________________
समातनजनग्रंथमालायायया राजा व्यवहारादोषगुणोत्पादक इत्यालपितः ।
तथा जीवो व्यवहाराद्रव्यगुणोत्पादको भणितः ॥१५॥ तात्पर्यवृत्तिः-जह राया ववहारा दोसगुणुप्पादगोत्ति आलविदो यथा राजा लोके व्यवहारेण सदोषिनिर्दोषिजनानां दोषगुणोत्पादको भणितः तह जीवो ववहारा दव्वगुणुप्पादगो भणिदो तथा जीवोपि व्यवहारेण पुद्गलद्रव्यस्य पुण्यपापगुणयोरुत्पादको भणितः । इति व्यवहारमुख्यत्वेन सूत्रचतुष्टयं गतं । एवं द्विक्रियावादिनिराकरणोपसंहारव्याख्यानमुख्यत्वेनैकादशगाथा गताः।
ननु निश्चयेन द्रव्यकर्म न करोत्यात्मा वहुधा व्याख्यातं तेनैव द्विक्रियावादिनिराकरणं सिद्धं पुनरपि किमर्थं पिष्टपेषणमिति । नैवं हेतुहेतुमद्भावव्याख्यानज्ञापनार्थमिति नास्ति दोषः । तथाहि-यत एव हेतोनिश्चयेन द्रव्यकर्म न करोति ततएव हेतोििक्रयावादिनिराकरणं सिद्ध्यतीति हेतुमद्भावव्याख्यानं ज्ञातव्यं । इति पुण्यपापादिसप्तपदार्थपीठिकारूपे महाधिकारमध्ये पूर्वोक्तप्रकारेण जदि सो पुग्गलदव्वं करेज इत्यादिगाथाद्वयेन संक्षेपव्याख्यानं । ततः परं द्वादशगाथाभिस्तस्यैव विशेषव्याख्यानं ततोप्येकादशगाथाभिस्तस्यैवोपसंहाररूपेण पुनरपि विशेषविवरणमिति समुदायेन पंचविंशतिगाथाभिः द्विक्रियावादिनिषेधकनामा तृतीयोत्तराधिकारः समाप्तः। .
अथानंतरं सामण्णपच्चया इत्यादिगाथामादिं कृत्वा पाठक्रमेण सप्तगाथापर्यंतं मूलप्रत्ययचतुष्टयस्य कर्मकर्तृत्वमुख्यत्वेन व्याख्यानं करोति । तत्र सप्तकमध्ये जैनमते शुद्धनिश्चयेन शुद्धोपादानरूपेण जीवः कर्म न करोति प्रत्यया एव कुर्वतीति कथनरूपेण गाथाचतुष्टयं । अथवा शुद्धनिश्चयविवक्षां ये नेच्छंत्येकांतेन जीवो न करोतीति वदंति सांख्यमतानुसारिणः तान्प्रति दूषणं ददाति । कथमिति चेत् । यदि ते प्रत्यया एव कर्म कुर्वति तर्हि जीवो न हि वेदकस्तेषां कर्मणामित्येकं दूषणं । अथवा तेषां मते जीव एकांतेन कर्म न करोतीति द्वितीयं दूषणं । तदनंतरं शुद्धनिश्चयेन शुद्धोपादानरूपेण न च जीवप्रत्यययोरेकत्वं जैनमताभिप्रायेणेति गाथात्रयं । अथवा पूर्वोक्तप्रकारेण ये नयविभाग नेच्छंति तान्प्रति पुनरपि दूषणं । कथमिति चेत् । जीवप्रत्यययोरेकांतेनैकत्वे सति जीवाभाव इत्येकं दूषणं । एकांतेन भिन्नत्वे सति संसाराभाव इति द्वितीयं दूषणमिति चतुर्थांतराधिकारे समुदायपातनिका । तद्यथा-निश्चयेन मिथ्यात्वादि पौद्गलिकप्रत्यया एव कर्म कुर्वतीति प्रतिपादयति ।
आत्मख्याति:-यथा लोकस्य व्याप्यव्यापकभावेन स्वभावत एवोत्पद्यमानेषु गुणदोषेषु व्याप्यव्यापकभावाभावेपि तदुत्पादको राजेत्युपचारः । तथा पुद्गलद्रव्यस्य व्याप्यव्यापकभावेन स्वभावत एवोत्पद्यमानेषु गुणदोषेषु व्याप्यव्यापकभावाभावेपि तदुत्पादको जीव इत्युपचारः ।
जीवः करोति यदि पुद्गलकर्म नैव कस्तर्हि तत्कुरुत इत्यभिशंकयैव । एतर्हि तीव्ररयमोहनिवर्हणाय संकीर्त्यते शृणुत पुद्गलकर्मकर्तृ ॥६३॥ सामण्णपञ्चया खलु चउरो भण्णंति बंधकत्तारो। मिच्छत्तं अविरमणं कसायजोगा य बोद्धव्वा ॥११६॥ तेसिं पुणोवि य इमो भणिदो भेदो दुतेरसवियप्पो । मिच्छादिठ्ठीआदी जाव सजोगिस्स चरमंतं ॥११७॥ एदे अचेदणा खलु पुग्गलकम्मुदयसंभवा जमा । ते जदि करंति कम्मं णवि तेसिं वेदगो आदा ॥११८॥