________________
“१२८
सनातनजैनग्रंथमालायांघेति समुदायेन पंचाशद्गाथाभिः षडभिः रंतराधिकारैः
___ सप्तमो निर्जराधिकारः समाप्तः । तत्रैवं सति शृंगाररहितपात्रवत् शांतरसरूपेण निर्जरा निष्क्रांता।
आत्मख्याति:-यतो हि सम्यग्दृष्टिष्टंकोत्कीर्णेकज्ञानभावमयत्वेन ज्ञानस्य समस्तशक्तिप्रबोधेन प्रभावजननात्प्रभावनकरः ततोस्य ज्ञानप्रभावनाप्रकर्षकृतो नास्ति बंधः किं तु निर्जरैव ।
रुंधन बंध नवमिति निजैः संगतोऽष्टाभिरंगैः प्राग्बद्धं तु क्षयमुपनयन् निर्जराज्जंभणेन । सम्यग्दृष्टिः स्वयमतिरसादादिमभ्यांतमुक्तं ज्ञानं भूत्वा नटति गगनाभोगरंगं विगाह्य ॥१५६॥
___ इति निर्जरा निष्कांता . इति समयसारव्याख्यायामात्मख्याती षष्ठोऽकः।
तात्पर्यवृत्तिः-अथ प्रविशति बंधः । तत्र जहणाम कोवि पुरिसो इत्यादि गाथामादिं कृत्वा पाठक्रमेण षट्पंचाशद्गाथापयतं व्याख्यानं करोति । तासु षट्पंचाशद्गाथासु मध्ये प्रथमतस्तावद् बंधस्वरूपसूचनमुख्यत्वेन गाथादशकं.। तदनंतरं निश्चयेन हिंसाहिंसाव्रताव्रतद्वयस्य लक्षणकथनरूपेण जो मण्णदि हिंसामि इत्यादि गाथासप्तकं । ततः परं बहिरंगद्रव्यहिंसा भवतु मा भवतु, निश्चयेन हिंसाध्यवसाय एव हिंसेति प्रतिपादनरूपेण जो मरदि इत्यादि' गाथाषद्कं । अथानंतरं निश्चयरत्नत्रयलक्षणं यद्भेदविज्ञानं तस्माद्विलक्षणानि यानि व्रताव्रतानि तद्व्याख्यानमुख्यत्वेन एवमलिऐ इत्यादि सूत्रभूतगाथाद्वयं । तदनंतरं तस्यैव भावपुण्यपापरूपव्रताव्रतस्य शुभाशुभबंधकारणभूतस्य परिणामव्याख्यानमुख्यत्वेन वत्थु पदुच्च इत्यादि गाथात्रयोदश । एवं समुदायेन पंचदश । तदनंतरं निश्चये स्थित्वा व्यवहारो निषेध्यत इति कथनरूपेण ववहारणओ इत्यादि सूत्रषद्कं । अतः परं रागद्वेषरहितज्ञानिनां प्राशुकानपानाद्याहारो, बंधकारणं न भवति इति पिंडशुद्धिव्याख्यानरूपेण आधाकम्मादीया इत्यादि सूत्रचतुष्टयं । तदनंतरं क्रोधादिकषायाः कर्मबंधनिमित्तं भवंति तेषां च चेतनाचेतनबहिर्द्रव्यं निमित्तं भवतीति प्रतिपादनरूपेण जह फलिहमाण विसुद्धो इत्यादि सूत्रपंचकं । तदनंतरमप्रतिक्रमणमप्रत्याख्यानं च बंधकारणं भवति न पुनः शुद्धात्मेति व्याख्यानमुख्यत्वेन अप्पडिकमणं इत्यादिगाथात्रयं चेति समुदायेन षट्पंचाशद्गाथाभिरष्टांतराधिकरैः बंधाधिकारे समुदायपातानका । तद्यथा बहिरात्मजीवसबंधिनो बंधकारणभूतस्य श्रृंगारसहितपात्रस्थानीयस्य मिथ्याज्ञानस्य नाटकरूपेण प्रविशतः सतः शांतरसपारणतं वीतरागसम्यक्त्वाविनाभूतं भेदज्ञानप्रतिषेधं करोतीति उपदिशति ।
आत्मख्याति:-अथ प्रविशति बंधः।। रोगोद्गारमहारसेन सकलं कृत्वा प्रमत्तं जगत्क्रीडतं रसभारनिर्भरमहानाट्येन बंधं धुनत् । आनंदामृतनित्यभोज सहजावस्थां स्फुटं नाटयद्वीरोदारमनाकुलं निरुपधिज्ञानं समुन्मज्जति ॥१५॥
जह णाम कोवि पुरिसो णेहभत्तोदु रेणुवहुलम्मि । ठाणम्मि ठाइदूणय करदि सत्थेहि वायामं ॥२५५॥ छिंददि भिंदंदि य तहा तालीतलकदलिवंसपिंडीओ।
सचित्ताचित्ताणं करेदि दवाणमुवघादं ॥२५६॥ १ गगनलक्षणं यच्छुद्धस्वरूपं तस्याभोगो विस्तारः सएव रंगो नाट्यशाला । २ रागशब्द उपलक्षणं तेन द्वेषमोहादीनामपि प्रहणं तस्य उदार आधिक्यं स एव महारस उन्मादकरसः तेन रागोद्गारमहारसेन । ३ वेपयत् ।