________________
समयप्राभृतं । घातं कुर्वाणस्य तस्य नानाविधैवैशाखस्थानादिकरणविशेषैः, निश्चयतश्चिंत्यता विचार्यता किंप्रत्ययकः किंनिमित्तकः, तस्य रजोबंधो न भवति । एंव प्रश्नरूपेण गाथात्रयं गतं । अत्रात्तरं यः स्नेहभावस्तस्मिनरे स पूर्वोक्तस्तैलाभ्यंगरूपः, तेन स तस्य रजाबंधः, इति निश्चयतो विज्ञेयं । न कायादिव्यापारचेष्टाभिः शेषाभिः, तदभावात् तस्य बंधो नास्तीत्यभिप्रायः, इत्युत्तरगाथा गता। एवं सूत्रचतुष्टयेन प्रश्नोत्तररूपेण दृष्टांतो गतः। अथ दार्टीतमाह
एवं सम्मादिही वलुतो वहुविहेसु जोगेसु एवं पूर्वोक्तदृष्टांतेन सम्यग्दृष्टिर्जीवः विविधयोगेषु नाना प्रकारमनावचनकायव्यापारेषु वर्तमानः । अकरंतो उवओगे रागादी निर्मलात्मतत्त्वसम्यश्रद्धानज्ञानानुष्ठानरूपाणां सम्यग्दर्शनज्ञानचारित्राणां सद्भावात् रागाद्युपयोगान् परिणामानकुर्वाणः सन्
व वज्झदि रयेण कर्मरजसा न बध्यते । एवं तैलम्रक्षणाभावे यथा रजोबंधो न भवति तथा वीतराग, सम्यग्दृष्टेर्जीवस्य रागाद्यभावाबंधो न भवति, इति बंधाभावकारणतात्पर्यकथनरूपेण गाथापंचकं गतं । किं च यथात्र पातनिकायां भणितं, संज्ञानिजीवस्य शांतरसे स्वामित्वं, अज्ञानिनस्तु शृंगाराद्यष्टरसाना स्वामित्वं, तथाध्यात्मविषये नाटकावतारप्रस्तावे नवरसानां स्वामित्वं ज्ञातव्यं । इति सूत्रदशकसमुदायेन प्रथमस्थलं गतं ।
भथ वीतरागस्वस्थभावं मुक्त्वा हिंस्यहिंसकभावेन परिणमनमज्ञानिजीवलक्षणं । तद्विपरीतं संज्ञानिलक्षणमिति प्रज्ञापयति__आत्मख्यातिः-यथा स एव पुरुषः स्नेहे सर्वस्मिन्नपनीते सति तस्यामेव स्वभावत एव रजोबहुलायां भूमौ तदेव शस्त्रव्यायामकर्म कुर्वाणस्तैरेवानेकप्रकारकरणैस्तान्येव सचित्ताचित्तवस्तूनि निघ्नन् रजसा न बध्यते स्नेहाभ्यंगस्य बंधहेतोरभावात् । तथा सम्यग्दृष्टिः, आत्मनि रागादीनकुर्वाणः सन् तस्मिन्नेव स्वभावत एव कर्मयोग्यपुद्गलबहुले लोके तदेव कायवाङमनःकर्म कुर्वाणः, तैरेवानकप्रकारकरणैः, तान्येव सचित्ताचित्तवस्तूनि निघ्नन् कर्मरजसा न बध्यते रागयोगस्य बंधहेतोरभावात् । लोकः कर्म ततोऽस्तु सोऽस्तु न परिस्पंदात्मकं कर्म तत् तान्यस्मिन् करणानि संतु चिदचिद्व्यापादनं चास्तु तत्। रागादीनुपयोगभूमिमनयन् ज्ञानं भवन् केवलं बंधं नैव कुतोप्युपेत्ययमहो सम्यग्दृगात्मा ध्रुवः ॥१५९॥ सथापि न निरर्गलं चरितमीक्षते ज्ञानिनां तदायतनमेव सा किल निरर्गला व्यापृतिः । अकामकृतकर्म तन्मतमकारणं ज्ञानिनां द्वयं न हि विरुध्यते किमु करोति जानाति च ॥१६॥
जानाति यः स न करोति करोति यस्तु जानात्ययं न खलु तत्किल कर्मरागः रागं त्वबोधमयमध्यवसायमाहुर्मिध्यादृशः स नियतं स हि बंधहेतुः ॥२६१॥ जो मण्णदि हिंसामिय हिंसिजामिय परेहि सत्तेहिं ।
सो मूढो अण्णाणी णाणी एत्तोदु विवरीदो ॥२६५।। ----- यो मन्यते हिनस्मि हिंस्ये च परैः सत्त्वे ।
स मृढोऽज्ञानी ज्ञान्यतस्तु विपरीतः ॥ २६५ ॥ तापर्यवृत्तिः-जो मण्णदि हिंसामिय हिंसिज्जामिय परेहिं सत्तेहिं सो मूढो अण्णाणी यो मन्यते जीवानहं हिनस्मि परैः सत्वैरहं हिंस्ये इति च योसौ परिणामः स निश्चितमज्ञानः स एव बंधहेतुः, स परिणामो यस्यास्ति स चाज्ञानी । णाणी एत्तोदु विवरीदो एतस्माद्विपरीतो यो जीवितमरणलाभालाभसुखदुःखशत्रुमित्रनिंदाप्रशंसादिविकल्पविषये रागद्वेषरहितशुद्धात्मभावनासंजातपरमानंदसुखास्वादरूपे वा भेदज्ञाने रतः स ज्ञानीत्यर्थः । .. अथ कथमयमध्यवसायः पुनरज्ञानं ? इति चेत्