________________
समयप्राभृतं ।
गुणसणिदा दु एदे कम्मं कुव्वंति पश्चया जह्मा । तझा जीव कत्ता गुणा य कुव्वंति कम्माणि ॥ ११९ ॥ सामान्यप्रत्ययाः खलु चत्वारो भण्यंते बंधकर्त्तारः । मिथ्यात्वमत्रिरमणं कषाययोगौ च बोद्धव्याः ॥ ११६ ॥ तेषां पुनरपि चायं भणितो भेदस्तु त्रयोदशविकल्पः । मिथ्यादृष्ट्यादिर्यावत्स योगिनःश्वरमांतः ॥११७॥ एते अचेतनाः खलु पुद्गलकर्मोदय संभवा यस्मात् ।
यदि कुर्वेति कर्म नापि तेषां वेदक आत्मा ॥ ११८ ॥ गुणसंज्ञितास्तु ते कर्म कुर्वेति प्रत्यया यस्मात् । तस्माज्जीवो कर्त्ता गुणाश्च कुर्वति कर्माणि ॥ ११९ ॥
1
तात्पर्यवृत्तिः -- सामण्णपच्चया खलु चउरो भांति बंधकत्तारो निश्चयनयेनाभेदविवक्षार्या पुद्गल एक एव कर्ता भेदविवक्षायां तु सामान्यप्रत्यया मूलप्रत्यया खलु स्फुटं चत्वारो बंधस्य कर्तारो भण्यंते सर्वज्ञैः : उत्तरप्रत्ययाश्च पुनर्बहवो भवंति । सामान्यं कोर्थः । विवक्षाया अभाव: सामान्यमिति सामान्यशब्दस्यार्थः सर्वत्र सामान्यव्याख्यानकाले ज्ञातव्य इति । मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ते च मिथ्यात्वाविरतिकषाययोगा वोद्धव्याः । अथ - तेसिं पुणो वि य इमो भणिदो भेदो दु तेरस - वियग्प्पो तेषां प्रत्ययानां गुणस्थानभेदेन पुनरिमो भणितो भेदस्त्रियोदशविकल्पः केन प्रकारेण मिच्छादिठ्ठी आदी जावसजोगिस्स चरमंतं मिथ्यादृष्टिगुणस्थानादिसयोगिभट्टारकस्य चरमसमयं यावदिति । अथ एदे अदणा खलु पुग्गलकम्मुदयसंभवा जह्मा एते मिथ्यात्वादिभावप्रत्ययाः शुद्धनिश्चयेनाचेतनाः खलु स्फुटं। कस्मात् पुद्गलकर्मोदयसंभवा यस्मादिति । यथा स्त्रीपुरुषाभ्यां समुत्पन्नः पुत्रो विवक्षावशेन देव - दत्तायाः पुत्रोयं केचन वदंति । देवदत्तस्य पुत्रोयमिति केचन वदंति दोषो नास्ति । तथा जीवपुद्गलसंयोगेनोत्पन्नाः मिथ्यात्वरागादिभावप्रत्यया अशुद्धनिश्चयेनाशुद्धोपादानरूपेण चेतना जीवसंबद्धाः शुद्धनिश्चयेन शुद्धोपादानरूपेणाचेतनाः पौद्गलिकाः परमार्थतः । पुनरेकांतेन न जीवरूपाः न च पुद्गलरूपाः शुद्धाहरिद्रयोः संयोगपरिणामवत् । वस्तुतस्तु सूक्ष्मशुद्धनिश्चयनयेन न संत्येवाज्ञानोद्भवाः कल्पिता इति । एतावता किमुक्तं भवति । ये केचन वदंत्येकांतेन रागादयो जीवसंबंधिनः पुद्गलसंबंधिनो वा तदुभयमपि वचनं मिथ्या । कस्मादिति चेत् पूर्वोक्तस्त्रीपुरुषदृष्टांतेन संयोगोद्भवत्वात् । अथ मतं सूक्ष्मशुद्धनिश्चयनयेन कस्येति प्रयच्छामो वयं सूक्ष्मशुद्धनिश्चयेन तेषामस्तित्वमेव नास्ति पूर्वमेवभणितं तिष्ठति कथमुत्तरं प्रयच्छामः इति ।
1
दि कति कम्मं ते प्रत्यया यदि चेत् कुर्वति कर्म तदा कुर्युरेव जीवस्य किमायातं शुद्धनिश्चयेन सम्मतमेव ‘सव्वे सुद्धा हु सुद्धणया' इति वचनात् । अथमतं । जीवो मिथ्यात्वोदयेन मिथ्यादृष्टिर्भूत्वा मिथ्यात्वरागादिभावकर्म भुंक्ते यतस्ततः कर्तापि भवतीति । नैवं । णवि तेसिं वेदगो आदा यतः शुद्धनिश्चयेन वेदकोपि न हि तेषां कर्मणां । यदा वेदको न भवति तदा कर्त्तापि कथं भविष्यति न कथमपि इति शुद्धनिश्चयेन सम्मतमेव । अथवा ये पुनरेकांतेनाकर्त्तेति वदंति तान्प्रति दूषणं कथमिति चेत् ? यदैकांतेनाकर्ता भवति तदा यथा शुद्धनिश्चयेनाकर्ता तथा व्यवहारेणप्यकर्ता प्राप्नोति । ततश्च सर्वथैवाकर्तृत्वे सति संसाराभाव इत्येकं दूषणं । तेषां मते वेदकोपि न भवतीति द्वितीयं च दूषणं । अथ च वेदकमात्मानं मन्यंते सांख्यास्तेषां स्वमतव्याघातदूषणं प्राप्नोतीति । अथ - गुणसगिदा दु एदे कम्मं कुव्वंति पञ्चवा जह्मा ततः स्थितं गुणस्थानसंज्ञिताः प्रत्ययाः एते कर्म कुर्वतीति यस्मादेवं पूर्वसूत्रेण भणितं । मा जीबो का गुणा य कुव्वति कम्माणि तस्मात् शुद्धनिश्चयेन तेषां कर्मणां जीवः कर्ता न