________________
९ काहत्त।
.
.
समयाभूतं । तावतस्वयमपरिणम्ममानं परेण परिणमयितुं पार्येत । नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्येत । स्वयं परिणममानं तु न परं परिणमयितारमपेक्षेत । न हि वस्तुशक्तयः परमपेक्षते । ततः पुद्गलद्रव्यं परिणामस्वभावं स्वयमेवास्तु । तथा सति कलशपरिणता मृत्तिका स्वयं कलश इव जडस्वभावज्ञानावरणादिकर्मपरिणतं तदेव स्वयं ज्ञानावरणादिकर्म स्यात् । इति सिद्धं पुद्गलद्रव्यस्य परिणामस्वभावत्वं ।
स्थितेत्यविघ्ना खलु पुद्गलस्य स्वभावभूता परिणामशक्तिः ।
तस्यां स्थितायां स करोति भावं यमात्मनस्तस्य स एव कर्ता ॥६४॥ नीवस्य परिणामित्वं साधयति ।
ण सयं वद्धो कम्मे ण सयं परिणमदि कोहमादीहिं । जदि एस तुज्झ जीवो अप्परिणामी तदा होदि ॥१२८॥ अपरिणमंते हि सयं जीवे कोहादिएहि भावेहिं । संसारस्स अभावो पसजदे संखसमयओ वा ॥१२९॥ पुग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं । तं सयमपरिणमंतं कह परिणामएदि कोहत्तं ॥१३०॥ अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी । कोहो परिणामयदे जीवस्स कोहमिदि मिच्छा ॥१३१॥ कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा। माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो ॥१३२॥ न स्वयं वद्धः कणि न स्वयं परिणमते क्रोधादिभिः । यद्येषः तव जीवोऽपरिणामी तदा भवति ॥ १२८ ।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः । संसारस्याभावः प्रसजति सांख्य समयो वा ।। १२९ ॥ पुद्गलकर्मक्रोधो जीवं परिणामयति क्रोधत्वं । तं स्वयमपरिणममानं कथं तु परिणामयति क्रोधः ॥ १३० ।। अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोधः परिणामयति जीवं क्रोधत्वामिवि मिथ्या ॥ १३१ ।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा।
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः ॥ १३२ ।। तात्पर्यवृत्तिः-ण सयं वदो कम्मो स्वयं स्वभावेन कर्मण्यधिकरणभूते एकांतेन बद्धो नास्ति सदा मुक्तत्वात् । ण सयं परिणामदिकोहमादीहिं न च स्वयं स्वयमेव द्रव्यकर्मोदयनिरपेक्षो भावक्रोधादिभिः परिणमति । कस्मादेकांतेनापरिणामित्वात्। जदि एस तुज्झ जीवो अप्परिणामी तदा होदि यदि चेदेष जीवः प्रत्यक्षीभूतः तव मताभिप्रायेणेत्थंभूतः स्यात्ततः कारणादपरिणाम्येव भवति । अपरिणामित्वे सति किं दूषणं ! अथ-अपरिणममाने सति तस्मिन् जीवे स्वयं स्वयमेव भावक्रोधादिपरिणामैः तदा संसारस्याभावः प्राप्नोति हे शिष्य सांख्यसमयवत् । अथ मतं पुग्गलकम्म कोहो जीवं परिणाम