________________
सनातनजैनग्रंथमालायांतदाधेयभूता जना मुष्यंत इति दृष्टांतगाथा गता। तह जीवे कम्माणं णोकम्माणं च पस्सिदुं वणं तथा तेन पथि सार्थदृष्टांतेन जीवेधिकरणभूते कर्मनोकर्मणां शुक्लादिवर्ण दृष्ट्रा जीवस्स एस वण्णो जिणेहि ववहारदो उत्तो जीवस्य एष वर्णो जिनैर्व्यवहारतो भणित इति दार्टीतगाथा गता । एवं रसगंधफासा संठाणादीय जे समुदिता एवमनेनैव दृष्टांतदा_तन्यायेन रसगंधस्पर्शसंस्थान संहननरागद्वेषमोहादयो ये पूर्वगाथाषट्रेन समुद्दिष्टाः सव्वे ववहारस्स य णिच्छयदण्हू ववदिसंति ते सर्वे व्यवहारनयस्याभिप्रायेण निश्चयज्ञा व्युपदिशति कथयंतीति नास्ति व्यवहारविरोधः । इति दृष्टांतदाष्टांताभ्यां व्यवहारनयसमर्थनरूपेण गाथात्रयं गतं । एवं शुद्धजीव एवोपादेय इति प्रतिपादनमुख्यत्वेन द्वादशगाथाभि द्वितीयांतराधिकारो व्याख्यातः । __अतः परं जीवस्य निश्चयेन वर्णादितादात्म्यसंबंधो नास्तीति पुनरपि दृढीकरणा) गाथाष्टकपर्यंत व्याख्यानं करोति । तत्रादौ संसारिजीवस्य व्यवहारेण वर्णादितादात्म्यं भवति मुक्तावस्थायां नास्तीति ज्ञापनार्थ तत्थभचे इत्यादिसूत्रमेकं । ततःपरं जीवस्य वर्णादितादात्म्यमस्तीति दुरभिनिवेशे सति जीवाभावो दूषणं प्राप्नोतीति कथनमुख्यत्वेन जीवो चवदि इत्यादिगाथात्रयं । तदनंतरमेकेंद्रियादिचतुर्दशजीकसमासानां जीवेन सह शुद्धनिश्चयनयेन तादात्म्यं नास्तीति कथनार्थ तथैव वर्णादितादात्म्यनिषेधार्थ च एकं च दोणि इत्यादिगाथात्रयं । ततश्च मिथ्यादृष्ट्यादिचतुर्दशगुणस्थानानामपि जीवेन सह शुद्धनिश्चयनयेन तादात्म्यनिराकरणार्थं तथैवाभ्यंतरे रागादितादात्म्यनिषेधार्थं च मोहणकम्म इत्यादिसूत्रमेकं । एक्मष्टगाथाभिस्तृतीयस्थले समुदायपातनिका । तद्यथा-अथ कथं जीवस्य वर्णादिभिः सह तादात्म्यलक्षणसंबंधो नास्तीति पृष्टे प्रत्युत्तरं ददाति ।।
___ आत्मख्यातिः-यथा पथि प्रस्थितं कंचित्साथै मुष्यमाणमवलोक्य तात्स्थ्यात्तदुपचारेण मुष्यत एष पंथा इति व्यवहारिणां व्यपदेशेपि न निश्चयतो विशिष्टाकाशदेशलक्षणः कश्चिदपि पंथा मुष्येत । तथा जीवे बंधपर्यायेणावस्थितकर्मणो नोकर्मणो वर्णमुत्प्रेक्ष्य तात्स्थ्यात्तदुपचारेण जीवस्यैष वर्ण इति व्यवहारत्तोहदेवानां प्रज्ञापनेपि न निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणाधिकस्य जीवस्य कश्चिदपि वर्णोस्ति । एवं गंधरसस्पर्शरूपशरीरसंस्थानसंहननरागद्वेषमोहप्रत्ययकर्मनोकर्मवर्गवर्गणास्पर्द्धकाध्यात्मस्थानानुभागस्थानयोगस्थानबंधस्थानोदयस्थानमार्गणास्थानस्थितिबंधस्थानसंक्लेशस्थानविशुद्धिस्थानसंयमलब्धिस्थानजीवस्थानगुणस्थानान्यपि व्यवहारतोहद्देवानां प्रज्ञापनेपि निश्चयतो नित्यमेवामूर्तस्वभावस्योपयोगगुणेनाधिकस्य जीवस्य सर्वाण्यपि न संति तादात्म्यलक्षणसंबंधाभावात् । कुतो जीवस्य वर्णादिभिः सह तादात्म्यलक्षणः संबंधो नास्तीति चेत् ।
तत्थभवे जीवाणं संसारत्थाण होत वण्णादी। संसारपमुक्काणं णत्थि दु वण्णादओ केई ॥६६॥ तत्र भव जीवानां संसारस्थानां भवंति वर्णादयः ।
संसारममुक्तानां न संति खलु वर्णादयः केचित् ॥६६॥ तात्पर्यवृत्तिः-तत्थभवे जीवाणं संसारत्थाण होंति क्ण्णादी तत्र विवक्षिताविवक्षित भवे संसारस्थानां जीवानामशुद्धनयेन वर्णादयो भवंति संसारपमुक्काणं संसारप्रमुक्तानां पत्थि दु वण्णादओ केई पुद्गलस्य वर्णादितादात्म्यक्त्तादात्म्यसंबंधाभावात् केवलज्ञानादिगुणसिद्धत्वादिपर्यायैः सह यथा तादात्म्यसंबंधोस्ति तथा वा तादात्म्यसंबंधाभावादशुद्धनयेनापि न संति पुनर्वर्णादयः केपि । इति वर्णादितादात्म्यनिषेधरूपण गाथा गता । अथ जीवस्य वर्णादितादात्म्यदुराग्रहे सति दोषं दर्शयति ।
आत्मरूपातिः-यत्किल सर्वास्वप्यवस्थासु यदात्मकत्वेन व्याप्तं भवति तदात्मकत्वव्याप्तिशून्यं