________________
१२४
सनातनजैनग्रंथमालायांत्यक्तं येन फलं स कर्म कुरुते नेति प्रतीमो वयं किन्त्वस्यापि कुतोऽपि किंचिदपि तत्कर्मावशेनापतेत् । तस्मिन्नापतिते त्वकंपपरमज्ञानस्वभावे स्थितो ज्ञानी किं कुरुतेऽथ किं न कुरुते कर्मेति जानाति कः॥१४॥ सम्यग्दृष्टय एव साहसमिदं कर्तुं क्षमंते परं यद्वजेऽपि पतत्यमी भयचलत्रैलोक्यमुक्ताध्वनि । सर्वामेव निसर्गनिर्भयतया शंकां विहाय स्वयं जानंतः स्वमबध्यबोधवपुषं बोधाच्च्यवंते न हि ॥१४९॥
समादिट्ठी जीवा णिस्संका होति णि भया तेण । सत्तभयविप्पमुक्का जमा तझा दु णिस्संका ॥ २४६ ॥
सम्यग्दृष्टयो जीवा निश्शंका भवंति निर्भयास्तेन ।
सप्तभयविषमुक्ता यस्मात्तस्मात्तु निश्शंकाः ॥ २४६॥ तात्पर्यवृत्तिः-सम्मादिट्ठी जीवा णिस्संका होति सभ्यग्दृष्टयो जीवाः शुद्धबुद्धकस्वभावनिर्दोषपरमात्माराधनं कुर्वाणाः संतो निश्शंका भवंति यस्मात् कारणात्। णिन्भया तेण तेन निर्भया भवंति सत्तभयविप्पमुक्का जमा यस्मादेव कारणात् , इहलोक-परलोक-अत्राण-अगुप्ति-मरण-वेदना-आकस्मिकसंज्ञितसप्तभयविप्रमुक्ता भवंति तह्मा दु णिस्संका तस्मादेव कारणात् घोरपरीषहोपसर्गे प्राप्तेपि निश्शंकाः शुद्धात्मस्वरूपे निष्कपाः संतः शुद्धात्मभावनोत्थवीतरागसुखानंदतृप्ताश्च परमात्मस्वरूपान्न प्रच्यवंते पांडवादिवत्।
- अथानंतरं वीतरागसम्यग्दृष्टर्निशंकाद्यष्टगुणाः नवतरबंध निवारयति ततः कारणाद्वंधो नास्ति किंतु संवरपूर्विका निर्जरैव भवतीति प्रतिपादयति
आत्मख्याति:-येन नित्यमेव सम्यग्दृष्टयः सकलकर्मनिरभिलाषाः संतः, अत्यंतकर्मनिरपेक्षतया वर्तते तेन नूनमेते, अत्यंत निश्शंकदारुणाध्यवसायाः संतोऽत्यंतनिर्भयाः संभाव्यते । लोकः शाश्वत एक एष संकलव्यक्तो विविक्तात्मनः, चिल्लोकं स्वयमेव केवलमयं यल्लोकयत्येककः। लोकोऽयं न तवापरस्तव परस्तस्यास्ति तद्भीः कुतो निश्शंकं सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१४९॥ एषैकैव हि वेदना यदचलं ज्ञानं स्वयं वेद्यते निर्भेदोदितवेद्यवेदकवलादेकं सदानाकुलैः । नैवान्यागतवेदनैव हि भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ यत्सन्नाशमुपैति यन्न नियतं व्यक्तेति वस्तुस्थितिमा॑नं सत्स्वयमेव तत्किल ततस्त्रातं किमस्यापरैः । अस्यात्राणमतो न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निःशंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५॥ स्वं रूपं किल वस्तुनोऽस्ति परमा गुप्तिः स्वरूपे न यच्छक्तः कोऽपि परप्रवेष्टुमकृतं ज्ञानं स्वरूपं च नुः । अस्यागुप्तिरतो न काचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५२॥ प्राणोच्छेदमुदाहरंति मरणं प्राणाः किलास्यात्मनो ज्ञानं तत्स्वयमेव शाश्वततया नो छिद्यते जातुचित् । तस्यातो मरणं न किंचन भवेत्तद्भीः कुतो ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५३॥ एकं ज्ञानमनाद्यनंतमचलं सिद्ध किलैतत्स्वतो यावत्तावदिदं सदैव हि भवेन्नात्र द्वितीयोदयः । तन्नाकस्मिकमत्र किंचन भवेत्तद्भीः कुता ज्ञानिनो निश्शंकः सततं स्वयं स सहजं ज्ञानं सदा विंदति ॥१५४॥ टंकोत्कीर्णस्वरसनिचितज्ञानसर्वस्वभाजः सम्यग्दृष्टेर्यदिह सकलं नंति लक्ष्माणि कर्म । तत्तस्यास्मिन्पुनरपि मनाकर्मणो नास्ति बंधः पूर्वोपात्तं तदनुभवतो निश्चितं निर्जरैव ॥
जो चत्तारिवि पाए छिंददि ते कॅम्ममोहवाधकरे । सो णिस्संको चेदा सम्मादिट्ठी मुणेदवो ॥ २४७॥ __यश्चतुरेपि पादान् छिनत्ति तान् कर्ममोहवाधाकरान् ।।
स निश्शंकश्चेतयिता सम्यग्दृष्टिातव्यः ॥ २४७ ॥ सकलं कालं ब्यक्तः प्रकटः सकलव्यक्त इत्यर्थः । २ एषोऽयं लोकः केवलमयं चिल्लोकं लाकयतीत्यर्थः । ३ खरसः खभानः स्वपरावयोधशत्त्युपेतत्वं तेन चितं व्याप्तमित्यर्थः ॥ ४ आत्मख्यातौ "कम्मवंधमोहकरे" पाठ ।