________________
समयप्राभूत।
१२७ तात्पर्यवृत्तिः-जो कुणदि वच्छलत्तं तिहे साधण मोक्खमग्गमि यः कर्ता मोक्षमार्गे स्थिस्था वत्सलत्वं भक्तिं करोति, केषां ? स्वकीयसम्यग्दर्शनज्ञानचारित्राणो, कथंभूतानां साधूनां ? मोक्षमार्गे साधकानां अथवा ब्यवहारेण तदाधारभूतसाधूनां सो बछलभावजुदो सम्मादिही मुणेदग्बो स सम्यग्दृष्टिः वत्सलभावयुक्तो मंतव्यो जातव्यः । तस्य चावात्सल्यभावकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निजैरैव भवति ।
आत्मख्यातिः-यतो हि सम्यग्दृष्टिष्टकोत्कीर्णैकनायकभाषमयत्वेन सम्यग्दर्शनशानचारित्राणां स्वर स्मादभेदबुद्ध्या सम्यग्दर्शनान्मार्गवत्सलः, ततोऽस्य मार्गानुपलेभकृतो नास्ति बंधः किं तु निर्जरैव ।
विजारहमारुढो मणोरहरएसु हणदि जो चेदा । सो जिणणाणपहावी सम्मादिट्ठी मुणेदव्वो ॥२५४॥ विधारथमारूढः मनोरथरयान् हंति यश्चेतयिता ।
स जिनज्ञानप्रभावी सम्यग्दृष्टिातव्यः ॥२५४॥ तात्पर्यटत्तिः -विजारहमारुढो मणोरहरएसु हणदि जो चेदा यश्चेतयिता आत्मा स्वशुधात्मतत्त्वोपलब्धिस्वरूपविद्यारथमारुढ़ःसन् ख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधादिविभावपरिणामरूपान् द्रव्यक्षेत्रादिपंचप्रकारसंसारदुःखकारणान् शत्रून् मनोरथरयान् वेगांश्चित्तकल्लोलान् स्वस्थभावसारथिवलेन इदतरध्यानखङ्गेन हति । सो जिणणाणपहावी सम्मादिही मुणेदव्यो स सम्यग्दृष्टिर्जिनज्ञानप्रभावी मंतव्यो ज्ञातव्यः। तस्य चाप्रभावनाकृतो नास्ति बंधः किं तु पूर्वसंचितकर्मणो निश्चितं निर्जरैव भवति । एवं संघरपूर्विकाया भावनिर्जराया उपादानकारणभूतानां शुद्धात्मभावनारूपाणां शुद्धनयमाश्रित्य निश्शंकाघष्टगुणानां व्याख्यानमुख्यत्वेन गाथानवकं गतं ।
इदं तु निश्शंकाद्यष्टगुणव्याख्यानं निश्चयनयमुख्यत्वेन व्याख्यातं । निश्चयरत्नत्रयसाधके व्यवहाररत्नत्रयेऽपि स्थितस्य सरागसम्यग्दृष्टेरप्यंजनचौरादिकथारूपेण व्यवहारनयेन यथासंभवं योजनीयं । निश्चयं व्याख्याय पुनरपि किमर्थ व्यवहारनयव्याख्यानं ! इति चेन्नैवं । अग्निसुवर्णपाषाणयोरिव निश्चयव्यवहारनययोः परस्परसाध्यसाधकभावदर्शनार्थमिति तथाचोक्तं
जेइजिणसमई पउंजह तामा ववहाराणच्छए मुवह ।
एकण विणा छिज्जइ तित्थं अण्णेण पुण तच्चं । इति किं च-संवरपूर्विका निर्जरा या व्याख्याता सा सम्यग्दृष्टेर्जीवस्य शुद्धात्मसम्यक्श्रद्धानज्ञानानुष्ठानरूपे मुख्यवृत्त्या निश्चयररत्नत्रये सति वीतरागधर्मध्यानशुक्लध्यानरूपे शुभाशुभबहिर्द्रव्यनिरालंबने निर्विकल्प समाधौ सति भवति स च समाधिरतीव दुर्लभः । कस्मात् ? इति चेत् एकेंद्रियविकलोंद्रियपंचेन्द्रियसंज्ञिपर्याप्त मनुष्यदेशकुलरूपेंद्रियपटुत्वनिर्व्याध्यायुष्कवरबुद्धिसद्धर्मश्रवणग्रहणधारणश्रद्धानसंयमविषयसुखव्यावर्तनक्रोधा दिकषायनिवर्तनतपोभावनासमाधिमरणानि परंपरादुर्लभानि यतः । तदपि कस्मात् ? तत्प्रतिपक्षभूतानां मिथ्यात्वविषयकषायख्यातिपूजालाभभोगाकांक्षारूपनिदानबंधादिविभावपरिणामानां प्रवलत्वात् इति दुर्लभपरंपरां ज्ञात्वा सर्वतात्पर्येण समाधौ प्रमादो न कर्तव्यः।
तदप्युक्तंइत्यतिदुर्लभरूपां बोधिं लब्ध्वा यदि प्रमादी स्यात् ।
संसृतिभीमारण्ये भ्रमति वराको नरः सुचिरं ॥ इति । इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ गाथाचतुष्टयं पीठिकारूपेण, ___ गाथापंचकं ज्ञानवैराग्यशक्त्योः सामान्यविवरणरूपेण, गाथादशकं तयोरेव विशेषविवरणरूपेण, गाथाष्टकं ज्ञानगुणस्य सामान्यविवरणरूपेण, गाथाचतुर्दश
तस्यैव विशेषविवरणरूपेण, गाथानवकं निश्शंकाद्यष्टगुणकथनरूपेण । . "मनोरहपहेस भमह जो चेदा" पाठोऽयमात्मख्याती ।