________________
समयप्रामृतं । तात्पर्यवृत्तिः-जो चत्तारिवि पाए छिददि ते कम्पमोहवाधकरे यः कर्ता मिथ्यात्वाविरति कषाययोगलक्षणान् संसारवृक्षस्य मूलभूतान् निष्कात्मतत्त्वविलक्षणत्वेन कर्मकरान् निर्मोहात्मद्रव्यप्रथक्त्वेन मोहकरान् अव्यावाधसुखादिगुणलक्षणपरमात्मपदार्थभिन्नत्वेन वा बाधाकरांस्तान् आगमप्रसिद्धांश्चतुरः पादान् शुद्धात्मभावनाविषये निश्शंको भूत्वा स्वसंवेदनज्ञानखड्ड्रेन छिनत्ति सोणिस्संको चेदा सम्मादिही मणेदव्वो स चेतयिता आत्मा सम्यग्दृष्टिर्निशंको मंतव्यः, तस्य तु शुद्धात्मभावनाविषये शंकाकृतो नास्ति बंधः, किं तु पूर्ववद्धकर्मणो निश्चितं निर्जरैव भवति ।
आत्मख्याति:- यतो हि सम्यग्दृष्टिः, टंकोस्कीर्णैकज्ञायकभावमयत्वेन कर्मबंधशंकाकरमिथ्यात्वादि भावाभावान्निश्शंकः, ततोऽस्य शंकाकृतो नास्ति बंधः । किं तु निर्जरैव
जो ण करेदि दु कंखं कम्मफले तहय सव्वधम्मसु । सो णिकंखो चेदा सम्मादिट्ठी मुणेदवो ॥ २४८ ॥
यो न करोति तु कांक्षा कर्मफलेषु तथा च सर्वधर्मेषु ।
स निष्कांक्षश्वेतायता सम्यग्दृष्टितिव्यः ॥ २४८॥ तात्पर्यवृत्तिः-जो ण करेदि दु कंखं कम्मफले तहय सम्वधम्मेसु यः कर्ता शुद्धात्मभावनासंजातपरमानंदसुखे तृप्तो भूत्वा काक्षां वाछां न करोति केषु ? पंचेंद्रियविषयसुखभूतेषु कर्मफलेषु तथैव च समस्तवस्तुधर्मेषु स्वभावेषु अथवा विषयसुखकारणभूतेषु नानाप्रकारपुण्यरूपधर्मेषु अथवा इहलोकपरलोककांक्षारूपसमस्तपरसमयप्रणीतकुधर्मेषु । सो णिकंखो चेदा सम्मादिही मुणेदन्यो स चेतयिता आत्मा सम्यग्दृष्टिः संसारसुखे निष्कांक्षितो मंतव्यः । तस्य विषयसुखकांक्षाकृतो नास्तिं बंधः किंतु पूर्वसंचितकर्मणो निर्जरैव भवति ।
आत्मख्यातिः-यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णैकज्ञायकभावमयत्वेन सर्वेष्वपि कर्मफलेषु सर्वेष बस्तुधर्मेषु च कांक्षाभावान्निष्काक्षस्ततोऽस्य कांक्षाकृतो नास्ति बंधः किं तु निर्जरैव ।
जो ण करेदि दु गुंछं चेदा सब्बेसिमेव धम्माणं । सो खलु णिविदिगिंछो सम्मादिट्ठी मुणेदवो ॥ २४९ ॥
यो न करोति जुगुप्सां सर्वेषामेव धर्माणां । __स खलु निर्विचिकित्सः सम्यग्दृष्टिातव्यः॥२४९ ॥ तात्पर्यवृत्तिः-जो ण करेदि दु गुंछं चेदा सम्वेसिमेव धम्माणं यश्चेतयिता आत्मा परमात्मतत्त्वभावनावलेन जुगुप्सां निंदां दोषं विचिकित्सान्न करोति, केषां संबंधित्वेन ? सर्वेषामेव वस्तधर्माणां स्वभावानां, दुर्गधादिविषये वा सो खलु णिन्विदिगिंछो सम्मादिही मुणेदव्यो स सम्यग्दृष्टिः स्फुटं मंतव्यो ज्ञातव्यः तस्य च परद्रव्यद्वेषनिमित्तो नास्ति बंधः । किं तु पूर्वसंचितकर्मणो निर्जरैव भवति ।
__ आत्मख्यातिः-यतोहि सम्यग्दृष्टिः टंकोत्कीर्णैकज्ञायकस्वभावमयत्वेन सर्वेष्वपि वस्तुधर्मेषु जुगुप्साऽभावान्निर्विचिकित्सः ततोऽस्य विचिकित्साकृतो नास्ति बंधः किं तु निर्जरैव ।
जो हवदि असम्मूढ़ो चेदा सब्वेसु कम्मभावेसु ।
सो खलु अमूढदिट्ठी सम्मादिट्ठी मुणेदव्वो ॥ २५०॥ १ 'जो दुण करेदि खं' पाठोयमात्मख्यातौ ।