________________
समप्रभृतं ।
निश्चयेन सम्मतएव । किंच शुद्धनिश्वयेन जीवस्याकर्तृत्वमभोक्तृत्वं च क्रोर्घादिभ्यश्च भिन्नत्वं च भवतीति व्याख्याने कृते सति द्वितीयपक्षे व्यवहारेण कर्तृत्वं भोक्तृत्वं च क्रोधादिभ्यश्चाभिन्नत्वं च लभ्यते एव । कस्मात् । निश्चयव्यवहारयोः परस्परसापेक्षत्वात् । कथमिति चेत् । यथा दक्षिणेन चक्षुषा पश्यत्ययं देवदत्तः इत्युक्ते वामेन न पश्यतीत्यनुक्तसिद्धमिति । ये पुनरेवं परस्परसापेक्षनयविभागं न मन्यते सांख्यसदाशिव मतानुसारिणस्तेषां मते यथा शुद्धनिश्चयनयेन कर्ता न भवति क्रोधादिभ्यश्च भिन्नो भवति तथा व्यवहारेणापि । ततश्च क्रोधादिपरिणमनाभावे सति सिद्धानामित्र कर्मबंधाभावः । कर्मबंधाभावे संसाराभावः संसाराभावे सर्वदा मुक्तत्वं प्राप्नोति स च प्रत्यक्षविरोधः संसारस्य प्रत्यक्षेण दृश्यमानत्वादिति । एवं प्रत्ययजीवयोरेकांतेनैकत्वनिराकरणरूपेण गाथात्रयं गतं । अत्राह शिष्यः । शुद्धनिश्चयेनाकर्ता व्यवहारेण कर्तेति बहु व्याख्यातं तत्रैवं सति यथा द्रव्यकर्मणां व्यवहारेण कर्तृत्वं तथा रागादिभावकर्मणां च द्वयोर्द्रव्यभावकर्मणोरेकत्वं प्राप्नोतीति । नैवं । रागादिभावकर्मणां योसौ व्यवहारस्तस्याशुद्धनिश्चयसंज्ञा भवति द्रव्यकर्मणां भावकर्मभिः सह तारतम्यज्ञापनार्थं । कथं तारतम्यमिति चेत् । द्रव्यकर्माण्यचेतनानि भावकर्माणि च चेतनानि तथापि शुद्ध निश्चयापेक्षया अचेतनान्येव । यतः कारणादशुद्ध निश्चयोपि शुद्ध निश्चयापेक्षया व्यव हारएव । अयमत्र भावार्थः । द्रव्यकर्मणां कर्तृत्वं भोक्तृत्वं चानुपचरितासद्भूतव्यवहारेण रागादिभावकर्मणां चाशुद्धनिश्चयेन । सचाशुद्ध निश्चयापेक्षया व्यवहारएवेति । एवं पुण्यपापादिसप्तपदार्थानां (?) पीठिका रूपे महाधिकारे सप्तगाथाभि: चतुर्थौतराधिकारः समाप्तः । अतः परं जीवेण सयं बद्धं इत्यादि गाथामादिं कृत्वा गाथाष्टकपर्यंतं सांख्यमतानुसारि शिष्य संबोधनार्थं जीवपुद्गलयोरेकांतेन परिणामित्वं निषेधयन् सन् कथंचित् परिणामित्वं स्थापयति । तत्र गाथाष्टकमध्ये पुद्गलपरिणामित्वव्याख्यानमुख्यत्वेन गाथात्रयं । तदनंतरं जीव परिणामित्वमुख्यत्वेन गाथापंचकमिति पंचमस्थले समुदायपातनिका । अथ सांख्यमतानुयायिशिष्यं प्रति पुद्गलस्य कथंचित्परिणामस्वभावत्वं साधयति ।
आत्मख्यातिः– यदि यथा जीवस्य तन्मयत्वाज्जीवादन्य उपयोगस्तथा जडः क्रोधोप्यनन्यएवेति प्रतिपत्तिस्तदा चिद्रूपजडयोरनन्यत्वाज्जीवस्योपयोगमयत्ववज्जड क्रोधमयत्वापत्तिः । तथा सति तु य एव जीवः सवाजीव इति द्रव्यांतरलुप्तिः । एवं प्रत्ययनोकर्मकर्मणामपि जीवादनन्यत्वप्रतिपत्तावयमेव दोषः । अथैतद्दोषभयादन्यएवोपयोगात्मा जीवोन्य एव जडस्वभावः क्रोधः इत्यभ्युपगमः । तर्हि यथोपयोगात्मनो जीवादन्योजडस्वभावः क्रोधः तथा प्रत्ययनोकर्मकर्माण्यप्यन्यान्येव जडस्वभावत्वाविशेषान्नास्ति जीवप्रत्यययोरेकत्वं । अथ पुद्गलद्रव्यस्य परिणामस्वभावत्वं साधयति सांख्यमतानुयायिशिष्यं प्रति ।
जीवेण सयं बद्धं ण सयं परिणमदि कम्मभावेण । जदि पुग्गलदव्वमिणं अप्परिणामी तदा होदि ॥ १२३॥ कम्मयवग्गणादि य अपरिणमतीहि कम्मभावेण । संसारस्स अभावो पसज्ज दे संखसमओ वा ॥ १२४॥ जीवो परिणामयदे पुग्गलदव्वाणि कम्मभावेण । तं सयमपरिणमंतं कह तु परिणामयदि णाणी ॥ १२५ ॥ अयमेव हि परिणमदि कम्मभावेण पुग्गलं दव्वं । जीवे परिणामयदे कम्मं कम्मत्त मिदि मिच्छा ॥ १२६॥ णियमा कम्मपरिणदं कम्मं चि य होदि पुग्गलं दव्वं ।
१ चेदा इत्यपि पाठः | २ आत्मख्यातौ तु १२४ - १२५ तमं गाथाद्वयमधिकं वर्तते ।