________________
सनातनजनग्रंथमालायांयो भवति, असंमूढः चेतयिता सर्वेषु कर्मभावेषु ।
स खलु अमूढदृष्टिः सम्यग्दृष्टिातव्यः ॥ २५० ॥ तात्पर्यवृत्तिः-जो हवदि असमूढो चेदा सव्वेसु कम्मभावेसु यश्चेतयिता आत्मा स्वकीयशुद्धात्मनि श्रद्धानज्ञानानुचरणरूपेण निश्चयरत्नत्रयलक्षणभावनावलेन शुभाशुभकर्मजनितपरिणामरूपे बहिर्विषये सर्वथाऽसमूढो भवति सो खलु अमृढदिडी सम्मादिही मुणेदव्यो स खलु स्फुटं सम्यग्दृष्टिरमूढदृष्टिभंतव्यो ज्ञातव्यः । तस्य च बहिर्विषये मूढताकृतो नास्ति बंधः परसमयकृतो का । किं तु पूर्वबद्धकर्मणो निश्चितं निर्जरैक भवति।
आत्मख्यातिः-यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णायकभावमयत्वेन सर्वेष्वपि भावेषु मोहाभावादमूढइष्टिः ततोऽस्य मूढदृष्टिकृतो नास्ति बंधः किं तु निर्जरैव।
जो सिद्धभत्तिजुत्तो उवगृहणगो दु सव्वधम्माणं । सो उवगृहणगारी सम्मादिठी मुणेदव्वो ॥ २५१ ॥
यः मिद्धभक्तियुक्तः उपगृहनकस्तु सर्वधर्माणां ।
स उपगृहनकारी सम्यग्दृष्टिज्ञातव्यः ॥ २५१ ।। तात्पर्यवृत्तिः-जो सिद्धभत्तिजुत्तो उवगोहूणगो दु सव्वधम्माणं शुद्धात्मभावनारूपपारमार्थिकसिद्धभक्तियुक्तः मिथ्यात्वरागादिविभावधर्माणामुपगूहकः प्रच्छादको विनाशकः सो उवगृहणगारी सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः, उपगृहनकारी मंतव्यो ज्ञातव्यः । तस्य चानुपगृहनकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निश्चितं निर्जरैव भवति।
आत्मख्यातिः- यतो हि सम्यग्दृष्टिः, टंकोत्कीर्णेकज्ञायकभावमयत्वेन समस्तात्मशक्तीनामुपवृहणा दुपहकः, ततोऽस्य जीवस्य शक्तिदौर्बल्यकृतो नास्ति बंधः किं तु निर्जरैव ।
उम्मंगं गच्छंतं सिवमग्गे जो ठवेदि अप्पाणं । सोठिदिकरणेण जुदो सम्मादिट्ठी मुणेदब्बो ॥ २५२ ॥
उन्मार्ग गच्छंतं शिवमार्गे यःस्थापयत्यात्मानं ।
स स्थितिकरणेन युक्तः सम्यग्दृष्टिज्ञातव्यः ।। २५२॥ तात्पर्यवृत्तिः--उम्मग्गं गच्छंत सिवमग्गे जो ठवेदि अप्पाणं यः कर्ता मिथ्यात्वरागादि रूपमुन्मार्ग गच्छंतं सतमात्मानं परमयोगाभ्यासवलेन शिवमार्गे स्वशुद्धात्मभावनारूपे निश्चयमोक्षमार्गे निश्चलं स्थापयति सो ठिदिकरणेण जुदो सम्मादिही मुणेदब्बो स सम्यग्दृष्टिः स्थितिकरणयुक्तो मंतव्यो ज्ञातव्यः । तस्य चास्थितिकरणकृतो नास्ति बंधः किं तु पूर्वबद्धकर्मणहो निश्चितं निर्जरैव भवति ।
आत्मख्यातिः- यतो हि सम्यग्दृष्टि: टंकोत्कीर्णेकज्ञायकस्वभावमयत्वेन मार्गे एक स्थितिकरणात् स्थितिकारी ततोऽस्य मार्गच्यवनकृतो नास्ति बंधः किं तु निर्जरैव ।
जो कुणदि वच्छलत्तं तिण्हे साधूण मोक्खमग्गम्मि । सो वच्छलभावजुदो सम्मादिट्ठी मुणेदव्वो ॥ २५३ ॥ यःकरोति वल्सलत्वं त्रयाणां साधूनां मोक्षमार्गे।
स वात्सल्यभावयुक्तः सम्यग्दृष्टितिव्यः ॥२५३ ॥ 'सामग्गे' इत्यात्मख्यातो पाठः ।