________________
समवप्रामृतं । पुरुषो यथा कोपीह वृत्तिनिमित्तं तु सेवते राजानं । तत्सोऽपि ददाति राजा विविधान् भोगान् सुखात्पादकान् ॥ २५२॥ एवमेव जीवपुरुषः कर्मरजः सेवते सुखनिमित्तं । सत्सोपि ददाति कर्मराजा विविधान् भोगान् सुखोत्पादकान् ॥ २४३ ॥ यथा पुनः सएव पुरुषो वृत्तिनिमित्तं न सेवते राजानं । तत्सोऽपि न ददाति राजा विविधान् सुखोत्पादकान् भोगान् ॥ २४४ ॥ एवमेव सम्यग्दृष्टिः विषयार्थ सेवते न कर्मरजः।
सत्तन ददाति कर्म विविधान् भोगान् सुखोत्पादकान् ॥ २४५ ॥ - तात्पर्यवृत्ति:- यथा कश्चित्पुरुषः, वृत्तिनिमित्तं राजानं सेवते ततः सोऽपि राजाः तस्मै सेवकाया ददाति, कान् ? विविक्सुखोत्पादकान् भोगान् इत्यज्ञानिविषयेऽन्वयदृष्टांतगाथा गता । . एवमेवाज्ञानी जीवपुरुषः शुद्धात्मोत्थसुखात्प्रच्युतः सन्नुदयागतं. कर्मरजः सेवते. विषयसुखनिमित्त ततः सोऽपि पूर्वोपार्जितपुण्यकर्मराजा ददाति, कान् ! विषयसुखोत्पादकान् भोगाकांक्षान् शुद्धात्मभाकानाविनाशकान् रागादिपरिणामान् इति ।।
अथवा द्वितीयव्याख्यानं-कोऽपि जीवोऽभिनवपुण्यकर्मनिमित्तं भोगाऽकांक्षानिदानरूपेण शुभकर्मानुष्ठानं करोति सोऽपि पापानुबंधिपुण्यराजा कालांतरे भोगान् ददाति । तेऽपि निदानबंधन प्राप्ता, भोगा रावणादिवन्नरकादिदुःखपरंपरां प्रापयंतीति भावार्थः । एवमज्ञानिजीवं प्रत्यत्वयदृष्टांतगाथा गता ।।
यथा स चैव पूर्वोक्तपुरुषो वृत्तिनिमित्तं न सेवते राजानं । ततः सोऽपि राजा. तस्मै.न.ददाति, कान्ह विविधान् सुखोत्पादकान्, भोगान् इति ज्ञानिजीवविषये व्यतिरेकदृष्टांतगाथा गता।
एवमेव च सम्यग्दृष्टिीवः पूर्वोपार्जितमुदयागतं कर्मरजः शुद्धात्मभावनोत्थवीतसगसुखानंदात्प्रच्युतो भूत्वा विषयसुखार्थ, उपादेयबुद्ध्या न सेवते ततस्तदपि कर्म. न ददाति,, कान् ? विविधसुखोत्पादकान भोगाकांक्षारूपान् शुद्धात्मभावनाविनाशकान् रागादिपरिणामानिति ।. .
अथवा. द्वितीयव्याख्यानं-कोऽपि सम्यग्दृष्टिर्जीवो. निर्विकल्पसमाधेरभावात् , अशान्यानुष्ठानेन विष-- यकषायवंचनार्थ यद्यपि व्रतशीलदानपूजादिशुभकर्मानुष्ठानं. करोति. तथापि. भोगाकांक्षारूमनिदानबंधना तत्पुण्यकर्मानुष्ठानं न सेवते । तदपि पुण्यानुबंधिपुण्यकर्म भवांतरे तीर्थंकर-चक्रवर्ती-वलदेवाद्यभ्युदय-- रूपेणोदयागतमपि पूर्वभवभावितभेदविज्ञानवासनावलेन, शुद्धात्मभावनाविनाशकान् विषयसुखोत्पादकान् भोगाकांक्षानिदानरूपान् रागादिपरिणामान्न ददाति, भरतेश्वरादीनामिव । इति. संज्ञानिज़ीवं प्रतिव्यतिरेकदार्टी लगाथा गता । एवं मतिश्रुतावधिमनःपर्ययकेवलज्ञानाभेदरूपपरमार्थशब्दवाच्यं साक्षान्मोक्षफारणभूतं शुद्धात्मसंवित्तिलक्षणं स्वसंवेद्यं संवरपूर्विकाया निर्जराया उपादानकारणं पूर्व यव्याख्याप्तं परमात्मपदं, तत्पदं पेन निर्विकारस्वसंवेदनलक्षणभेदविज्ञानगुणेन विना न लभ्यते तस्यैव भेदविज्ञानगुणस्य पुनरपि विशेष-- न्याख्यानरूपेण चतुर्दशसूत्राणि गतानि ।
इत उर्ध्वं निश्शंकाद्यष्टगुणकथनं गाथानवकपर्यंतं व्याख्यानं करोति। तत्रः तावत् प्रथमगाथायां निजपरमात्मपदार्थभावनोत्पन्नसुखामृतरसास्वादतृप्ताः संतः सम्यग्दृष्टयः, घोसेपसर्गेऽपि सप्तभयरहितत्वेन निर्विकारस्वानुभवस्वरूपं स्वस्थभावं न त्यजन्तीति कथयति
आत्मरूयातिः-यथा कश्चित्पुरुषोः फलार्थ राजानं सेवते ततःस राजा तस्य फलं ददाति । तथा जीवः फलार्थ कर्म सेवते ततस्तत्कर्म तस्य फलं ददाति । यथा च स एव पुरुषः: फलार्थ राजानं न सेवले ततः स राजा तस्य फलं न ददाति । तथा सम्यादृष्टिः फलार्थ कर्म न सेवते. ततस्तत्कर्म, तस्य फूलंक ददातीति तात्पर्य ।