________________
६६.
समातनजैनग्रंथमालायां
भवति । गुणस्थानसंशिताः प्रत्यया एव कर्म कुर्वतीति सम्मतमेव । एवं शुद्धनिश्चयेन प्रत्यया एव कर्म कुर्वेतीति व्याख्यानरूपेण गाथाचतुष्टयं गतं । अथ न च जीवप्रत्यययारेकत्वमेकांतेनेति कथयति ।
आत्मख्यातिः - पुद्गलकर्मणः किल पुद्गलद्रव्यमेवैकं कर्तृ तद्विशेषाः मिथ्यात्वाविरतिकषाययोगा बंधस्य सामान्यहेतुतया चत्वारः कर्त्तारः तएव विकल्प्यमाना मिथ्यादृष्ट्या दिसयोगकेवल्यंतास्त्रयोदश कर्त्तारः। अथैते पुद्गलकर्मविपाकविकल्पत्वादत्यंतमचेतनाः संतस्त्रयोदशकर्तारः केवला एव यदि व्याप्यव्यापकभावेन किंचनापि पुद्गलकर्म कुर्युस्तदा कुर्युरेव किं जीवस्यात्रापतितं । अथायं तर्कः । पुद्गलमय मिथ्यात्वादीन् वेदयमानो जीवः स्वयमेव मिध्यादृष्टिर्भूत्वा पुद्गलकर्म करोति स किलाविवेको यतो न खल्वात्मा भाव्यभावकभावाभावात् । पुद्गलद्रव्यमयमिथ्यात्वादिवेदकोपि कथं पुनः पुद्गलकर्मणः कर्ता नाम । अथैतदायातं यतः पुद्गलद्रव्यमयानां चतुर्णी सामन्यप्रत्ययानां विकल्पास्त्रयोदश विशेषप्रत्यया गुणशब्दवाच्याः केवला एव कुर्वेति कर्माणि । ततः पुद्गलकर्मणामकर्ता जीवो गुणा एव तत्कर्तारस्ते तु पुद्गलद्रव्यमेव । ततः स्थितं पुद्गलकर्मणः पुद्गलद्रव्यमेवैकं कर्तृ । न च जीवप्रत्यययोरेकत्वं ।
जह जीवस्त अणण्णुवओगो कोधो वि तह जदि अणण्णो । जीवस्साजीवरस य एवमणण्णत्तमावण्णं ॥ १२० ॥ एवमिह जो दु जीवो सो चेव दु णियमदो तहाजीवो । अयमेयत्ते दोसो पञ्चयणोकम्मकम्माणं ॥ १२१ ॥ अह पुण अण्णो कोहो अण्णुवओगप्पगो हवदि चेदा । जह कोहो तह पच्चय कम्मं णोकम्ममवि अण्णं ॥ १२२ ॥ यथा जीवस्यानन्य उपयोगः क्रोधोपि तथा यद्यनन्यः । जीवस्य जीवस्य चैवमनन्यत्वमापन्नं ॥ १२० ॥ एवमिह यस्तु जीवः स चैव तु नियमतस्तथाजीवः । अयमेकत्वे दोषः प्रत्ययनोकर्मकर्मणां ॥ १२१ ॥ अथ पुनः अन्यः क्रोधोऽन्यः उपयोगात्मको भवति चेतयिता । यथा क्रोधस्तथा प्रत्ययाः कर्म नोकमप्यन्यत् ॥ १२२॥
तात्पर्यवृत्तिः - जह जीवस्स अणण्णुवओगो यथा जीवस्यानन्यस्तन्मयो ज्ञानदर्शनोपयोगः । कस्मात् अनन्यवेद्यत्वात् अशक्यविवेचनत्वाच्चाग्नेरुष्णत्ववत् कोहो वि तह जदि अणण्णो तथा क्रोधोपि यद्यनन्यो भवत्येकांतेन तदा किं दूषणं जीवस्साजीवस्स य एवमणण्णत्तमावण्णं एवमभेदे सति सहजशुद्धाखंडैकज्ञानदर्शनोपयोगमयजीवस्याजीवस्य चैकत्वमापन्नमिति । अथ-1 - एवमिह जो दु जीवो सो चेव दुमिदो तहाजीव एवं पूर्वोक्तसूत्रव्याख्यानक्रमेण य एव जीवः स एव तथैवाजीवः भवति नियमान्निश्चयात्। तथा सति जीवाभावाद् दूषणं प्राप्नोति । अयमेयत्ते दोसो पच्चयणो कम्मकम्माणं अयमेव च दोषो जीवाभावरूपः। कस्मिन् सति । एकांतेन निरंजन निजानंदै कलक्षणजीवेन सहैकत्वे सति । केषां । मिथ्यात्वादिप्रत्ययनोकर्मकर्मणामिति । अथ-प्राकृतलक्षणबलेन प्रत्ययशब्दस्य हस्वत्वमिति । अह पुण अण्णो are garauni हवदि चेदा अथ पुनरभिप्रायो भवतां पूर्वोक्तजीवाभावदूषण भयात् अन्योभिन्नः क्रोधो जीवादन्यश्च विशुद्धज्ञानदर्शनमय आत्मा क्रोधात्सकाशात् । जह कोहो तह पच्चय कम्मं णोकम्म म अणं यथा जडः क्रोधो निर्मल चैतन्यस्वभावजीवाद्भिन्नस्तथा प्रत्ययकर्म नोकर्माण्यपि भिन्नानि शुद्ध