________________
समयप्राभृतं ।
न भवति तस्य तैः सह तादात्म्यलक्षणः संबंध: स्यात् । ततः सर्वास्वप्यवस्थासु वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्च पुद्गलस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधः स्यात् । संसारावस्थायां कथंचिद्वर्णाद्यात्मकत्वव्याप्तस्य भवतो वर्णाद्यात्मकत्वव्याप्तिशून्यस्याभवतश्वापि मोक्षावस्थायां सर्वथा वर्णाद्यात्मकत्वव्याप्तिशून्यस्य भवतो वर्णाद्यात्मकत्वव्याप्तस्याभवतश्च जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो न कथंचनापि स्यात् । जीवस्य वर्णादितादात्म्यदुरभिनिवेशे दोषश्चायं ।
जीवो चैव हि दे सव्वे भावत्ति मण्णसे जदि हि । जीवस्साजीवस्स य णत्थि विसेस हि दे कोई ॥६७॥ चैव सर्वे भावा इति मन्यसे यदि हि ।
३७
जीवस्य जीवस्य च नास्ति विशेषस्तु ते कश्चित् ॥ ६७ ॥
तात्पर्यवृत्तिः - जीवो चैव हि पदे सब्बे भावात माणसे जदि हि यथानंतज्ञानाव्यावाधसुखादिगुणा एव जीवो भवति वर्णादिगुणा एव पुद्गलस्तथा जीव एव हि स्फुटमेते वर्णादयः सर्वे भावा मनसि मन्यसे यदि चेत् जीवस्साजीवस्स य णत्थि विसेसो हि दे कोई तदा किं दूषणं विशुद्धज्ञानदर्शनस्वभावजीवस्य जडत्वादिलक्षणाजीवस्य च तस्यैवमते कोपि विशेषो भेदो नास्ति । ततश्व जीवाभावदूषणं प्राप्नोतीति सूत्रार्थः । अथ संसारावस्थायामेव जीवस्य वर्णादितादात्म्यसंबंधोस्तीति दुरभिनिवेशेपि जीवाभाव एव दोष इत्युपदिशति ।
आत्मख्यातिःः यथा वर्णादयो भावाः क्रमेण भाविताविर्भावतिरोभावाभिस्ताभिः स्ताभिर्व्यक्तिभिः पुद्गलद्रव्यमनुगच्छंतः पुद्गलस्य वर्णादितादात्म्यं प्रथयंति । तथा वर्णादयो भावाः क्रमेण भाविताविर्भावतिरोभावाभिस्ताभिस्ताभिर्व्यक्तिभिर्जीवमनुगच्छंतो जीवस्य वर्णादितादात्म्यं प्रथयंतीति यस्याभिनिवेशः तस्य शेषद्रव्यासाधारणस्य वर्णाद्यात्मकत्वस्य पुद्गललक्षणस्य जीवेन स्वीकरणाज्जीवपुद्गलयोरविशेषप्रसक्तौ सत्यां पुद्गलेभ्यो भिन्नस्य जीवद्रव्यस्याभावाद्भवत्येव जीवाभावः । संसारावस्थायामेव जीवस्य वर्णादितादात्म्यमित्यभिनिवेशेप्ययमेव दोषः ।
जदि संसारत्थाणं जीवाणं तुज्झ होंति वण्णादी | तम्हा संसारत्था जीवा रूवित्तमावण्णा ॥ ६८ ॥ एवं पुग्गलदव्वं जीवो तह लक्खणेण मूढमदी । णिव्वाणमुवगदो वि य जीवत्तं पुग्गलो पत्तो ॥ ६९ ॥ अथ संसारस्थानां जीवानां तव भवंति वर्णादयः । तस्मात्संसारस्था जीवा रूपित्वमापन्नाः || ६८ ॥ एवं पुद्गलद्रव्यं जीवस्तथालक्षणेन मूढमते । निर्वाणमुपगतोपि च जीवत्वं पुद्गलः प्राप्तः ॥ ६९ ॥
तात्पर्यवृत्तिः - जदि संसारस्थाणं जीवाणं तुज्झ होंति वण्णादी यदि चेत्संसारस्थजीवानां पुद्गलस्येव वर्णादयो गुणास्तव मते न तवाभिप्रायेणैकांतेन भवतीति तम्हा संसारत्था जीवा रूवित्तमावण्णा ततः किं दूषणं संसारस्थजीवा अमूर्त्तमनंतज्ञानादिचतुष्टयस्वभावलक्षणं त्यक्त्वा शुक्लकृष्णादिलक्षणं रूपित्वमापन्ना भवंति । अथ - एवं पुग्गलदव्वं जीवो तह लक्खणेण मूढमई एवं पूर्वोक्तप्रकारेण जीवस्य रूपित्वे सति पुद्गलद्रव्यमेव जीवः नान्यः कोपि विशुद्धचैतन्यचमत्कारमात्रस्तवलक्षणेन तभिप्रायण हे मूढमते न केवलं संसारावस्थायां पुद्गल एव जीवत्वं प्राप्ताः णिव्वाणमुवगदो विय