________________
सनातमजैनग्रंथमालायांतह तं णाणावरणाइ परिणदं मुणसु त चेव ॥१२७॥ जीवे न स्वयं बद्धं न स्वयं परिणमते कर्मभावेन । यदि पुद्गलद्रव्यमिदमपरिणामि तदा भवति ॥१२३॥ कार्मणवर्गणासु चापरिणममाणासु कर्मभावेन । संसारस्याभावः प्रसजति सांख्यसमयो वा ॥१२४॥ जीपः परिणामयति पुद्गलद्रव्याणि कर्मभावेन । तानि स्वयमपरिणममानानि कथं नु परिणामयति चेतयिता ॥१२५॥ अथ स्वयमेव हि परिणमते कर्मभावेन पुद्गलद्रव्यं ।। जीवः परिणामयति कर्म कर्मत्वमिति मिथ्या ॥१२॥ नियमात्कर्मपरिणतं कर्म चैत्र भवति पुद्गलद्रव्यं ।
तथा तद्ज्ञानावरणादिपरिणतं जानीत तच्चैवं ॥१२७॥ तात्पर्यवृत्तिः-जीवेण सयं बद्धं जीवे अधिकरणभूते न स्वयं स्वभावेन पुद्गलद्रव्यकर्मबद्धं नास्ति । कस्मात् सर्वदा जीवस्य शुद्धत्वात् ण सयं परिणमदि कम्मभावेण न च स्वयं स्वयमेव कर्मभावेन द्रव्यकर्मपर्यायेण परिणमति । कस्मात् सर्वथा नित्यत्वात् । जदि पुग्गलदव्वमिणं एवमित्थंभूतमिदं पुद्गलद्रव्यं यदि चेद्भवतां सांख्यमतानुसारिणां अप्परिणामी तदा होदि ततः कारणात्तत्पुद्गलद्रव्यमपरिणाम्येव भवति। ततश्चापरिणामित्वे सति किं दूषणं भवति । अथ–कार्मणवर्गणाभिरपरिणमतीभिः कर्मभावेन द्रव्यकर्मपर्यायेण तदा संसारस्याभावः प्रसजति प्रामोति हे शिष्य सांख्यसमयवदिति । अथ मतं । जीवोपरिणामयदे पुग्गलदव्वाणि कम्मभावेण जीवः कर्ता कर्मवर्गणायोग्यपुद्गलद्रव्याणि ज्ञानावरणादिकर्मभावेन द्रव्यकर्मपर्यायेण हठात्परिणामयति ततः कारणात्संसाराभावदूषणं न भवतीति चेत् ते सय. मपरिणमंतं कहं तु परिणामयदि णाणी ज्ञानीजीवःस्वयमपरिणममानः सन्तत्पुद्गलद्रव्यं किं स्वयमपरिणममानं परिणममानं वा परिणमयेत् । न तावदपरिणममानं परिणमयति न च स्वतोसती शक्तिः कर्तुमन्येन पार्येत । तथा जपापुष्पादिकं कर्तृस्फटिके जनयत्युपाधि तथा काष्ठस्तंभादौ किं न जनयतीति । अथैकांतेन परिणममानं परिणमयति । तदपि न घटते । नहि वस्तुशक्तयः परमपेक्षते तर्हि जीवनिमित्तकर्तारमंतरेणापि स्वयमेव कर्मरूपेण परिणमतु। तथा च सति किं दूषणं । घटपटस्तंभादिपुद्गलानां ज्ञानावरणादिकर्मपरिणतिः स्यात् । स च प्रत्यक्षविरोधः । ततः स्थिता पुद्गलानां स्वभावभूता कथंचित्परिणामित्वशक्तिः तस्यां परिणामशक्तौ स्थितायां स पुद्गलः कर्ता । यं स्वस्य संबंधितं ज्ञानावरणादिद्रव्यकर्मपरिणामं पर्यायं करोति तस्य सएवोपादानकारणं कलशस्य मृत्पिडमिव । न च जीवः स तु निमित्तकारणमेव हेयतत्त्वमिदं । तस्मात्पुद्गलाव्यतिरिक्तशुद्धपरमात्मभावनापरिणताऽभेदरत्नत्रयलक्षणेन भेदज्ञानेन गम्यश्चिदानंदैकस्वभावो निजशुद्धात्मैव शुद्धनिश्चयेनोपादेयं भेदरत्नत्रयस्वरूपं तु उपादेयो भेदरत्नत्रयसाधकत्वाद्व्यवहारेणोपादेयमिति । एवं गाथात्रयशब्दार्थव्याख्यानेन शब्दार्थो ज्ञातव्यः । व्यवहारनिश्चयरूपेण नयार्थो ज्ञातव्यः । सांख्यंप्रति मतार्थो ज्ञातव्यः । आगमार्थस्तु प्रसिद्धः । हेयोपादानव्याख्यानरूपेण भावार्थोपि ज्ञातव्यः । इति शब्दनयमतागमभावार्थाः व्याख्यानकाले यथासंभवं सर्वत्र ज्ञातव्याः । एवं पुद्गलपरिणामस्थापनामुख्यत्वेन गाथात्रयं गतं । सांख्यमतानुसारिशिष्यं प्रति जीवस्य कथंचित्परिणामस्वभावत्वं साधयति___आत्मख्यातिः-यदि पुद्गलद्रव्यं जीवे स्वयमबद्धं सत्कर्मभावेन स्वयमेव न परिणमेत तदा तदपरिणाम्येव स्यात् । तथा सति संसाराभावः । अथ जीवः पुद्गलद्रव्यं कर्मभावेन परिणमयति ततो न संसाराभावः इति तर्कः ? किं स्वयमपरिणममानं परिणममानं वा जीवः पुद्गलद्रव्यं कर्मभावेन परिणामयेत् । न