________________
१२२
समयप्राभृतं । उवधादं कुव्वंतस्स तस्स णाणाविहेहि करणेहिं । णिच्छयदो चिंतिनदु किं पञ्चयगोदु तस्स रयवंधो ॥२५७॥ जो सो दुणेहभावो तमि गरे तेण तस्स रयवंधो । णिच्छयदो विण्णेयं ण कायचेट्टाहिं सेसाहिं ॥२५॥ एवं मिच्छादिट्ठी वलुतो वहुविहासु चेट्टासु । रागादी उवओगे कुव्वंतो लिप्पदि रयेण ॥२५९॥
यथा नाम कोऽपि पुरुषः नहाभ्यक्तस्तु रेणुबहुले । स्थाने स्थित्वा करोति शस्त्रायामं ॥२५५॥ छिनत्ति भिनत्ति च तथा तालीफलकदलीवंशपिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं ॥२५॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्चयतश्चित्यतां किंप्रत्ययकस्तु तस्य रजोबंधः ॥२५७।। यः स तु स्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंधः । निश्चयतो विज्ञेयं न कायचेष्टाभिः शेषाभिः ॥ २५८ ॥ एवं मिथ्यादृष्टिर्वर्तमानो बहुविधासु चेष्टासु ।
रागादीनुपयोगे कुर्वाणो लिप्यते रजसा ॥ २५९ ॥ तापर्यवृत्तिः-जहणाम कोवि पुरिसो इत्यादि व्याख्यानं क्रियते-यथा नाम स्फुटमहो वा कश्चिरपुरुषः महाभ्यक्तः सन् रजोवहुलस्थाने स्थित्वा शस्त्रैर्व्यायाममभ्यासं श्रमं करोति इति प्रथमगाथा गता।
छिनत्ति भिनत्ति च तथा, कान् ? तालतमालकदलीवंशाशोकसंज्ञान् बृक्षविशेषान् तत्संबंधिसचित्ताचित्तद्रव्याणामुपघातं च करोति इति द्वितीयगाथा गता।
उपघातं कुर्वाणस्य तस्य नानाविधैर्वैशाखस्थानादिकरणविशेषनिश्चयतश्चिंत्यतां विचार्यतां किंप्रत्ययकः किंनिमित्तकः रजोबंधः ! इति पूर्वपक्षरूपेण गाथात्रयं गतं । अत्रोत्तरं
यः स्नेहभावस्तस्मिन्नरे स पूर्वोक्तस्तैलाभ्यंगनरूपः तेन तस्य रजोबंध इति निश्चयतो विज्ञेयं न काया- . दिव्यापारचेष्टाभिः शेषाभिरित्युत्तरगाथा । एवं सूत्रचतुष्टयेन प्रश्नोत्तररूपेण दृष्टांतो गतः । अथ दार्टीतमाह एवं मिच्छादिही वलुतो वहुविहासु चेट्ठासु एवं पूर्वोक्तदृष्टांतेन मिथ्यादृष्टिर्जीवः विविधासु कायव्यापारचेष्टासु वर्तमानः रागादी उवआगे कुव्वंतो लिप्पदि रयेण शुद्धात्मतत्त्वसम्यक्श्रद्धानज्ञानानुचरणरूपाणां सम्यग्दर्शनज्ञानचारित्राणामभावात् मिथ्यात्वरागाद्युपयोगान् परिणामान् कुर्वाणः सन् कर्मरजसा लिप्यते बध्यत इत्यर्थः । एवं यथा तैलम्रक्षितस्य रजोबंधो भवति तथा मिथ्यात्वरागादिपरिणतस्य जीवस्य कर्मबंधो भवति इति बंधकारणतात्पर्यकथनरूपेण सूत्रपंचकं गतं ।
अथ गाथापंचकेन वीतरागसम्यग्दृष्टंबंधाभावं दर्शयति
आत्मख्याति:- इह खलु यथा कश्चित् पुरुषः स्नेहाभ्यक्तः स्वभावत एव रजोवहुलायां भूमौ स्थितः शस्त्रव्यायामकर्म कुर्वाणः, अनेकप्रकारकरणः सचित्ताचित्तवस्तूनि निघ्नन् रजसा बध्यते । तस्य कतमो बंध हेतुः ! न तावत्स्वभावत एव रजोवहुला भूमिः, स्नेहानभ्यक्तानामपि तत्रस्थानां तत्प्रसंगात् । न शस्त्रन्यायामकर्म, मेहानभ्यक्तानामपि तस्मात् तत्प्रसंगात् । नानेकप्रकारकरणानि, स्नेहानभिव्यक्तानामपि तैस्त