________________
१३०
सनातन जैनग्रंथमालायां
प्रसंगात् । न सचित्ताचित्तवस्तूपघातः, स्नेहानभिव्यक्तानामपि तस्मिंस्तत्प्रसंगात् । ततोम्यायवलेनैवैतदायातं यत्तस्मिन् पुरुषे स्नेहाभ्यंग करणं संबंधहेतुः । एवं मिध्यादृष्टिः, आत्मनि रागादीन् कुर्वाणः स्वभावत एव कर्मयोग्य पुद्गलबहुले लोके कायवाङ्मनःकर्म कुर्वाणोऽनेकप्रकारकरणैः सचित्ताचित्तवस्तूनि विघ्नन् कर्मरजसा बध्यते । तस्य कतमो बंधहेतुः ? न तावत्स्वभावत एव कर्मयोग्यपुद्गलबहुलो लोकः, सिद्धानामपि तत्रस्थानां तत्प्रसंगात्। न कायवाङ्मनः कर्म, यथारख्यातसंयतानामपि तत्प्रसंगात् । नानेकप्रकारकरणानि, केवलज्ञानिनामपि तत्प्रसंगात् । न सचित्ताचित्तवस्तूपघातः, समितितत्पराणामपि तत्प्रसंगात् । ततोन्यायनैतदेवायातं यदुपयोगे रागादिकरणं संबंधहेतुः ।
न कर्मबहुलं जगत् न चलनात्मकं कर्म वा न नैककरणानि वा न चिदचिद्वधो बंधकृत् । यदैक्यमु॑पयोगभूः समुपयाति रागादिभिः, स एव किल केवलं भवति बंधहेतुर्नृणां ॥ १५८ ॥ जह पुण सोचे णरो हे सव्वा अवणिये संते । रेणुवहुलम्म ठाणे करेदि सत्थेहि वायामं ॥ २६० ॥ छिंददि भिंददि य तहा तालीतलकदलिवंसपिंडोओ । सच्चित्ताचित्ताणं करेदि दव्वाणमुवघादं ॥ २६१|| उवघादं कुव्वतस्स तस्स णाणाविहिं करणेहिं । णिच्छयदो चिंतिजहु किंपच्चयगो ण तस्स रयबंधो ॥२६२॥ जो सोदु णेहभावो ह्नि परे तेण तस्स रयवंधो । णिच्छयदो विण्णेयं ण काय | हिं साहि ॥ २६३ ॥ एवं सम्मादिट्ठी तो बहुविहेसु जोगेसु । अकरंतो उवओगे रागादी व वज्झदि रयेण ॥ २६४ ॥
यथा पुनः स चैव नरः स्नेहे सर्वस्मिन्नपनीते सति । रेणुवहु स्थाने करोति शस्त्रैर्व्यायामं ॥ २६० ॥ छिनत्ति भिनत्ति च तथा तालीतलकदलीवंश पिंडीः । सचित्ताचित्तानां करोति द्रव्याणामुपघातं || २६१ ॥ उपघातं कुर्वतस्तस्य नानाविधैः करणैः । निश्वयतो विज्ञेयं किंमत्ययको न रजोबंधः ॥२६२॥ यः स, अस्नेहभावस्तस्मिन्नरे तेन तस्य रजोबंधः । निश्चयतो विज्ञेयं न काय चेष्टाभिः शेषाभिः || २६३॥ एवं सम्यग्दृष्टिर्वर्तमानो बहुविधेषु योगेषु । अकुर्वन्नुपयोगे रागादीन् न लिप्यते रजसा || २६४ ॥
तात्पर्यवृत्तिः - यथा स एव पूर्वोक्तो नरः स्नेहे सर्वस्मिन्नपनीते सति धूलिबहुलस्थाने शस्त्रैर्व्यायाम, अभ्यासं श्रमं करोतीति प्रथमगाथा गता । छिनति भिनति च तथा, कान् ? तालतमालकदलीवंश • पिंडीसंज्ञान् वृक्षविशेषान् । तत्सबंधिसचित्ताचित्तद्रव्याणामुपघातं च करोति इति द्वितीयगाथा गता । उप
१ मात्मा ।