________________
२८
सनातनजैनग्रंथमालायांजीपत्तं पुग्गलो पत्तो निर्वाणमुपगतोपि पुद्गल एव जीवत्वं प्राप्तः नान्यः कोपि चिद्रूपः । कस्मादिति चेत् वर्णादितादात्म्यस्य पुद्गलद्रव्यस्येव निषेधयितुमशक्यत्वादिति भवत्येव जीवाभावः । किं च संसारावस्थायामेकांतेन वर्णादितादात्म्ये सति मोक्ष एव न घटते, कस्मादिति चेत् ? केवलज्ञानादिचतुष्टयव्यक्तिरूपस्य कार्यसमयसारस्यैव मोक्षसंज्ञा सा च जीवस्य पुद्गलत्वे सति न संभवंतीति भावार्थः । एवं जीवस्य वर्णादितादात्म्ये सति जीवाभावदूषणद्वारेण गाथात्रयं गतं । अथैवं स्थितं वादरसूक्ष्मैकेंद्रियादिसंशिपचेंद्रियपर्यंतचतुर्दशजीवस्थानानि शुद्धनिश्चयेन जीवस्वरूपं न भवंति तथा देहगता. वर्णादयोपीत्यावेदयति ।
__आत्मख्यातिः यस्य तु. संसारावस्थायां जीवस्य वर्णादितादात्म्यमस्तीत्यभिनिवेशस्तस्य तदानी सजीवोरूपित्वमवश्यमवाप्नोति। रूपित्वं च शेषद्रव्यासाधारणं कस्यचिद्र्व्यस्य लक्षणमस्ति । ततो रूपित्वेन लक्ष्यमाणं यत्किंचिद्भवति स जीवो भवति । रूपित्वेन लक्ष्यमाणं पुद्गलद्रव्यमेव भवति । एवं पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरितरः कतरोपि । तथा च सति मोक्षावस्थायामपि नित्यस्वलक्षणलक्षितस्य द्रव्यस्य सर्वास्वप्यवस्थास्वनपायित्वादनादिनिधनत्वेन पुद्गलद्रव्यमेव स्वयं जीवो भवति न पुनरितरः कतरोपि । तथा च सति तस्यापि पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावात् भवत्येव जीवाभावः । एवमेतस्थितं. यद्वर्णादयो भावा न जीव इति ।
एकं च दोण्णि तिण्णि य चत्तारि य पंच इंदिया जीवा। वादरपजत्तिदरा पयडीओ णामकम्मस्स ॥७॥ एदेहिय णिवत्ता जीवट्ठाणा दु करणभूदाहिं । पयडीहिं पुग्गलमईहिं ताहि कह भण्णदे जीवो॥७॥ एकं वा द्वे त्रीणि च चत्वारि च पंचेद्रियाणि जीवोः । वादरपर्याप्तेतराः प्रकृतयो नामकर्मणः ॥ ७० ॥ एताभिश्च निवृत्तानि जीवस्थानानि करणभूताभिः !
प्रकृतिभिः पुद्गलमयीभिस्ताभिः कथं भण्यते जीवः । ७॥ तात्पर्यवृत्तिः–एकद्वित्रिचतुःपंचेंद्रियसंश्यसंज्ञिवादरपर्याप्तेतराभिधानाः प्रकृतयो भवंति । कस्य संबंधिन्यो नामकर्मण इति । अथ–एताभिरमूर्तीतींद्रियनिरंजनपरमात्मतत्त्वविलक्षणाभिर्नामकर्मप्रकृतिभिः पुद्गलमयीभिः पूर्वोक्ताभिनिवर्त्तितानि चतुदर्शजीवस्थानानि निश्चयनयेन कथं जीवा भवंति ? न कथमपि । तथाहि-यथा रुक्मेण करणभूतेन निवृत्तमसिकोशं रुक्मैव भवति तथा पुद्गलमयप्रकृतिभिर्निष्पन्नानि जीवस्थानानि पुद्गलद्रव्यस्वरूपाण्येक भवंति न च जीवस्वरूपाणि । तथा तेनैव जीवस्थानदृष्टांतेन तदाश्रिता वर्णादयोपि पुद्गलस्वरूपा भवंति न च जीवस्वरूपा इत्यभिप्रायः । अथ-ग्रंथांतरे पर्याप्तापर्याप्तवादरसूक्ष्मजीवाः कथ्यंते तत्कथं घटत इति पूर्वपक्षे परिहारं ददाति ।
आत्मख्यातिः-निश्चयतः कर्मकरणयोरभिन्नत्वात् यद्येन क्रियते तत्तदेवेति कृत्वा यथा कनकपत्रं कनकेन क्रियमाणं कनकमेव नत्वन्यत् । तथा जीवस्थानानि वादरसूक्ष्मैकेंद्रियद्वित्रिचतुःपंचेंद्रियपर्यातापर्याप्ताभिधानाभिः पुद्गलमयीभिः नामकर्मप्रकृतिभिः क्रियमाणानि पुद्गल एव नतु जीवः । नामकर्मप्रकृतीनां पुद्गलमयत्वं चागमप्रसिद्धं दृश्यमानशरीराकारादिमूर्त्तकार्यानुमेयं च । एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननान्यपि पुद्गलमयनामकर्मप्रकृतिनिर्वृत्तत्वे सति तदव्यतिरेकाज्जीवस्थानैरेवोक्तानि । ततो न वर्णादयो जीव इति निश्चयसिद्धांतः ।
निवर्त्यते येन यदत्र किंचित्तदेव तत्स्यान्न कथं च नान्यत् । रुक्मेण निवृत्तमिहासिकोशं पश्यंति रुक्मं न कथं च नासि ॥ ३८ ॥