________________
सनातनजैनग्रंथमालायांजो धम्मं तु मुइत्ता जाणदि उवओगमय्यगं सुद्धं ।
तं धम्मसंगमुकं परमवियाणया विति ॥१३५॥ । . यः धर्म तु मुक्त्वा जानाति उपयोगमयकं शुदं ।
तं धर्मसंगमुक्तं परमार्थविज्ञायका विदंति ॥१३५॥ तात्पर्यवृत्तिः-जो धम्मं तु मुइत्ता जाणदि उवओगमप्पगं सुद्धं यः परमयोगींद्रः स्वसंवेदनज्ञाने स्थित्वा शुभोपयोगपरिणामरूपं धर्म पुण्यसंगं त्यक्त्वा निजशुद्धात्मपरिणताभेदरत्नत्रयलक्षणेनाभेदज्ञानेन जानत्यनुभवति । कं कर्मतापन्नं आत्मानं । कथंभूतं विशुद्धज्ञानदर्शनोपयोगपरिणतं । पुनरपि कथंभूतं । शुद्धं शुभाशुभसंकल्पविकल्परहितं । तं धम्मसंग मुकंपग्मवियाणया विति । तं परमतपोधनं निर्विकारस्वकीयशुद्धात्मोपलंभरूपनिश्चयधर्मविलक्षणभोगांकांक्षास्वरूपनिदानबंधादिपुण्यपरिग्रहरूपव्यवहार धर्मरहितं विदंति जानंति । के ते? परमार्थविज्ञायकाः प्रत्यक्षज्ञानिन इति । किं च कथंचित्परिणामित्वे सति जीवः शुद्धोपयोगेन परिणमति पश्चान्मोक्षं साधयति परिणामित्वाभावे वद्धो वद्ध एव शुद्धोपयोगरूपं परिणामांतरस्वरूपं न घटते ततश्च मोक्षाभाव इत्यभिप्रायः। एवं शुद्धोपयोगरूपज्ञानमयपरिणामगुणव्याख्यानमुख्यत्वेन गाथात्रयं गतं । तदनंतरं यथा ज्ञानमयोऽज्ञानमयभावद्वयस्य कर्ता भवति तथा कथयति ।
जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स । णाणिस्स दु णाणमओ अण्णाणमओ अणाणिस्स ॥१३६॥ यं करोति भावमात्मा कर्ता स भवति तस्य कर्मणः ।
ज्ञानिनः स ज्ञानमयोऽज्ञानिमयोऽज्ञानिनः ॥१३६॥ तात्पर्यत्तिः-जं कुणदि भावमादा कत्ता सो होदि तस्स भावस्स यं भावं परिणाम करोत्यात्मा स तस्यैव भावस्यैव कर्ता भवति णाणिस्स दुणाणमओ स च भावोऽनंतज्ञानादिचतुष्टयलक्षणकार्यसमयसारस्योत्पादकत्वेन निर्विकल्पसमाधिपरिणामपरिणतकारणसमयसारलक्षणेन भेदज्ञानेन सर्वारंभपरिणतत्वाजानिनो जीवस्य शुद्धात्मख्यातिप्रतीतिसंवित्युपलब्ध्यनुभूतिरूपेन ज्ञानमय एव भवति
अण्णाणमओ अणाणिस्स अज्ञानिनस्तु पूर्वोक्तभेदज्ञानाभावात् शुद्धात्मानुभूतिस्वरूपाभावे सत्यज्ञानमय एव भवतीत्यर्थः । अथ ज्ञानमयभावात्फलं भवति किमज्ञानमयाद्भवतीति प्रश्ने प्रत्युत्तरमाह ।
आत्पख्यातिः-एवमयमात्मा स्वयमेव परिणामस्वभावोपि यमेव भावमात्मनः करोति तस्यैव कर्मतामापद्यमानस्य कर्तृत्वमापद्येत । स तु ज्ञानिनः सम्यक्स्वपरविवेकेनात्यंतोदितविविक्तात्मख्यातित्वात् ज्ञानमय एव स्यात् अज्ञानेन तु सम्यक्वपरविवेकाभावेनात्यंतप्रत्यस्तमितविविक्तात्मख्यातित्वादज्ञानमय एव स्यात् । किं ज्ञानमयभावात्किमज्ञानमयाद्भवतीत्याह ।
अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि । णाणमओ णाणिस्स दुण कुणदि तमा दु कम्माणि॥१३७॥
अज्ञानमयो भावोऽज्ञानिनः करोति तेन कर्माणि ।
ज्ञानमयो : ज्ञानिनस्तु न करोति तस्मात्तु कर्माणि ॥१३७॥ तात्पर्यत्तिः-अण्णाणमओ भावो अणाणिणो कुणदि तेण कम्माणि स्वोपलब्धिभावनाविलक्षणत्वेनाज्ञानमयभावो भण्यते । कस्मात् । यस्मात्तेन भावेन परिणामेन कर्माणि करोत्यज्ञानी जीवः ।
कम्मस्स इसपि पाठः।