद्रियाविषयाननुभवति । २ दुर्भुक एवासि एवमपि भोगो न कर्तव्य इति भावः ।